वत्सपालचरः कोऽपि वत्सः श्रीवत्सलाञ्छनः ।
उत्सवाय कदा भावीत्युत्सुके मम लोचने ॥२६॥
मधुरिमभरिते मनोभिरामे
मृदुलतरस्मितमुद्रिताननेन्दौ ।
त्रिभुवननयनैकलोभनीये
महसि वयं व्रजभाजि लालसाः स्मः ॥२७॥
मुखारविन्दे मकरन्दबिन्दु-
निष्यन्तलीलामुरलीनिनादे ।
व्रजाङ्गनापाङ्गतरङ्गभृङ्ग-
संग्रामभूमौ तव लालसाः स्मः ॥२८॥
आताम्रायतलोचनांशुलहरीलीलासुधाप्यायितैः
गीताम्रेडितदिव्यकेलिभरितैः स्फीतं व्रजस्त्रीजनैः ।
स्वेदाम्भःकणभूषितेन किमपि स्मेरेण वक्त्रेन्दुना
पादाम्भोजमृदुप्रचारसुभगं पश्यामि दृश्यं महः ॥२९॥
पाणौ वेणुः प्रकृतिसुकुमाराकृतौ बाल्यलक्ष्मीः
पार्श्वे बालाः प्रणयसरसालोकितापाङ्गलीलाः ।
मौलौ बर्हं मधुरवदनाम्भोरुहे मौग्ध्यमुद्रे-
त्यार्द्राकारं किमपि कितवं ज्योतिरन्वेषयामः ॥३०॥
आरूढवेणुतरुणाधरविभ्रमेण
माधुर्यशालिवदनाम्बुजमुद्वहन्ती ।
आलोक्यतां किमनया वनदेवता वः
कैशोरके वयसि कापि च कान्तियष्टिः ॥३१॥
अनन्यसाधारणकान्तिकान्त-
माक्रान्तगोपीनयनारविन्दम् ।
पुंसः पुराणस्य नवं विलासं
पुण्येन पूर्णेन विलोकयिष्ये ॥३२॥
साष्टाङ्गपातमभिवन्द्य समस्तभावैः
सर्वान् सुरेन्द्रनिकरानिदमेव याचे ।
मन्दस्मितार्द्रमधुराननचन्द्रबिम्बे
नन्दस्य पुण्यनिचये मम भक्तिरस्तु ॥३३॥
एषु प्रवाहेषु स एव मन्ये
क्षणोऽपि गण्यः पुरुषायुषेषु ।
आस्वाद्यते यत्र कयापि भक्त्या
नीलस्य बालस्य निजं चरित्रम् ॥३४॥
निसर्गसरसादरं निजदयार्द्रदिव्येक्षणं
मनोज्ञमुखपङ्कजं मधुरसार्द्रमन्दस्मितम् ।
रसज्ञ हृदयास्पदं रमितवल्लवीलोचनं
पुनःपुनरुपास्महे भुवनलोभनीयं महः ॥३५॥
स कोऽपि बालस्सरसीरुहाक्षः
सा च व्रजस्त्रीजनपादधूलिः ।
मुहुस्तदेतद्युगलं मदीये
मोमुह्यमानोऽपि मनस्युतेतु ॥३६॥
मयि प्रयाणाभिमुखे च वल्लवी-
स्तनद्वयीदुर्ललितस्स बालकः ।
शनैश्शनैः श्रावितवेणुनिस्वनो
विलासवेषेण पुरः प्रतीयताम् ॥३७॥
अतिभूमिमभूमिमेव वा
वचसां वासितवल्लवीस्तत्नम् ।
मनसाममरं रसायनं
मधुराद्वैतमुपास्महे महः ॥३८॥
जननातरेऽपि जगदेकमण्डने
कमनीयधाम्नि कमलायतेक्षणे ।
व्रजसुन्दरीजनविलोचनामृते
चपलानि सन्तु सकलेन्द्रियाणि मे ॥३९॥
मुनिश्रेणीवन्द्यं मदभरलसद्वल्लववधू-
स्तनश्रोणीबिम्बस्तिमितनयनाम्भोजसुभगम् ।
पुनः श्लाघाभूमिं पुलकितगिरां नैगमगिरां
घनश्यामं वन्दे किमपि कमनीयाकृतिमहः ॥४०॥
अनुचुम्बितामविचलेन चेतसा
मनुजाकृतेर्मधुरिमश्रियं विभोः ।
अयि देव कृष्ण दयितेति जल्पता-
मपि नो भवेयुरपि नाम तादृशः ॥४१॥
किशोरवेषेण कृशोदरीदृशां
विशेषदृश्येन विशाललोचनम् ।
यशोदया लब्धयशोनवाम्बुधे-
र्निशामये नीलनिशाकरं कदा ॥४२॥
प्रकृतिरवतु नो विलासलक्ष्म्याः
प्रकृतिजडं प्रणतापराधवीथ्याम् ।
सुकृतिकृतपदं किशोरभावे
सुकृतिमनः प्रणिधानपात्रमोजः ॥४३॥
अपहसित सुधामदावलेपै-
रतिसुमनोहरमार्द्रमन्दहासैः ।
व्रजयुवतिविलोचनावलेह्यं
रमयतु धाम रमावरोधं नः ॥४४॥
अङ्कूरितस्मेरदशाविशेषै-
रश्रान्तहर्षामृतवर्षमक्ष्णाम् ।
संक्रीडतां चेतसि गोपकन्या-
घनस्तनस्वस्त्ययनं महो नः ॥४५॥
मृगमदपङ्कसङ्करविशेषितवन्यमहा-
गिरितटगण्डगैरिकघनद्रवविद्रुमिताम् ।
अजितभुजान्तरं भजत हे व्रजगोपवधू-
स्तनकलशस्थलीघुसृणमर्दनकर्दमिदम् ॥४६॥
आमूलपल्लवितलीलमपाङ्गजालै-
रासिञ्चती भुवनमादृतगोपवेषा ।
बालाकृतिर्मृदुलमुग्धमुखेन्दुबिम्बा-
माधुर्यसिद्धिरवतान्मधुविद्विषो नः ॥४७॥
विरणन् मणिनूपुरं व्रजे
चरणाम्भोजमुपास्स्व शार्ङ्गिणः ।
सरसे सरसि श्रियाश्रितं
कमलं वा कलहंसनादितम् ॥४८॥
शरणमशरणानां शारदाम्भोजनेत्रं
निरवधिमधुरिम्ना नीलवेषेण रम्यम् ।
स्मरशरपरतन्त्रस्मेरनेत्राम्बुजाभि-
र्व्रजयुवतिभिरव्याद् ब्रह्म संवेष्टितं नः ॥४९॥
सुव्यक्तकान्तिभरसौरभदिव्यगात्र-
मव्यक्तयौवनपरीतकिशोरभावम् ।
गव्यानुपालनविधावनुशिष्टमव्या-
दव्याजरम्यमखिलेश्वरवैभवं नः ॥५०॥