संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|चतुर्दशः पटलः| आत्रेयीशक्तिविवेचनम् चतुर्दशः पटलः राश्याधिपानां च फलानि रव्यादि वार प्रश्नफलकथनम् आश्लेषादिनक्षत्रफलकथनम् नक्षत्राधिपतिफलविचारः आत्रेयीशक्तिविवेचनम् चतुर्दशः पटलः - आत्रेयीशक्तिविवेचनम् नाक्षत्रिकचक्रफलम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल आत्रेयीशक्तिविवेचनम् Translation - भाषांतर मन्दवायुप्रिया यस्य कल्पनार्थे च वीरहा ।सा पाति जगतां लोकान् तस्याधीनमिदं जगत् ॥६५॥नाकाले म्रियते कश्चिद् यदि जानाति वायवीम् ।वायवी परमा शक्तिरिति तन्त्रार्थ निर्णयः ॥६६॥सूक्ष्मागमनरुपेण सूक्ष्मसिद्धिं ददाति या ।नराणां भजनार्थाय अष्टैश्वर्यजयाय च ॥६७॥कथितं ब्रह्मणा पूर्वं शिष्याय तनुजाय च ।लोभमोहकाक्रोधदमात्सर्यहाय च ॥६८॥तत्क्रमं परमं प्रीतिवर्धनं भूतले प्रभो ।आज्ञाचक्रस्य मध्ये तु वायवी परितिष्ठति ॥६९॥चन्द्रसूर्यग्निरुपा सा धर्माधर्मविवर्जिता ।मनोरुपा बुद्धिरुपा शरीरं व्याप्यं तिष्ठति ॥७०॥आज्ञा द्विदलमध्ये तु चतुद्र्दशमुदाह्रतम् ।वेददले वेदवर्ण वादिसान्तं महाप्रभम् ॥७१॥तदाग्निरुप सम्पन्नम् ऋग्वेदादिसमान्वितम् ।श्रृणु तद्वेदमाहात्म्यं क्रमशः क्रमशः प्रभो ॥७२॥॥ इति श्री रुद्रयामले उत्तरतन्त्रे भावप्रश्नार्थनिर्णये आज्ञाचक्रसङ्केते वेदप्रकरणे भैरवी भैरवसंवादे चतुर्दशः पटलः ॥१४॥ N/A References : N/A Last Updated : April 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP