संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|पञ्चमः पटलः| मन्त्रसंस्कारार्थे महा-अकथहचक्रम् पञ्चमः पटलः मन्त्रसंस्कारार्थे महा-अकथहचक्रम् चक्रफलकथनम् पञ्चमः पटलः - मन्त्रसंस्कारार्थे महा-अकथहचक्रम् मन्त्रादिदोषादिनिर्णयः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल मन्त्रसंस्कारार्थे महा-अकथहचक्रम् Translation - भाषांतर महाकथहचक्रार्थं सर्वचक्रोत्तमोत्तमम् ।यस्य विचारमात्रेण कामरुपी भवेन्नरः ॥१॥मन्त्रसंस्कारार्थे महा-अकथहचक्रम्ततः प्रकारं वीराणां नाथः त्वं क्रमशः श्रृणु ।चतुरस्त्रे लिखेत् वर्णांश्चतुःकोष्ठसमन्विते ॥२॥चतुःकोष्ठे चतुःकोष्ठे चतुश्चतुर्गृहान्वितम् ।मन्दिरं षोडशं प्रोक्तं सर्वकामार्थसिद्धिदम् ॥३॥चतुरस्त्र लिखेत्कोष्ठं चतुःकोष्ठसमन्वितम् ।पुनश्चतुष्कं तत्रापि लिखेद्धीमान् क्रमेण तु ॥४॥सर्वेषु गृहमध्येषु प्रादक्षिण्यक्रमेण तु ।अकारदिक्षकारान्तं लिखित्वा गणयेत्ततः ॥५॥चन्द्रमग्निं रुद्रवर्णं नवमं युगलं तथा ।वेदमर्कं दशरसं वसुं षोडशमेव च ॥६॥चतुर्दशं भौतिकञ्च सप्तपञ्चदशेति च ।वहनीन्दुकोष्ठगं वर्णं सङ्केताङ्कैः मयोदितम् ॥७॥एतदङ्कस्थितं वर्णं गणयेत्तदन्तरम् ।नामाद्यक्षरमारभ्य यावन्मन्त्रदिमाक्षरम् ॥८॥चतुर्भिः कोष्ठैरेकैकमिति कोष्ठचतुष्टयम् ।पुनः कोष्ठागकोष्ठेषु सत्यतो नाम्न आदितः ॥९॥सिद्धः साध्यः सुसिद्धोऽरिः क्रमशो गणयेत्सुधीः ।सिद्धः सिद्धयति कालेन साध्यस्तु जपहोमतः ॥१०॥सुसिद्धोऽग्रहाज्ज्ञानी शत्रुर्हन्ति स्वमानुषम् ।सिद्धार्णो बान्धवः प्रोक्तः साध्यः सेवक उच्यते ॥११॥सिद्धकोष्ठस्थिता वर्णा बान्धवाः सर्वकामदाः ।जपेन बहुसिद्धिः स्यात् सेवकोऽधिकसेवया ॥१२॥पुष्णाति पोषकोऽभीष्टो घातको नाशयेद् ध्रुवम् ।सिद्धः सिद्धो यथोक्तेन द्विगुणः सिद्धसाधकः ॥१३॥सिद्धः सुसिद्धोद्र्ध्वजपात् सिद्धारिर्हन्ति बान्ध्वान् ।साध्यः सिद्धो द्वगुनकः साध्ये साध्यो निरर्थकः ॥१४॥तत्सुसिद्धो द्विगुणजपात् साध्यारिर्हन्ति गोत्रजान् ।सुसिद्धसिद्धोद्र्ध्वजपात्तत्साध्यो द्विगुणाधिकात् ॥१५॥तत्सुसिद्धो ग्रहादेव सुसिद्धारिः स्वगोत्रहा ।अरिः सिद्धः सुतान् हन्यादरिसाध्यस्तु कन्यकाः ॥१६॥तत्सुसिद्धिस्तु पत्नीघ्नस्तदरिर्हन्ति गोत्रजान् ।यदि वैरिमनोर्हस्तस्थितः स्यात् साधको भुवि ॥१७॥तदन्ते रक्षणार्थं हि कुर्यादेवं क्रियादिकम् ।तत्प्रकारं महावीर श्रृणुष्व गिरिजापते ॥१८॥वटपत्रे लिखित्वारिमन्त्रं स्त्रोतसि निक्षिपेत् ।एवं मन्त्रविमुक्तः स्यान्नमाज्ञावशहेतुना ॥१९॥पुनः प्रकारं विप्रस्तु गवां क्षीरे मुदान्वितः ।द्रोणमिते जपेन्मन्त्रमष्टोत्तरसमन्वितम् ॥२०॥पीत्वा क्षीरं मनोमध्ये ध्यात्वा मन्त्रं समुच्चरन् ।सत्न्यजन्नीरमध्ये तु वैरिमन्त्रप्रमुक्तये ॥२१॥पुनः प्रकारं वक्ष्यामि त्रिरात्रमेकवासरम् ।उपोष्य विधिनानेन पूजां कृत्वा शनौ कुजे ॥२२॥सहस्त्रं वा शतं वापि अष्टोत्तरसमन्वितम् ।जपित्वा सन्त्यजेन्मन्त्रं क्षीरसागरमण्डले ॥२३॥अथवा तद्गुरोः स्थाने चान्यस्थाने च वा पुनः ।विचार्य मन्त्रवर्णञ्च गृहीत्वा मोक्षमाप्नुयात् ॥२४॥स्वप्ने यदि महामन्त्रं प्राप्नोति साधकोत्तमः ।तदा सिद्धिवाप्नोति सत्यं सत्यं कुलेश्वर ॥२५॥तन्मन्त्रं कौलिके नाथ गुरोर्यत्नेन सङ्ग्रही ।यदा भवति सिद्धिः स्यात्तत्क्षणान्नात्र संशयः ॥२६॥अरिं वा देवदेवेश यदि विग्राहयेन्मनुम् ।अन्यमन्त्रं विचार्यैव विष्णोश्चैव शिवस्य च ॥२७॥शक्तिमन्त्रं यदि रिपुं तदा एवं प्रकारम् ।आदावन्ते च मध्ये च ॐ वौषट् स्वाहयान्वितम् ॥२८॥कृत्वा जप्त्वा महासिद्धि कामरुपस्थितमिव ।प्राप्नोति नात्र सन्देहो ममाज्ञा वरवर्णिनी ॥२९॥ N/A References : N/A Last Updated : April 08, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP