संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गौतमीयधर्मशास्त्रेः|तृतीयप्रश्ने| षड्विंशोऽध्यायः तृतीयप्रश्ने एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः तृतीयप्रश्ने - षड्विंशोऽध्यायः ‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत. Tags : dharmagautamगौतमधर्मसंस्कृत षड्विंशोऽध्यायः Translation - भाषांतर अथातः कृच्छ्रान्व्याख्यास्यामः ॥१॥ हविष्यान्प्रातराशान्भुक्त्वा तिस्त्रो रात्रीर्नाश्नीयात् ॥२॥ अथापरं त्र्यहं नक्तं भुञ्जीत ॥३॥ अथापरं त्र्यहं न कंचन याचेत ॥४॥ अथापरं त्र्यहमुपवसेत् ॥५॥ तिष्ठेदहनि रात्रावासीत क्षिप्रकामः ॥६॥ सत्यं वदेत् ॥७॥ अनार्यैर्न संभाषेत ॥८॥ रौरवयौधाजपे नित्यं प्रयुञ्जीत ॥९॥ अनुसवनमुदकोपस्पर्शनमापो हि ष्ठेति तिसृ - भिः पवित्रवतीभिर्मार्जयीत हिरण्यवर्णाः शुचयः पावका इत्यष्टाभिः ॥१०॥ अथोदकतर्पणम् ॥११॥ नमोऽहमाय मोहमाय मंहमाय धुन्वते तापसाय पुनर्वसवे नमः । नमो मौञ्ज्यायोर्व्याय वसुविन्दाय सार्वविन्दाय नमः । नमः पाराय सुपाराय महापाराय पारयिष्णवे नमः । नमो रुद्राय पशुपतये महते देवाय त्र्यम्बकायैकचरायाधिपतये हराय शर्वायेशा - नायोग्राय वज्रिणे घृणिने कपर्दिने नमः । नमः सूर्यायाऽऽदित्याय नमः । नमो नीलग्रीवाय शिति - कण्ठाय नमः । नमः कृष्णाय पिङगलाय नमः । नमो ज्येष्ठाय श्रेष्ठाय वृद्धायेन्द्राय हरिकेशायोर्ध्व - रेतसे नमः । नमः सत्याय पावकाय पावक - वर्णाय कामाय कामरुपिणे नमः । नमो दीप्ताय दीप्तरुपिणे नमः । नमस्तीक्ष्णाय तीक्ष्णरुपिणे नमः । नमः सोभ्याय सुपुरुषाय महापुरुषाय मध्यमपुरुषायोत्तमपुरुषाय ब्रह्मचारिणे नमः । नमश्वन्द्रललाटाय कृत्तिवाससे नमः ॥१२॥ एतदेवाऽऽदित्योपस्थानम् ॥१३॥ एता एवाऽऽज्याहुतयः ॥१४॥ द्वादशरात्रस्यान्ते चरुं श्रपयित्वै - ताभ्यो देवताभ्यो जुहुयात् ॥१५॥ अग्नये स्वाहा सोमाय स्वाहाऽग्नीषोमाभ्या - मिन्द्राग्निभ्यामिन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे प्रजापतयेऽग्नये स्विष्टकृत इति ॥१६॥ ततो ब्राह्मणतर्पणम् ॥१७॥ एतेनैवातिकृच्छ्रो व्याख्यातः ॥१८॥ यावत्सकृदाददीत तावदश्र्नीयात् ॥१९॥ अब्भक्षस्तृतीयः स कृच्छ्रातिकृच्छ्रः ॥२०॥ प्रथमं चरित्वा शुचिः पूतः कर्मण्यो भवति ॥२१॥ द्वितीयं चरित्वा यत्किंचिदन्यन्महापात - केभ्यः पापं कुरुते तस्मात्प्रमुच्यते ॥२२॥ तृतीयं चरित्वा सर्वस्मादेनसो मुच्यते ॥२३॥ अथैतांस्त्रीन्कृच्छ्रांश्वरित्वा सर्वेषु वेदेषु स्त्रातो भवति सवैर्देवैर्ज्ञातो भवति ॥२४॥ यश्वैवं वेद ॥२५॥ इति श्रीहरदत्तविरचितायां गोतमीसूत्रविवृतौ मिताक्षरायां षड्विंशोऽध्यायः ॥२६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP