चतुर्थपरिच्छेदः - परिच्छेदः १
श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।
नन्वनेकप्राणिजीवगुणविशिष्टब्रह्मविषयकं ब्रह्मोपासनं विधीयते यथारण्याद्यनेकवृक्षविशिष्टं तत्र
व्यष्टिसमष्टिभेदेन एकानेकत्वं प्रतीयते तथैव ब्रह्मणि अनेकत्वप्रतीतेः
"एकमेवाद्वितीयं ब्रह्मै" त्यादिश्रुतिविरोधः स्यादिति चेन्न अत्र श्रुतिसमन्वये
अखण्डसच्चिदानन्दस्वरूपत्वप्रतिपादनात्संसर्गविशिष्टाद्यनर्थासम्भवस्यैव ब्रह्मणि पर्यवसितत्वात् ।
ननु सत्यादिपदानामनेकलक्षणत्वात्तेषां ब्रह्मलक्षणाङ्गीकारे बहुत्वं स्यादिति चेन्न ।
एकब्रह्मतात्पर्यप्रतिपादकत्वेन अखण्डैकब्रह्मबोधकत्वात् ॥
तथाचोक्तमाचार्येः श्रुतिस्तात्पर्यदृष्ट्या भागत्यागलक्षणया ब्रह्म बोधयति ननु वेदांतानां
कर्त्तुदेवतादिप्रतिपादकविधिसापेक्षत्वेनार्थवादत्वं कथं न स्यादिति
चेन्न अपूर्वार्थप्रतिपादकत्वेन सापेक्षत्वाभावात्परम पुरुषार्थतायाः परब्रह्मप्रकरणस्थत्वाच्च ।
विधिरहितानामपि तेषां तात्पर्येण परिपूर्णब्रह्माखण्डैकत्वप्रतिपादितान्वितार्थे शक्तिग्रहादपि
वेदानतानां विध्यपेक्षितत्वं नास्ति प्रकरणान्तरसिद्धत्वेन
तत्प्रतिपादितप्रमेयानां न संभवति स्वप्रकरणस्थत्वेन प्राधान्यात् ।
अपूर्वप्रतिपादकत्वेन च सापेक्षत्वाभावात् केवलान्वयित्वे शक्तिग्रहदर्शनात् ।
तस्मान्न क्रियापरा वेदांताः । रज्जुरियं नायं सर्प इति सिद्धबोधेनापि दुःखनिवृत्तिदर्शनात् ।
ननु वेदान्तेभ्यो ब्रह्मसिद्धिमिच्छतां वृत्तिकाराणां भर्त्तुप्रपञ्चादीनामुपासीत ध्यायीत इत्याद्युपासनाविधीनां
विषयतया वेदान्तबोधकानामुपासनाबोधकत्वेन कथं स्वार्थसिद्धिरिति
चेन्न सर्वसाक्षितया नित्यचिद्रूपपरिपूर्णब्रह्मातिरिक्तवस्त्वभावान्मुख्याद्वैत एव वेदान्तमहावाक्यानां
तात्पर्यात्सर्वतत्त्वज्ञानामपि तत्रैव संमतत्वाच्च ।
उपासनापरत्वे हि गौणत्वमनर्थत्वं
च स्याद्वेदान्तानान्तच्चानिष्टं सर्वविवेकिनाम् ।
तथाचोक्तं सर्वतत्त्वविच्छ्रेष्ठवार्तिककारैः । "भावनाजं फलं यत्स्यात् यच्च स्यात्कर्मणः फलम् ॥
न तत्स्थायीति मन्तव्यं परस्त्रीगमनं यथा ॥"
तस्मान्नोपासनाबोधकत्वमपि मुख्यत्वेन वेदान्तानाम् ।
ज्ञानस्य वस्त्वधीनत्वादपि तथाहि ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP