तृतीयपरिच्छेदः - परिच्छेदः २
श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।
केचित् कापिलनास्तिका इह जिना बौद्धेन्धनो माधवो चार्वाको कपटप्रबंधरचनावाग्वैखरीशालिनः ॥
सर्वेषां हितकाम्यया श्रुतिमुखेनद्वैतविद्वेषिणां तत्त्वज्ञानसुखोपदेशमधुना कर्तुं प्रवृत्ता वयम् ॥१॥
तत्रतावदर्धवैनाशिकखंडनेनोपस्थिताः पूर्णवैनाशिका बौद्धादयः कंटका इव प्रथममुद्ध्रियंते
तत्र माधवावतारेण बुद्धमुनिना बौद्धागम उपदिष्टः ते चतुर्विधाः
सौत्रांतिकवैभाषिकयोगाचारमाध्यमिकाभिधानाः सर्वास्तित्वविज्ञानमात्रास्तित्वसर्वशून्यत्ववादिनो
प्रतिपत्तिभेदादभवन् तदुक्तं बोधिचित्तविवरणे "बोधना लोकनाथानां सत्त्वाशयवशानुगाः ।
भिद्यंते बहुधा लोक उपायैर्बहुभिः पुनः ॥ गंभीरोत्तानभेदेन क्वचिच्चोभयलक्षणा ।
भिन्नापि देशनाऽभिन्ना शून्यता द्वयलक्षणा" इति ये च सर्वास्तित्ववादिनो बाह्यमांतरं
च वस्त्वभ्युपगच्छंति सौत्रांतिकवैभाषिकयोरियानेव भेदः ते च भूतभौतिकाचित्तचैत्ताख्यं
पदार्थचतुष्टयं मन्यंते तत्र च भूतभौतिकाचित्तचैत्ताख्यं पदार्थचतुष्टयं मन्यंते तत्र भूतं
पृथिव्यादयः भौतिकं रूपादयः चित्तचैत्ताश्र्च रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञकाः पंच
स्कंधाः तत्र विज्ञानस्कंधश्र्चित्तरूप आत्मेति मन्यंते, सविषर्येद्रियाणि रूपस्कंधः
सुखाद्यनुभवो वेदनास्कंधः गौरश्र्च इत्येवंनामविशिष्टसविकल्पप्रत्ययः संज्ञास्कन्धः
रागद्वेषमोहधर्माधर्माः संस्कारस्कन्धः यत्सत्तत्क्षणिकं यथाविद्युदादीत्येवंरूपां व्याप्तिमवष्टभ्य
तेषां क्षणिकत्वमामनंति नायं सिद्धान्तो मानमूलो भवितुमर्हतीत्यभिधीयते
"समुदाय उभयेहेतुकेऽपि तदप्राप्तिः" भूतभौतिकसंहतिरूपः पंचस्कन्धीरूपसमुदायः
परेषामभिप्रेतः स न संभवति समुदायि नामचेतनत्वात् अन्यस्य कस्यचिदपि चेतनस्य
भोक्तुः प्रशासितुः स्थिरस्य संहतेरनभ्युपगमात् निरपेक्षप्रवृत्तयभ्युपगमे प्रवृत्तेरनुपरमादनिर्मोक्षप्रसंगः ।
अथ मन्यसे संघाताः संसारेऽनादिसंतत्याऽनुवर्तंते
तदापि संघातात्संघातमुत्पद्यमानं नियमेन सदृशमेवात्पेद्यते ।
विसदृशं वा सादृश्यनियमाभ्युपगमे मनुष्यपुद्रलस्य देवतिर्यग्योनिनारकप्राप्त्यभावः प्राप्नुयात्
अनियमे मनुष्यपुद्रलः कदाचित्क्षणेन हस्ती भूत्वा देवो वा मनुष्यो वा भवेदिति प्राप्नुयात्
अपि च यद्भोगार्थं संघातः अभ्युपेयते स च भोक्ता क्षणिक इति तवाभ्युपगमः तथाच
भोगापवर्गप्रवृत्तिः कस्य कस्य वा भोगापवर्गो स्यातां अन्यद्भुक्तमन्यद्वांतमित्यनियमः प्रसज्येत ।
प्रत्यभिज्ञानानुपपत्तिरित्यतः सर्वथाऽनुपपन्नः स्वकपोलकल्पनाकल्पितो बौद्धानां समयः बलिवर्दाः
शून्यवादिनस्तावदभावाद्भावोत्पत्तिं मन्यंते तेषा मते सर्वत्राभावत्वाविशेषात्
नियतकारणात्कार्योत्प्रादप्रयासो व्यर्थःस्यात् अतिप्रसंग आपद्येत कारणीभूताभावान्वयित्वेन
सर्वं नास्तीति प्रतीयात् सर्वथाऽनुपपन्नः शून्यकारणतावादः ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP