संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गौतमीयधर्मशास्त्रेः|तृतीयप्रश्ने| एकविंशोऽध्यायः तृतीयप्रश्ने एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः तृतीयप्रश्ने - एकविंशोऽध्यायः ‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत. Tags : dharmagautamगौतमधर्मसंस्कृत एकविंशोऽध्यायः Translation - भाषांतर ब्रह्महसुरापगुरुतल्पगमातृपितृयोनिसंबन्धागस्तेननास्तिकनि - न्दितकर्माभ्यासिपतितात्याग्यपतितत्यागिनः पतिताः ॥१॥ पातकसंयोजनकाश्व ॥२॥ तैश्वाब्दं समाचरन् ॥३॥ द्विजातिकर्मभ्यो हानिः पतनम् ॥४॥ तथा परत्र चासिद्धिः ॥५॥ तमेके नरकम् ॥६॥ त्रीणि प्रथमान्यनिर्दश्यान्यनु ॥७॥ न स्त्रीष्वगुरुतल्पं पततीत्येके ॥८॥ भ्रूनहनि हीनवर्णसेवायां च स्त्री पतति ॥९॥ कौटसाक्ष्यं राजगामि पैशुनं गुरोरनृता - भिशंसनं महापातकसमानि ॥१०॥ अपङ्क्त्यानां प्राग्दुर्बालाद्गोहन्तृब्रह्मघ्नतन्मन्त्र - कृदवकीर्णिपतितसावित्रीकेषूपपातकम् ॥११॥ अज्ञानादनध्यापनादृत्विगाचार्यौ पतनीयसेवायां च हेयौ ॥१२॥ अन्यत्र हानात्पतति ॥१३॥ तस्य च प्रतिग्रहीतेत्येके ॥१४॥ न कर्हिचिन्मातापित्रोरवृत्तिः ॥१५॥ दायं तु न भजेरन् ॥१६॥ ब्राह्मणाभिशंसने दोषस्तावान् ॥१७॥ द्विरनेनसि ॥१८॥ दुर्बलहिंसायां च विमोचने शक्तश्वेत् ॥१९॥ अभिक्रुद्धावगोरणं ब्राह्मणस्य वर्षशतमस्वर्ग्यम् ॥२०॥ निघाते सहस्त्रम् ॥२१॥ इति श्रीहरदत्तकृतायां गौतमीयधर्मशास्त्रे मिताक्षराया - मेकविंशोऽध्यायः ॥२१॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP