बन्धुस्नेहं विजह्यां तव हि करुणया त्वय्युपावेशितात्मा
सर्वं त्यक्त्वा चरेयं सकलमपि जगद्वीक्ष्य मायालिवासम् ।
नानात्वाद् भ्रान्तिजन्यात् सति खलु गुणदोषावबोधे विधिर्वा
व्यासेधो वा कथं तौ त्वयि निहितमतेर्वीतवैषम्यबुद्धेः ॥१॥
क्षुत्तुष्णालोपमात्रे सततकृतधियो जन्तवः सन्त्यनन्ता -
स्तेभ्यो विज्ञानवत्त्वात् पुरुष इह वरस्तज्जनिर्दुर्लभैव ।
तन्नाप्यात्माऽऽत्मनः स्यात् सुहृदपि च रिपुर्यस्त्वायि न्यस्तचेता -
स्तापोच्छित्तेरुपायं स्मरति स हि सुहृत् स्वात्मवैरी ततोऽन्यः ॥२॥
त्वत्कारुण्ये प्रवृत्ते क इव नहि गुरुर्लोकवृत्तेऽपि भूमन्
सर्वाक्रान्तापि भूमिर्नहि चलति ततः सत्क्षमां शिक्षयेयम् ।
गृह्णीयामीश तत्तद्विषयपरिचयेऽप्यप्रसक्तिं समीराद्
व्याप्तत्वं चात्मनो मे गगनगुरुवशाद्भातु निर्लेपता च ॥३॥
स्वच्छः स्यां पावनोऽहं मधुर उदकवद्वह्निवन्मा स्म गृह्णां
सर्वान्नीनोऽपि दोषं तरुषु मां सर्वभूतेष्ववेयाम् ।
पुष्टिर्नष्टिः कलानां शशिन इव तनोर्नात्मनोऽतीति विद्यां
तोयादिव्यस्तमार्तण्डवदपि च तनुष्वेकतां त्वत्प्रसादात् ॥४॥
स्नेहाद् व्याधास्तपुत्रप्रणयमृतकपोतायितो मा स्म भूवं
प्राप्तं प्राश्र्नन् सहेय क्षुधमपि शयुवत् सिन्धुवत् स्यामगाधः ।
मा पप्तं योषिदादौ शिखिनि शलभवद् भृङ्गवत् सारभागी
भूयासं किंतु पद्वद्धनयचयनवशान्माहमीश प्रणेशम् ॥५॥
मा बध्याससं तरुण्या गज इव वशया नार्जयेयं धनौघं
हर्तान्यस्तं हि माध्वीहर इव मृगवन्मा मुहं ग्राम्यगीतैः ।
नात्यासज्जेय भोज्ये झष इव बडिशे पिङ्गलावन्निराशः
सुप्यां भर्तव्ययोगात् कुरर इव विभो सामिषोऽन्यैर्न हन्यै ॥६॥
वर्तेय त्यक्तमानः सुखमतिशिशुवन्निस्सहायश्र्चरेयं
कन्याया एकशेषो वलय इव विभो विर्जितान्योन्यघोषः ।
त्वच्चित्तो नावबुध्यै परमिषुकृदिव क्ष्माभृदायानघोष।
गेहेष्वन्यप्रणीतेष्वहिरिव निवसान्युन्दुरोर्मन्दिरेषु ॥७॥
त्वय्येव त्वत्कृतं त्वं क्षपयसि जगदित्यूर्णनाभात् प्रतीयां
त्वच्चिन्ता त्वत्स्वरूपं कुरुत इति दृढं शिक्षये पेशकारात् ।
विड्भस्मात्मा च देहो भवति गुरुवरो यो विवेकं विरक्ति
धत्ते संचिन्त्यमानो मम तु बहुरुजापीडितोऽयं विशेषात् ॥८॥
ही ही मे देहमोहं त्यज पवनपुराधीश यत्प्रेमहेतो -
र्गेहे वित्ते कलत्रादिषु च विवशितास्त्वत्पदं विस्मरन्ति ।
सोऽयं वह्नेः शुनो वा परिमह परतः साम्प्रतं चाक्षिकर्ण -
त्वग्जिह्वाद्या विकर्षन्त्यवशमत इतः कोऽपि न त्पत्पदाब्जे ॥९॥
दुर्वारो देहमोहो यदि पुनरधुना तर्हि निश्शेषरोगान्
हृत्वा भक्तिं द्रढिष्ठां कुरु तव पदपङ्केरुहे पङ्केजाक्ष ।
नूनं नानाभवान्ते समधिगतमिमं मुक्तिदं विप्रदेहं
क्षुद्रे हा हन्त मा मा क्षिप विषयरसे पाहि मां मारुतेश ॥१०॥
॥ इति गुरुशिक्षावर्णनं त्रिनवतितमदशकं समाप्तम् ॥