पञ्चमः पटलः - चक्रफलकथनम्
मन्त्रादिदोषादिनिर्णयः
श्रृणु चक्रफलं नाथ विचाराचारमङलम् ।
प्रासादञ्च महामन्त्रं सद्गुरोर्मुखपङ्कजात् ॥३०॥
लभ्यते यदि भाग्येन सिद्धिरेव न संशयः ।
तदभावे सिद्धिमन्त्रं दृष्टादृष्टफलोन्मुखम् ॥३१॥
महाचमत्कारकरं ह्रदयोल्लास्वर्द्धनम् ।
स्वप्ने वा सद्गुरोः स्थाने प्राप्तिमात्रेण मुक्तिदम् ॥३२॥
तन्मंन्त्र वर्जयित्वा च घोरान्धकारौरवे ।
वसन्ति सर्वकालं च ममाज्ञावशभागिनी ॥३३॥
तत्रैव चक्रसारादि विचारं व्यर्थभाषणम् ।
अरिमन्त्रं महापुण्य़ं सर्वमन्त्रोत्तमोत्तमम् ॥३४॥
कोटिजन्मर्जितैः पुण्यैर्महाविद्याश्रयी भवेत् ।
स्वप्ने कोटिकुलोत्पनैः पुण्यकोटिफलैरपि ॥३५॥
प्राप्नोति साधको मन्त्रं भुक्तये मुक्तये ध्रुवम् ।
ततश्चक्रं न विचार्यं विचार्य मरणं भवेत् ॥३६॥
किन्तु चक्राविचारञ्च यदि स्वप्ने चमत्कृतम् ।
एतेषां चक्रवर्णानां विचारादष्टासिद्धिदम् ॥३७॥
वायुं मुक्तिं धनं योगसिद्धिमृद्धिं धनं शुभम् ।
धर्मदेहपवित्रञ्च अकाले मृत्युनाशनम् ॥३८॥
वाञ्चाफलप्रदं गौरीचरणाम्भोजेदर्शनम् ।
भुक्ति मुक्तिं हरस्थानं प्राप्नोति नात्र संशयः ॥३९॥
एषां चक्रादिकालञ्च क्रमशो गणितं फलम् ।
यदि सर्वविचारञ्च करोति साधकोत्तमः ॥४०॥
तदा सर्वफल नित्यं प्राप्नोति नात्र संशयः ।
महाव्रतं विवेकञ्च विचाराल्लभते ध्रुवम् ॥४१॥
अक्स्मात् सिद्धिमाप्नोति चक्रराजं विचारतः ।
सर्वे देवाः प्रशंसन्ति चक्रमन्त्राश्रितं जलम् ॥४२॥
वाक्यसिद्धिर्भवेत् क्षिप्रं प्राणयामादिसिद्धिभाक् ।
सर्वेषां प्रणमेद् भूमौ विचरेत् साधको बली ॥४३॥
इति ते कथितं नाथ चक्रं षोडशमङुलम् ।
चक्राणां लोकनादेव सायुज्यपदमाप्नुयात् ॥४४॥
अतो विचारं सर्वत्र सर्वचक्रदिमङुलम् ॥४५॥
॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सर्वचक्रानुष्ठाने सिद्धितन्त्रप्रकरणे पञ्चम पटलः ॥५॥
N/A
References : N/A
Last Updated : April 08, 2011
TOP