त्वं हि ब्रह्मैव साक्षात् परमुरुमहिमन्नक्षराणामकार -
स्तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृनुर्नारदोऽपि ।
प्रह्लादो दानवानां पशुषु च सुरभिः पक्षिणां वैनतेयो
नागानामस्यन्तः सुरसरिदपि च स्त्रोतसां विश्र्वमूर्ते ॥१॥
ब्रह्मण्यानां बलिसत्वं क्रतुषु च जपयज्ञोऽसि वीरेषु पार्थो
भक्तानामुद्धवस्त्वं बलमसि बलिनां धाम तेजस्विनां त्वम् ।
नास्त्यन्तस्त्वद्विभूतेर्विकसदतिशयं वस्तु सर्वं त्वमेव
त्वं जीवस्त्वं प्रधानं यदिह भवदृते तन्न किंचित् प्रपञ्चे ॥२॥
धर्मं वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्या
कुर्वन्तोऽन्तर्विरागे विकसति शनकैः संत्यजन्तो लभन्ते ।
सत्तास्फूर्तिप्रियत्वात्मकमखिलपदार्थेषु भिन्नेष्वभिन्नं
निर्मूलं विश्र्वमूलं परममहमिति त्वद्विबोधं विशुद्धम् ॥३॥
ज्ञानं कर्मापि भक्तिस्त्रितयमिह भवत्प्रापकं तत्र
तावन्निर्विण्णानामशेषे विषय इह भवेञ्ज्ञानयोगेऽधिकारः ।
सक्तानां कर्मयोगस्त्वयि हि विनिहितो ये तु नात्यन्तसक्ता
नाप्यत्यन्तं विरक्तास्त्वयि च धृतरसा भक्तियोगे ह्यमीषाम् ॥४॥
ज्ञानं त्वद्भक्ततां वा लघु सकृतवशान्मर्त्यलोके लभन्ते
तस्मात् तत्रैव जन्म स्पृहयति भगवन् नाकगो नारको वा ।
आविष्टं मां तु दैवाद्भवजलनिधिपोतायिते मर्त्यदेहे
त्वं कृत्वा कर्णधारं गुरुमनुगुणवातायितस्तारयेथाः ॥५॥
अव्यक्तं मार्गयन्तः श्रुतिभिरपि नयैः केवलज्ञानलुब्धाः
क्लिश्यन्तेऽतीव सिद्धि बहुतरजनुषामन्त एवाप्रुवन्ति ।
दूरस्थः कर्मयोगोऽपि च परमफले नन्वयं भक्तियोग -
स्त्वामूलादेव हृद्यस्त्वरितमयि भवत्प्रापको वर्धतां मे ॥६॥
ज्ञानायैवातियत्नं मुनिरपवदते ब्रह्मतत्त्वं तु श़ृण्वन्
गाढं त्वत्पादभक्ति शरणमयति यस्तस्य मुक्तिः कराग्रे ।
त्वद्ध्यानेऽपीह तुल्या पुनरसुकरता चित्तचाञ्चल्यहेतो -
रभ्यासादाशु शक्यं तदपि वशयितुं त्वत्कृपाचारुताभ्याम् ॥७॥
निर्विण्णः कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढं
जातश्रद्धोऽपि कामानयि भुवनपते नैव शक्रोमि हातुम् ।
तद्भूयो निश्र्चयेन त्वयि निहितमना दोषबुद्ध्य़ा भजंस्तान्
पुष्णीयां भक्तिमेव त्वयि हृदयगते मङ्क्षु नङ्क्ष्यन्ति सङ्गा ॥८॥
कश्र्चित् क्लेशार्जितार्थक्षयविमलमतिर्नुद्यमानो जनौघैः
प्रागेवं प्राह विप्रो न खलु मम जनाः कालकर्मग्रहा वा ।
चेतो मे दुःखहेतुस्तदिह गुणगणं भावयत्
सर्वकारीत्युक्वा शान्तो गतस्त्वां मम च कुरु विभो तादृशीं चित्तशान्तिम् ॥९॥
ऐलः प्रागुर्वशीं प्रत्यतिविवशमनाः सेवमानश्र्चिरं तां
गाढं निर्विद्य भूयो युवतिसुखमिदं क्षुद्रमेवेति गायन् ।
त्वद्भक्तिं प्राप्य पूर्णः सुखतरमचरत् तद्वदुद्धूय सङ्गं
भक्तोत्तंसं क्रिया मां पवनपुरपते हन्त मे रुन्धि रोगान् ॥१०॥
॥ इति भगवद्विभूतिवर्णनादि षण्णवतितमदशकं समाप्तम् ॥