चतुर्दशः पटलः - नक्षत्राधिपतिफलविचारः

नाक्षत्रिकचक्रफलम्


अश्लेषानाथ शुक्रो विपदमति कदा नो ददाति प्रदुःखं
दक्षे पत्रे विहारोत्तभयहराचण्डतापं न हन्ति ।

जीवः श्रीमानमोघाशाधनमपि विविधं ब्राह्मणः पीतवर्णः
पूर्वान्तः फल्गुनीशो विधुतनुजवरो नीलवर्णः स्वपत्रम् ॥३७॥

कुरुते बहुसुखवित्तं उत्तरफल्गुनीनाथो मङुलेन ।
हस्तायाः पतिश्चन्द्रो विभवमनन्तं चित्रेशो रविः ॥३८॥

अधस्तृतीयपत्रस्य नक्षत्राणि श्रृणु प्रभो ।
यासां वारविशिष्टानां प्रश्ननिष्कर्षसत्फलम् ॥३९॥

स्वातीं रविः पाति महोग्र तेजसा विनाशकाले विपरीबुद्धिदः ।
इन्दुर्विशाखां सुखदः सरस्वतीं कुजोऽनुराधां विपदां प्रबाधाम् ॥४०॥

बुधो हि पायात् सकलार्थसाधिनीं तथा हि मूलां सुखदाञ्च जीवः ।
तदा धनार्थं प्रददाति शुक्रः पूर्वन्विताऽऽषाढिकयाऽन्वितः सुखम् ॥४१॥

चतुर्थपत्रं वामस्थं महामङुलकारणम् ।
अर्थवेदरुपं तत् सर्वप्रश्नकथावृतम् ॥४२॥

विपरिते महद्‌दुखं वर्णसौख्येऽपि हानयः ।
भवन्ति तारकाणाञ्च शुभदृष्ट्या महोदयाः ॥४३॥

तत्तारकानाथगुणं शुभाशुभफलप्रदम् ।
प्रश्नवर्नसमूहानां मतमालोक्य निर्णयम् ॥४४॥

शनिः पात्युत्तराषाढां हानिरुपां विपाकदाम् ।
दुःखदारिद्रयसंयुक्तां देवनिष्ठेन बाधते ॥४५॥

रविः प्रपाति श्रवणां धनादिभिः प्रधानदेवाश्रयनिर्विकल्पाम् ।
तथा धनिष्ठां फलदां सुधांशुः कुजो विपत्तिं शतभिग्गणेशः ॥४६॥

पूर्वभाद्रपदानाथो बुधः काञ्चनवर्धनः ।
तथा लोकं महादेवोत्तरभाद्रपदापतिः ॥४७॥

बृहस्पतिः सुखोल्लासं रेवती शस्तथा भृगुः ।
ददाति परमाहलाद स्वस्व पत्रस्थराशिभिः ॥४८॥

अभिजित्तारकं पाति शनिः श्रीमान् धनप्रदः ।
फलभागं मुदा दातुं शनी राजमृगान्तिके ॥४९॥

तच्चन्द्रोच्चस्थमिति के वदन्ति परमप्रियम् ।
राहुराजा ग्रहाः क्षेत्रे अभिजित् कालवेष्टितः ॥५०॥

तत्कालं सूक्ष्मतद्रूपं यो जानाति महीतले ।
सन्ध्याकालमिति ज्ञेयं शनिराहू सुखान्तयोः ॥५१॥

तत्सन्धिकालमेवं हि सत्त्वगुणमहोदयम् ।
तत्कुम्भकं विजानीयान्मदीय देहसम्भवम् ॥५२॥

महासूक्ष्मक्षणं तद्धि कुण्डलीमण्डलं यथा ।
तस्याः प्रथमभागे च धारनाख्यः शनिः प्रभुः ॥५३॥

स्वयं ब्रह्मा मुदा भाति निरञ्जनकलेवरः ।
तस्याः शेषे रेचनाख्यः संहारविग्रहः शुचिः ॥५४॥

राहुरुपी स्वयं शम्भुः पञ्चतत्त्वविधानवित् ।
कालरुपी महादेवो विकटास्यो भयङ्करः ॥५५॥

सर्वपापानलं हन्ति चन्द्ररुपी सुधाकारः ।
कृष्णवर्णः कालयमः पुण्यापुण्यनिरुपकः ॥५६॥

द्वयोर्मध्ये सूक्ष्मरुपा तदित्कोटिसमप्रभा ।
महासत्त्वाश्रिता देवी विष्णुमायाग्रहाश्रिता ॥५७॥

अभिजित्तारका सूक्ष्मा सन्धिकाललया जया ।
कुम्भकाक्रान्तह्रदया ग्रहचक्रपुरोगमा ॥५८॥

नक्षमण्डलग्राममध्यस्था तिथिषोडशी ।
असामयी सूक्ष्मकला तरुणानन्दनिर्भरा ॥५९॥

अस्या आद्यभागसंस्थो ब्रह्मरुपो रजोगुणः ।
अस्याः शेषः कालरुपी तमोगुणालयप्रियः ॥६०॥

चन्द्रो ब्रह्मा शिवः सूर्यो महामायातनूत्तरः ।
आत्रेयी परमा शक्तिः सुषुम्नान्तरगामिनी ॥६१॥

मध्यस्था ब्रह्मशिवयोर्विधिशास्त्रस्य सिद्धिदा ।
यैर्ज्ञायते सर्वसंस्था सर्वानन्दह्रदि स्थिता ॥६२॥

तैरानन्दफलोपेतैः सत्त्वसम्भोगकारिणी ।
महाविष्णुर्महामाया चन्द्रतारास्वरुपिणी ॥६३॥

मुक्तिदा भोगदा भोग्या शम्भोराद्या महेश्वरी ।
अज्ञानवृतता घोरान्धकरकालसंहारहंसिनी ॥६४॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP