चतुर्थपरिच्छेदः - परिच्छेदः ७

श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।


"नियमपरिसंख्या वा विध्यर्थो हि भवेद्यतः ।
अनात्मदर्शनेनैव परात्मानमुपास्महे" ॥
"यतो वाचो निवर्त्तन्ते" "यन्मनसा न मनुते येनाहुर्मनो मत"
मित्यादिश्रुत्या ब्रह्मणो वेदान्तव्यतिरिक्तवाङ्मनसोरविषयतायाः कथनेन तज्ज्ञानं
प्रति साधनत्वायोगादिति बालाः प्रवदन्ति न ज्ञा इति विस्पष्टमामनन्ति ।
"तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" "तथा नातः परं वेदितव्यं हि किंचित्"
"तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति" इत्याद्याः श्रुतयः "कषाये कर्मभिः पक्वे तपोज्ञानं प्रवर्त्तते"
इति स्मृतिश्र्च मुमुक्षेर्वेदान्तश्रवणे मनसि ज्ञानवैराग्याभ्यां निदिघ्यासनेन साक्षात्कारे
सति संसारनिवृत्तिरानन्दावाप्तिश्र्च भवतीति बोधयन्ति तदा "ब्रह्मविद् ब्रह्मैव भवती"
त्यपरोक्षसाक्षात्कारेण परमात्मनि सजातिमत्त्वेन एकत्वमात्मैक्यं
वेदान्त-सिद्धान्तपर्यवसितं "नावेदविन्मनुते त बृहन्त" मित्याद्युक्तार्थं बोधयतीत्यर्थः ।
"त्वंपदार्थविवेकाय सन्न्यासः सर्वकर्मणाम् । श्रुत्याभिधीयते यस्मात्तत्त्यागी पतितो भवेत्" ॥
इत्यादिवचनकदम्बैर्वेदान्तविचारमन्तरा क्षणमपि सन्न्यासिभिर्न स्थेयमिति प्रतिपादितं भवति तथैव  
"विदित्वा मुनिर्भवती" त्यत्र क्त्वात्प्रत्ययस्य ज्ञानोत्तरकालवाचकत्वेन तादृशज्ञानसम्पन्नब्राह्मणे
मुनित्वप्रतिपादकपरे वाक्ये ब्राह्मणशब्दो न जातिवाचकः ब्रह्मविद्वाचिनो ब्राह्मणशब्दस्य वाचः
प्रसङ्गाद्वाक्यशेषे पाण्डित्यबाल्यमौनशब्दाभिधेयेः श्रवणमनननिदिध्यासनैः साध्यब्रह्मसाक्षात्कार
इत्यभिप्रेत्य ब्राह्मण इतिपदस्याभिहितत्वाच्च ।
अन्यथा कथमथ ब्राह्मण इति साधनानुष्ठानोत्तरकालवाचिशब्दं प्रयुञ्जीत ।
अथ मुनित्वं मननशीलत्वं तच्चासति कर्त्तव्यान्तरे एव संभवतीत्यर्थात्तादृशः
संन्यासस्तस्य चेयं कर्त्तव्यान्तरे एव संभवतीत्यर्थात्तादृशः संन्यासस्तस्य
चेयं कर्त्तव्यतेति स्पष्टमेवाभिहितत्वादिति विद्वत्सन्न्यासो विविदिषा सन्न्याश्र्च
स्पष्टं निर्दिष्टः संगच्छते नत्वत्र मुनित्वेन फलेन प्रलोभ्य
विविदिषा सन्न्यासादयं फलरूपसन्न्यास इति ब्रूमः ।
किन्तु सम्यगनुष्ठितश्रवणमनननिदिध्यसनैः परतत्त्वं विदितवद्भिः सम्पाद्यमानो विद्वत्संन्यासो भिन्न एव इति ।
तत्रतत्र प्रमाणं यथा "संसारमेव निस्सारं दृष्ट्वा सारदिदृक्षया ।
प्रव्रजन्त्यकृतोद्वाहाः परं वैराग्यमास्थिताः ॥ प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम् ।
तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् ॥
इत्येवंविधानि वक्यान्यनुसन्धेयानि "भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे॥" इत्यादीनि स्मृतिवाक्यान्यप्यवगन्तव्यानि ।
त्वंपदतत्पदार्थबोधे स्थाणुर्वा पुरुषो वेतिवदात्मसंशयो ह्यनेकविधस्तथाहि ब्रह्माद्वितीयं
सद्वितीयं वा तत्राद्वितीयत्वे श्रुतिसिद्धान्ता अनकेशः ।
आत्मा देहाद्यतिरिक्तो न वा देहाद्यतिरिक्तत्वेऽपि कर्त्ता अकर्त्ता वा अकर्त्तुत्वेऽपि चिद्रूपोऽचिद्रूपो
वा चिद्रूपत्वेपि आनन्दात्मको न वा इत्यादित्वंपदवाच्यजीवगतःसंशयः
सम्भवति जीवस्य सच्चिदानन्दरूपत्वेऽपि परमात्मना सहैक्यं सम्भवति
न वेति चरमः संशयस्तथाच तत्र द्वैतमोहनिद्रान्तर्गतप्रमाधिव्याधिगतानां
हस्ताभ्यां विमुद्य नेत्रे निमील्य सर्वोप्येष प्रलापस्तस्यैतस्याष्टविधसंशयप्रश्र्नस्य
वेदान्तशास्त्रविचारमन्तरा नेत्रयोरुन्मीलनमशक्यमेतदर्थमुत्तरमीमांसाशास्त्रमकरन्दाशयः
प्रभवति नान्यस्तथाहि "सदेव सौम्येदमग्न आसीत्" "तत्त्वाच्चापरस्ये"
ति श्रुतिसूत्राभ्यां प्रागुत्पत्तेः कार्यस्य कारणात्मना सत्त्वप्रतिपादनेन प्रागभावस्य
दुर्निरूपितत्वात्प्रागात्मज्ञानात्कार्यस्य निरन्वयनाशानङ्गीकारेण ध्वंसस्यापि दुर्निरूपितत्वमवसेयम् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP