प्रथमःपरिच्छेदः - परिच्छेदः १

श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।


श्रीपार्वतीपरमेश्र्वराभ्यां नमः ।
यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो बौद्ध इति प्रमाणपटवः कर्तेतिनैय्यायिकाः ।
अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः सोऽयं वों विदधातु वाञ्छितफलं त्रैलोंक्यनाथों हरिः ॥१॥

परममंगलाचरणरूपया वेदस्य नित्यत्वापौरुषेयत्वसिद्धिसंभावनया
कुतर्कदुर्गदुरितध्वांतस्वांतशांतेरुपायभूतपरिविद्याद्यपरोक्षज्ञानविधुराणामतिसुलभतया
दैवीप्रज्ञासंपत्तय इदमनुमेयत्वाधिकरणमुपक्रम्यते, "शास्त्रयोनित्वादि" त्यनेन सूत्रेण-
अत्र प्रथमपक्षे पूर्वसूत्रोक्तजगत्कारणत्वस्यैवोपपादनायास्मान्नित्यसिद्धाद्ब्रह्मणो
निः श्र्वासवदनायासेनैव वेदाः सिध्यंतीत्यभिधीयते तत्र ब्रह्म वेदकारणं न वेति संदेहे वेदस्य
नित्यत्वश्रवणात् "देवतां संबोध्येत्यनया वाचा स्तुतिं प्रेरयेत्" इति श्रुतेः "अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा ।
आदौ वेदमयी दिव्या यकतः सर्वाः प्रवृत्तयः" इति स्मृतेश्र्च अतो न वेदकर्तृत्वं
ब्रह्मण इति न जगद्योनित्वमिति प्राप्ते ब्रूमः निःश्वसितन्यायेन
वेदोत्पत्तिश्रवणात् "तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे" इति सर्वैज्ञैर्हूयमानाद्यज्ञशब्दवाच्याद्बह्मणो
वेदजनिं ब्रवीतीति कर्तृत्वं तत एव वेदयोनित्वं
सिध्यति एतदनुरोधेन "विरूपनित्यया वाचे" त्याद्युदाहृतश्रुतिस्मृत्योरर्थवादत्वेन
प्राशस्त्यबोधकत्वमात्रं न च वेदस्य सकर्तृकत्वे पौरुषेयत्वम्,
उपलभ्य विरचितत्वानंगीकारेणैव पौरुषेयत्वनिरासः ।
अस्य सूत्रस्य द्वितीयवर्णकं हि पूर्वसूत्रे जन्मादिकथनेन घटवत्
कार्यलिंगकानुमानादिप्रमाणांतरवेद्यत्वं ब्रह्मण इत्याशंका माभूदित्येतदर्थम्,
तथाहि—— ब्रह्म न मानांतरवेद्यं शास्त्रयोनित्वात् शास्त्रं वेदो योनिः प्रमाणं यस्मिन् तस्य भावः तत्त्वम्-
"तंत्वौपनिषदं पुरुषं पृच्छामि" इत्युपनिषद्वेद्यत्वप्रतीतेः "नावेदविन्मनुते तं बृहंतम्" इति श्रुत्या विस्पष्टं मानांतरनिषेधाच्च,
तथा च प्रथमवर्णके कार्यलिंगकानुमानगम्यत्वाक्षेपेण संगत्या वेदैकमेयत्वं ब्रह्मण इति राद्धांतयितुं द्वितीयवर्णकावतारः
अथैवमुच्यते ब्रह्मणो वेद्यतैव नास्तीत्यप्रमेयत्वम् ‘यतो वाचो निवर्तंते’
इत्यादिश्रुत्या वाङ्मनोर्निरासेन स्वसंवेद्यत्वप्रतिपादनात्
शास्त्रयोनित्वं शास्त्रप्रमाणकत्वं वर्णकांतरं न संपद्यते इति तदापि चिदाभासेनाप्रकाश्यताया एव ‘यतो वाचो’
अप्रमेयमित्यादिश्रुतिभिः प्रतिपादितत्वात्स्वसंवेद्यत्वमबाधं परमावरणभंगाय ब्रह्माकारवृत्तिरूपायाः प्रमायाः
प्रमाणापेक्षत्वाच्छास्त्रैकप्रमाणकत्वं ब्रह्मणं अनाकुलम् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP