सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं
कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम ।
गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्ज्वलत्कौस्तुभं
त्वद्रूपं वनमाल्यहारपटलश्रीवत्सदीप्रं भजे ॥१॥
केयूराङ्गदकङ्कतगदाशङ्खरिपङ्केरुहाम् ।
कांचित् काञ्चनकाञ्चिलाञ्छतलसत्पीताम्बरालम्बिनी
मालम्बे विमलाम्बुजद्युतिपदां मूर्ति तवार्तिच्छिदम् ॥२॥
यत् त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात्
कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि ।
सौंन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रूपमाश्र्चर्यतो
ऽप्याश्र्चर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो ॥३॥
तत्तादृङमधुरात्मकं तव वपुः सम्प्राप्य सम्पन्मयी
सा देवी परमोत्सुका चिरतरं नास्ते स्वभक्तेष्वपि ।
तेनास्या बत कष्टमच्युत विभो त्वद्रूपमानोज्ञक
प्रेमस्थैर्यमयादचापलबलाच्चापल्यवार्तोदभूत् ॥४॥
लक्ष्मीस्तावकरामणीयकहृतैवेयं परेष्वस्थिरे -
त्यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते ।
ये त्वद्ध्यानगुणानुकीर्तनरसासक्ता हि भक्ता जना -
स्तेष्वेषा वसति स्थिरैव दयितप्रस्तावदत्तादरा ॥५॥
एवंभूतमनोज्ञतानवसुधानिष्यन्दसंदोहनं
त्वद्रूपं परिचद्रसायनमयं चेतोहरं श़ृण्वताम् ।
सद्यः प्रेरयते मतिं मदयते रोमाञ्चयत्यङ्गकं
व्यासिञ्चत्यपि शीतबाष्पविसरैरानन्दमूर्च्छोद्भवैः ॥६॥
एवंभूततया हि भक्त्याभिहितो योगः स योगद्वयात्
कर्मज्ञानमयाद् भृशोत्तरतरो योगीश्र्वरैर्गीयते ।
सौन्दर्यैंकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका
भक्तिर्निःश्रममेव विश्र्वपुरुषैर्लभ्या रमावल्लभ ॥७॥
निष्कामं नियतस्वधर्मचरणं यत्कर्मयोगाभिधं
तद्दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुनः।
तत्त्वव्यक्तया सुदुर्गमतरं चित्तस्य तस्माद् विभो
त्वत्प्रेमात्मकभक्तिरेव सततं स्वादीयसी श्रेयसी ॥८॥
अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मला
बोधे भक्तिपथेऽथवाप्युचिततामायान्ति किं तावता ।
क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुन -
श्र्चित्तार्दत्वमृते विचिन्त्य बहुभिः सिद्ध्यन्ति जन्मान्तरैः ॥९॥
त्वद्भक्तिस्तु कथारसामृतझरीनिर्मज्जनेन स्वयं
सिद्ध्यन्ती विमलप्रबोधपदवीमक्लेशतस्तन्वती ।
सद्यःसिद्धिकरी जयत्ययि विभो सैवास्तु मे त्वत्पदप्रेमप्रौढिरसार्द्रता
द्रुततरं वातालयाधीश्र्वर ॥१०॥
॥ इति भगवद्रूपादिवर्णनं द्वितीयदशकं समाप्तम् ॥