एवं चतुर्दशजगन्मयतां गतस्य
पातालमीश तव पादतलं वदन्ति ।
पादोर्ध्वदेशमपि देव रसातलं ते
गुल्फद्वयं खलु महातलमद्भुतात्मन् ॥१॥
जङ्घे तलातलमथो सुतलं च जानू
किं चोरुभागयुगलं वितलातले द्वे ।
क्षोणीतलं जघनमम्बरमङ्ग नाभि -
र्वक्षश्र्च शक्रनिलयस्तव चक्रपाणे ॥२॥
ग्रीवा महस्तव मुखं च जनस्तपस्तु
फालं शिरस्तव समस्तमयस्य सत्यम् ।
एवं जगन्मयतनो जगदाश्रितैर -
प्यन्यैर्निबद्धवपुषे भगवन् नमस्ते ॥३॥
त्वद्ब्रह्मरन्ध्रपदमीश्र्वर विश्र्वकंद -
च्छन्दांसि केशव घनास्तव केशपाशाः ।
उल्लासि चिल्लियुगलं द्रुहिणस्य गेहं
पक्ष्माणि रात्रिदिवसौ सविता च नेत्रे ॥४॥
निश्शेषविश्र्वरचना च कटाक्षमोक्षः
कर्णो दिशोऽश्र्वियुगलं तव नासिके द्वे ।
लोभत्रपे च भगवन्नधरोत्तरोष्ठौ
तारागणाश्र्च दशनाश्शमनश्र्च दंष्ट्रा ॥५॥
माया विलासहसितं श्र्वासितं समीरो
जिह्णा जलं वचनमीश शकुन्तपङ्क्तिः ।
सिद्धादयस्स्वरगणा मुखरन्ध्रमग्नि -
र्देवा भुजाः स्तनयुगं तव धर्मदेवः ॥६॥
पृष्ठं त्वधर्म इह देव मनस्सुधांशु -
रव्यक्तमेव हृदयाम्बुजमम्बुजाक्ष ।
कुक्षिस्समुद्रनिवहा वसनं तु संध्ये
शेफः प्रजापतिरसौ वृषणौ च मित्रः ॥७॥
श्रोणीस्थलं मृगगणाः पदयोर्नखास्ते
हस्त्युष्ट्रसैन्धवमुखा गमनं तु कालः ।
विप्रदिवर्णभवनं वदनाब्जबाहु -
चारूरुयुग्मचरणं करुणाम्बुधे ते ॥८॥
संसारचक्रमयि चक्रधर क्रियास्ते
वीर्यं महासुरगणोऽस्थिकुलानि शैलाः ।
नाड्यस्सरित्समुदयस्तरवश्र्च रोम
जीयादिदं वपुरनिर्वचनीयमीश ॥९॥
ईदृग्जगन्मयवपुस्तव कर्मभाजां
कर्मावसानसमये स्मरणीयमाहुः ।
तस्यान्तरात्मवपुषे विमलात्मने ते
वातालयाधिप नमोऽस्तु निरुन्धि रोगान् ॥१०॥
॥ इति विराट्पुरुषस्य जगदात्मत्ववर्णनं षष्ठदशकं समाप्तम् ॥