तृतीयपरिच्छेदः - परिच्छेदः ५

श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।


सांख्यप्रणेतुरवैदिकात्कपिलादन्य एव स एव ‘सिद्धानां कपिलो मुनिः’
इत्यत्रभगवद्रीतायामुक्तः अयंच सांख्यदर्शनकर्ताअवैदिककपिलः सर्वश्रुतिस्मृतिसंमतं
सर्वात्मत्वदर्शनं नानुमन्यते आत्मभेदाभ्युपगमो हि सांख्यानामिष्टस्ततोपि वेदविरुद्धं
कापिलं सांख्यदर्शनं "एक एव हि भूतात्मा भूतेभूते व्यवस्थितः । एकं संतं बहुधा कल्पयंति ॥
सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः ।
एकस्तथा सर्वभूतांतरात्मा" इत्यादिश्रुतयः,
‘सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
संपश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति’ इत्यादि मन्वादिस्मृतयश्र्च सर्वत्रैकात्मतां दर्शयंति ।
तस्माद्वेदस्मृतिविरोधात्संख्यदर्शनं कैवल्येप्सुभिर्हैयमेव-तथैव प्रधानं तत्परिणामित्वेन
महदादीन्यपि सर्वाण्यवैदिककल्पनादूषितानीति परिहर्तव्यान्येव"इतरेषां चानुपलब्धेः" इत्यनेन
सूत्रेण प्रधानपरिणा मित्वेन सांख्याभिमतानि महदादित्त्वान्यपि खण्डितवान्सूत्रकारः अस्मन्मते
ब्रह्मव्यतिरिक्तस्य सर्वस्याधिष्ठाननिष्ठात्यंताभावप्रतियोगित्वेन मिथ्यात्वेन सिद्धांतितत्वात्
प्रधानस्यापि तथात्वेन तस्य स्वीकारे ब्रह्मणि परतंत्रता स्यात् तथा च श्रुतिविरोधः ।
तस्मात्स्वतंत्रप्रधानवादपरिग्रहो सांख्यानां दूषितःसमन्वयाधिकरणे भाष्यकृच्छंकरभगवत्पूज्यपादैः
स्वतंत्रस्य ब्रह्मणो जगत्कारणत्वं सर्वश्रुतीनां समन्वयेन दर्शितं ब्रह्मैव स्वशक्तय
भिधेयप्रकृतिमाश्रित्य लोकान् सृष्ट्वान्तर्यामितया ईश्र्वरत्वेनाभिधीयते तथाच
"तत्सृष्ट्वा तदेवानुप्रविशत् ॥
"इति तदानुप्रविश्य "निरुक्तंचानिरुक्तं च । निलयंनचानिलयनं च विज्ञानंचाविज्ञानं च ।
सत्यंचानृतं च सत्य मभवत् ॥" तथा ऐतरेऽपि ॥ ‘स ईक्षत इमॉंल्लोकान्नुसृजत’ इति ॥
आसु प्रकृतेर्भिन्नाया अप्रतिपादनात् प्रधानकारणतावादो भ्रांतप्रलपनमात्रं नचात्र शंक्यमी
क्षणादिश्रुतेः चक्षुःसंयोगं विना ईक्षणकर्तुत्वायोगात् ब्रह्मणोपि चक्षुरादिइंद्रियस्वीकारप्रसंगः
इति "पश्यत्यचक्षुः स शृणोत्यकर्णः" इत्यादि श्रुतिबलान्मायावृत्यात्मकेशसंकल्पस्यैवेक्षणपदार्थत्वस्वीकारात्
नहि स्वतंत्रस्य सर्वशक्तिमतो कुलालवत् दंडचक्रादिसाधनपारतंत्र्यमस्ति अमुमेवार्थं मनसि
कृत्याभिन्ननिमित्तो पादानत्वं श्रतिर्ब्रूते न चैतदद्दष्टचरं ऊर्णनाभ्यादेरभिन्ननिमित्तोपादानस्य
दृष्टत्वात् तथाच श्रुतिः ‘यथो र्णनाभिः सृजते गृह्यते च यथा पृथिव्या ओषधयः संभवति ।
यथासतः पुरुषात् केशलोमानि भवंति तथा क्षरात्सम्भवतीह विश्र्वम्’ इत्यादिश्रुत्या ब्रह्मण
एवाभिन्ननिमित्तोपादानत्वं निर्धारितमित्यलंसांख्यखंडनविस्तरेण ।
अत्रानर्थनिवारणमद्वैतबोधमेव प्रतिपादयंति भगवंतो गौडपूज्यपादाचार्याः तत्रेयं मांडूक्योपनिषषद्य्वाख्यानकारिका
"अनादिमायया सुप्तो यदा जीवः प्रबुध्यते ।
अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा" तस्मान्मोक्षकामैः
पुरुषैरद्वैतात्मबोध एवोपनिषद र्थाविचारेण संपादनीयः न द्वैतदुर्गन्धकच्चरंभेदशास्त्रं
स्वप्नेप्याघ्रातव्यं धर्मार्थकाममोक्षेषु पुरुषार्थेषु चरम एव ज्यायान् तस्यैव "न स पुनरावर्तते"॥
इतिश्रुत्या नित्यत्वावगमात् स एव मुमुक्षूणां साध्यः तत्साधनं प्रत्यग्ब्रह्मात्मकैत्वाविज्ञानं
तच्च उपनिषद्भ्य एव पूर्वोक्तविवेकादिविशेषणविशिष्टानामधिकारिणां जायते
सैव पराविद्येत्यभिधीयते ‘अथ परायया तदक्षरमधिगम्यते’ साच विवेकादिसाधनसंपत्तिः
शुद्धान्त करणानां संभवति अंतःकरणशुद्धिनिष्कामकर्मानुष्ठानसाध्या तच्च
कर्मानुष्ठानं धर्मज्ञानेन सम्यक् भवति ।
तादृशधर्मज्ञानहे तुभूतानां षडंगसहितानां कर्मकांडानामपरिविद्यात्वं
तत्र द्वैतविशिष्टाद्वैतजैनचार्वाकनिंबार्करामानुजमाध्ववल्लभकुलादीनां
वैदिकपरंपराविरोधिनां परापरविद्यासु सर्वथानधिकारः ।
तेषां समुद्धरणायेशमभ्यर्थयामः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP