प्रथमःपरिच्छेदः - परिच्छेदः ५

श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।


महाभूतादिभेदाभिन्नं धृत्यंतं सर्वमपि क्षेत्रत्वात्क्षेत्रमित्युच्यते "तत्र मनसि नष्टे सति
संस्कारोद्बोधके नरविषाणमिव धीवृत्त्यनुदयान्मनो नश्यति" इति भगवता विद्यारण्यस्वामिनाऽप्युक्तं किंच
सर्वेन्द्रियप्रवृत्तिषु सर्वत्र प्राथम्येन मन एव नियमेन प्रवर्तते तथा चाहश्रुतिः
"सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्" इत्यादि सर्वमप्येतदात्मलक्षणं मनसि
संपद्यतेकृतः ध्येयाकाराकारित्वं ध्येयस्वरुपत्वं वा मनसो लक्षणमभ्युपगंतव्यं तथा च पारमर्षाणि
ब्रह्ममीमांसासूत्राणि "सर्वत्रप्रसिद्धोपदेशात्" शांडिल्याविद्यायां च "दहर उत्तरेभ्यः"
इति दहरविद्यायां च "यथाक्रतुरस्मिँल्लोके पुरुषो भवति तथेतः प्रेत्यभवतिसक्रतुंकुर्वीत"
"दहरं पुण्डरीकं वेश्म" "तंयथायथोपासते तत्तथैवभवति"इत्यादि श्रुतिमनुसृत्य
सूत्रभाष्यकाराभ्यांविषया कारविकारसंस्कारजनिर हितं यदवाशिष्टंमनः तेनैवब्रह्मसाक्षात्कारो
भवति तस्मात्सर्वथाऽसंगता मनस इन्द्रियत्वकल्पनाशुष्कतर्कपटूनां वैशेषिकादीनाम् यतेहि
ब्रह्मभावनामंदानामुपासनातारतम्येन फलानि दर्शयन्ति ‘सार्ष्टिसारूप्यसालोक्यफलानिभवंति’
‘साम्नः सायुज्यतां सालोक्यताञ्जयति’ चैवमाद्याः श्रुतयः ये
पुनर्विवेकवैराग्यशमदमादिषट्कमुमुक्षुताभिधानसाधनचतुष्टयसंपन्ना
विचारक्षमा अधिकारिणस्तेषां श्रोत्रियब्रह्मनिष्ठेत्यादिलक्षणदेशिकाचार्यमुखात्
तत्त्वमस्यादिमहावाक्यश्रवणसंपत्तौ मनननिदिध्यासना
भ्यासपरिपाकबलान्मनसि पाटवे समुत्पन्ने भ्रमरकीटन्यायेन मनसः ब्रह्माकारता संपद्यते अयमेव च
ब्रह्मावस्थानलक्षणो मोक्षः नहीदृशमिन्द्रियाणां सामर्थ्यं चत्तत्तदुपास्याकारेणावस्थानं ब्रह्माकारेणावस्थानं च ।
तथा च नेन्द्रियं मन इति सिद्धांतो वज्रलेपायितः !
एतदर्थप्रतिपादकाः सहस्त्रशः श्रुतयः "इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्र्च परं मनः॥
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः।महतः परमव्यक्तमव्यक्तात्पुरुषः परः॥
पुरुषान्न परं किंचित्साका ष्ठासापरागतिः" "अनाद्यनंतंमहतः परंध्रुवं निचाय्यतं
मृत्युमुखात्प्रमुच्यते" ‘सर्वस्यप्रभुमीशानं मत्वाधीरो नशोचति" इत्याद्याः सन्ति तासुच
इन्द्रियेभ्यः अर्थानां पृथक्त्वं अर्थेभ्यश्र्च मनसः पृथक्त्वमितः सुस्पष्टं मनसोऽनिन्द्रियत्वं
उत्तरत्र निचाय्य’ ‘मत्वाइति पदाभ्यामात्माकाराकारित्वं मनसः प्रतिपाद्यते तच्चानिन्द्रिययरस्य
मनसः न संभवति इन्द्रियाणामात्मा काराकारित्वभवनसामर्थ्याभावात् भवति
त्विंद्रियाणां मनसि लयः तस्य चात्मनिलयः ‘यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेञ्ज्ञान आत्मनि’ वाङ्मनसि संपद्यते।
इत्यादिश्रुतिप्रामाण्यात्-सिद्धमेतावता मनन सामर्थ्यमनिंद्रिये मनसीति
जिज्ञासाधिकरणोक्तः श्रवणमनननिदिध्यासनात्मको विचारः संस्कृतेननिर्मलेनेंद्रियाध्यक्षेण
केवलेन मनसा मुमुक्षुभिः सर्वानर्थप्रहाणेहेतवे ब्रह्मसाक्षात्कारायावश्यं कर्तव्य एवेति सिद्धांतः ।

"शब्दशक्तिविषयं निरूपणं युक्तितः श्रवणमुच्यते बुधैः ।
वस्तुतत्त्वाविषयं निरूपणं युक्तितो मननमित्युदीर्यते ॥"

इति श्रीमत्परमहंसपरिव्राजकाचार्य
श्रीआत्मानन्दसरस्वतीस्वामिभिर्विरचितः वेदान्तशास्त्र मकरन्दे प्रथमःपरिच्छेदः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP