प्रथमःपरिच्छेदः - परिच्छेदः ३
श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।
इह खलु सर्वेषां वेदांतशास्त्रविचारेण तदनुकूलानुभानेन चाज्ञानावरणनिवृत्तिद्वारेण ब्रह्मसाक्षात्कारे
सति सकलानर्थनिवृत्तिः परमानंदावाप्तिश्र्च भवतीति सिद्धांतमाश्रित्यायं ग्रंथः
वेदान्तशास्त्रमकरन्दाख्यो व्याख्यारूप आरभ्यते. तत्र तावत् ‘अनाद्यनंतम्’
‘अजो नित्य’ इत्यादिश्रुत्या ब्रह्मणोऽनादिनित्यतया ध्वंसप्रागभावयोरसंभवात्
अद्वितीयत्वश्रुत्या ब्रह्मणस्त्रैकालिकसंसर्गाभावस्या प्यसंभवात्
तत्रकालत्रयाब्ध्ये ब्रह्मणि "वाचारंभणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ।
ऐतदात्म्यमिदं सर्वं" "तदनन्यत्वमारंभणशब्दादिभ्यः" इत्यादिश्रुतिसूत्राभ्यां कार्यस्य कारणादव्यतिरेकात्सर्वस्य
जगतः कल्पितत्वं निश्र्चित्य तदपोहेन "अविशिष्टमपर्यायाऽनेकशब्दप्रकाशितम् ।
एकं वेदांतनिष्णाता अखंडं प्रतिपेदिरे" इति प्रमाणमूर्धन्यश्र्लोकसूचितमर्थं
बुद्धौ संगृह्य "कार्यबोधे यथा चेष्टा लिंगं हर्षादयस्तथा।
सिद्धबोधेऽर्थवत्ता च शास्त्रत्वं हितशासनात्"
इत्यादि वचनेन उपक्रमोपसंहारादिषड्विधतात्पर्यनिर्णायकलिंगैरद्वितीये ब्रह्मणि निखिलवेदांततात्पर्ये
निर्णीते सामान्यतो दृष्टानुमानेन श्रुत्यर्थाबाधितत्वं निश्र्चित्य स्मृतिविरोधाभावेन
हितशासनत्वमंगीकृत्य जिज्ञासाधिकरणेन श्रवणमननाद्यात्मकविचाराविधानात्
अत्र मननं नाम विचारसामर्थ्यं तच्च मनस्येव संभवति तदा पूर्वपक्षिणां मतेन मनस
इंद्रियत्वावगमात्, इंद्रियत्वेनाभिमतस्य मनसो विषयत्वमतींद्रियानिर्गुणब्रह्मणः सर्वथा
श्रुतिविरुद्धम्, तथा च श्रुतयः "अशब्दमस्पर्शमरूपमव्ययं तथा रसं नित्यमगंधवच्च यत्"
"अनाद्यनंतं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते" "न संदृशे तिष्ठति रूपमस्य"
"न चक्षुषा पश्यति कश्र्चनैन" मित्याद्याः प्रतिपादयंति चैताः श्रुतयो रूपरसादिगुणशून्यत्वं
तत एव चातींद्रियत्वं ब्रह्मणः तथा च-मनस इंद्रियत्वे निर्गुणातीन्द्रियब्रह्मग्रहणसामर्थ्याभावात्
श्रवणोत्तर मनसा ब्रह्माविषयकमननविधानं सर्वथाऽसंबद्धम् अर्थवद्वा स्यादिति संशयः प्रभवति
तत्र मनस इंद्रियत्वेनातींद्रियब्रह्मग्रहणसामर्थ्याभावेन मननविधानं नार्थवदिति पूर्ववादिनां पक्षे
प्राप्ते आचार्यास्त्वेवं स्वसिद्धांतं वर्णयंति "इंद्रियेभ्यः परा ह्यर्था अर्थेभ्यश्र्च परं मनः"
इंद्रियाणि पराण्याहुरिंद्रियेभ्यः परं मनः" इत्यादिश्रुतिस्मृतिभिर्मनस इंद्रियेभ्यः
पृथक्करणान्मनो नेंद्रियं, नापि वृत्त्युपादानत्वात्करणं मनः पुनः प्रमाणांतरावष्टंभो वादी प्रत्यवतिष्ठते ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP