तृतीयपरिच्छेदः - परिच्छेदः ८

श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।


दर्शयति च भयं श्रुतिर्भेददर्शिनः "मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति"
"य एतसिन्नु दरमंतरं कुरुते अथ तस्य भयं भवति" तस्मान्न जीवब्रह्मणोर्वास्तवो
भेदस्तर्हि कुतस्तयोः स्वामिसेवकभावः वास्तव मुपजीव्यमानः भवतु तर्हि ब्रह्मात्मनोरंशांशिभावः
"यथाग्नेर्विस्फुलिंगा व्युच्चरंति" इत्यादिश्रुत्या "ममैवांशो जीवलोके जीवभूतः सनातनः"
इत्यादिस्मृत्या च जीवस्य ब्रह्मांशत्वप्रतिपादनात् नायं विचारसहः सिद्धांतपक्षः संभवति यतः
निरवयवस्य ब्रह्मणो वास्तवांशासंभवात् सावयवत्वे घटवन्नाशप्रसंगात् अपि च
"तत्सृष्ट्वा तदेवानुप्रविशत्" अनेन जीवेनात्मनानुप्रविश्य "नामरूपे व्याकरवाणि"
इत्यादिश्रुतिभिः ब्रह्मण एव जीवरूपेण घटाकाशादिवज्जीवरूपेणावस्थानं तत्र
अंशत्वकल्प नागंधोपि न युक्तः अंशत्वप्रतिपादकश्रुात स्मृतयस्तु अविद्याद्युपाधिसंबंधनिमित्तां
जीवत्वकल्पनां घटाकाशवदवच्छेदवादेन जलसर्यप्रतिबिम्बवदा भासवादेनाचक्षते वस्तुतः ‘तत्त्वमसि’
‘अयमात्माब्रह्म’ इत्यादिश्रुतिबलात् जीवभावव्युदासेन जीवस्य ब्रह्मत्वमेव प्रतिपादयंति यथा
वा सौरश्र्चांद्रमसो वा प्रकाश अंगुल्याद्युपाधिसंबंधेनऋजवक्रभावमिव प्रपिपद्यते यथा वाकाशादिषु
घटासंबंधात् गमनादिक्रियावभासः कल्पते यथा वोदशरावादिकंपने सूर्यः कंपमानइव कल्पते तथा
कार्यकरणसंघातरूपोपाधिसंबंधाद्ब्रह्मणि जीवभांव प्रकल्प्य प्रकाश्यकर्तृत्वभोक्तृत्वादिप्रमुखः संसारः
कल्प्यते न वस्तुतः जीवत्वं संसारित्वं वा तथा च "ब्रह्मदाशा ब्रह्मदासा ब्रह्मैवेमे कितवाः ॥
त्वं स्त्री पुमानसि त्वं कुमार उत कुमारी त्वं जीर्णोसि भवसि विश्वतो मुखः"
इत्यादि श्रुतयो कल्पनयैव चारितार्थ्याः तेन ब्रह्मणो न निर्विकारस्वरूपत्वहानिःतस्मादेक
एव सर्वेषां भूतानांमंतररात्मा जीवभावेनावस्थित इति सिद्धम् ।
ननु जीवो यदि ब्रह्मरूपस्तर्हि ब्रह्मणो विधिनिषेधाततित्वात् ब्रह्माभिन्नस्य
जीवस्यापि तथात्वात् एते अनुज्ञापरिहाराः कस्य भवेयुः ।
तथाहि "अहरहः संध्यामुपासीत" "गृहस्थः सदृशीं भार्यामुपेयात्" ब्राह्मणो न हंतव्यः’ गुर्वंगनां नोपगच्छेत्’
‘न हिंस्यात्सर्वाभूतानि’ "अग्नीषोमीयं पशुमालभेत" इत्यादयः सहस्रशो विधिनिषेधा अनवकाशाः
प्रसज्येरन् तस्माद्विधिनिषेधाधिकारी जीवो ब्रह्मभिन्नः प्रतिक्षेत्रं भिन्नः अभ्युपेयः इत्याक्षेपे समाधानं
‘देहसम्बन्धाज्ज्योतिरादिवत्’ अत्र देहसम्बन्धो नाम देहादिरयं संघातः अहमेवेत्यात्मनि
विपरीतप्रत्ययोत्पत्तिः दृष्टा च सा सर्वप्राणिनाम् अहं गच्छाम्यहमागच्छा म्यहमन्धोहंबविरो
मूकोह मित्यादिरूपा न ह्यस्या भ्रांतेः सम्यवज्ञानादन्यन्निवारकमस्ति
तस्मा दविद्यानिमित्तदेहाद्युपाधिसम्बन्धाज्जीवात्मनो विधिनिषेधनियोज्यत्वमवकल्पते
तादृशोपाधिसम्बन्धनिमित्तैव सुखित्वदुःखित्वबद्धमुक्तत्वादिव्य वस्थेत्यात्मैकत्वमनवद्यम् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP