शुद्धा निष्कामधर्मेः प्रवरगुरुगिरा तत्स्वरूपं परं ते
शुद्धं देहेन्द्रियादिव्यपगतखिलव्याप्तमावेदयन्ते ।
नानात्वस्थौल्यकार्श्यादि तु गुणजवपुस्सङ्गतोऽध्यासितं ते
वह्नेर्दारुप्रभेदेष्विव महदणुतादीप्तताशान्ततादि ॥१॥
आचार्याख्याधरस्थारणिसमनुमिलच्छिष्यरूपोत्तरार -
ण्यावेधोद्भासितेन स्फुटतरपरिबोधाग्नि दह्यमाने ।
कर्मालीवासनातत्कृततनुभुवनभ्रान्तिकान्तारपूरे
दाह्याभावेन विद्याशिखिनि च विरते त्वन्मयी खल्ववस्था ॥२॥
एवं त्वत्प्राप्तितोऽन्यो न हिल खलु निखिलक्लेशहानेरुपायो
नैकान्तात्यन्तिकास्ते कृषिवदगदषाड्गुण्यषट्कर्मयोगाः ।
दुवेर्र्कल्येरकल्या अपि निगमपथास्तत्फलान्यप्यवाप्ता
मत्तास्त्वां विस्मरन्तः प्रसजित पतने यान्त्यनन्तान् विषादान् ॥३॥
त्वल्लोकादन्यलोकः क्व नु भयरहितो यत् परार्द्धद्वयान्ते
त्वद्भीतः सत्यलोकेऽपि न सुखवसतिः पद्मभूः पद्मनाभ ।
एवाम्भावे त्वधर्मार्जितबहुतमसां का कथा नारकाणां
तं मे त्वं छिन्धि बन्धं वरद कृपणबन्धो कृपापूरसिन्धो ॥४॥
याथार्थ्यात् त्वन्मयस्यैव हि मम न विभो वस्तुतो बन्धमोक्षौ
मायाविद्यातनुभ्यां तव तु विरचितौ स्वप्नबोधोपमौ तौ ।
बद्धे जीवद्विमुक्तिं गतवति च भिदा तावती तावदेको
भुङ्क्ते देहद्रुमस्थो विषयफलरसान्नापरो निर्व्यथात्मा ॥५॥
जीवन्मुक्तत्वमेवंविधमिति वचसा किं फलं दूरदूरे
तन्नामाशुद्धबुद्धेर्न च लघु मनसः शोधनं भक्तितोऽन्यत् ।
तन्मे विष्णो कृषीष्ठास्त्वयि कृतसकलप्रार्पणं भक्तिभारं
येन स्यां मङ्क्षु किंचिद्गुरुवचनमिलत्त्वत्प्रबोधस्त्वदात्मा ॥६॥
शब्दब्रह्मण्यपीह प्रयतितमनसस्त्वां न जानन्ति केचित्
कष्टं बन्ध्यश्रमास्ते चिरतरमिह गां बिभ्रते निष्प्रसूतिम् ।
यस्यां विश्र्वाभिरामाः सकलमलहरा दिव्यलीलावताराः
सच्चित्सान्द्रं च रूपं तव न निगदितं तां न वाचं भ्रियासम् ॥७॥
यो यावान् यादृशो वा त्वमिति किमपि नैवावगच्छामि
भूमन्नेवं चानन्यभावस्त्वदनुभजनमेवाद्रिये चैद्यवैरिन् ।
त्वल्लिङ्गानां त्वदङ्घ्रिप्रियजनसदसां दर्शनस्पर्शनादि -
भूर्यान्मे त्वत्प्रपूजानतिनुतिगुणकर्मानुकीर्त्यादरोऽपि ॥८॥
यद्यल्लभ्येत तत्तत्तव समुपहृतं देव दासोऽस्मि तेऽहं
त्वद्गेहोन्मार्जनाद्यं भवतु मम मुहुः कर्म निर्मायमेव ।
सूर्याग्निब्राह्मणात्मादिषु लसितचतुर्बाहुमाराधये त्वां
त्वत्प्रमार्द्रत्वरूपो मम सततमभिष्यन्दतां भक्तियोगः ॥९॥
ऐक्य ते दानहोमव्रतनियमतपस्सांख्ययोगैर्दुरापं
त्वत्सङ्गैनैव गोप्यः किल सुकृतितमाः प्रापुरानन्दसान्द्रम् ।
भक्तेष्वन्येषु भूयस्स्वपि बहु मनुषे भक्तिमेव त्वमासां
तन्मे त्वद्भक्तिमेव द्रढय हर गदान् कृष्ण वातालयेश ॥१०॥
॥ इति तत्त्वज्ञानोत्पत्तिप्रकारादिवर्णनं चतुर्नवतितमदशकं समाप्तम् ॥