अस्ति स्वस्त्ययनं समस्तजगतामभ्यस्तलक्ष्मीस्तनं
वस्तु ध्वस्तरजस्तमोभिरनिशं न्यस्तं पुरस्तादिव ।
हस्तोदस्तगिरीन्द्रमस्तकतरुप्रस्तारविस्तारित-
स्रस्तस्वस्तरुसूनसंस्तरलसत्प्रस्तावि राधास्तुतम् ॥१॥
राधाराधितविभ्रमाद्भुतरसं लावण्यरत्नाकरं
साधारण्यपदव्यतीतसहजस्मेराननाम्भोरुहम् ।
आलम्बे हरिनीलगर्वगुरुतासर्वस्वनिर्वापणं
बालं वैणविकं विमुग्धमधुरं मूर्धाभिषिक्तं महः ॥२॥
करिणामलभ्यगतिवैभवं भजे
करुणावलम्बितकिशोरविग्रहम् ।
यमिनामनारतविहारि मानसे
यमुनावनान्तरसिकं परं महः ॥३॥
अतन्त्रितत्रिजगदपि व्रजाङ्गना-
नियन्त्रितं विपुलविलोचनाज्ञया ।
निरन्तरं मम हृदये विज्जृम्भतां
समन्ततः सरसतरं परं महः ॥४॥
कन्दर्पप्रतिमल्लकान्तिविभवं कादम्बिनीबान्धवं
बृन्दारण्यविलासिनीव्यसनिनं वेषेण भूषामयम् ।
मन्दस्मेरमुखाम्बुजं मधुरिमव्यामृष्टबिम्बाधरं
वन्दे कन्दलितार्द्रयौवनवनं कैशोरकं शार्ङ्गिणः ॥५॥
आमुक्तमानुषममुक्तनिजानुभाव-
मारूढयौवनमगूढविदग्धलीलम् ।
आमृष्टयौवनमनष्टकिशोरभाव-
मद्यं महः किमपि माद्यति मानसे मे ॥६॥
ते ते भावस्सकलजगदीलोभनीयप्रभावाः
नानातृष्णासुहृदि हृदि मे काममाविर्भवन्तु ।
वीणावेणुक्वणितलसितस्मेरवक्त्रारविन्दा-
न्नाहं जाने मधुरमपरं नन्दपुण्याम्बुराशेः ॥७॥
सुकृतिभिरादृत्ते सरसवेणुनिनादसुधा-
रसलहरीविहारनिरवग्रहकर्णपुटे ।
व्रजवरसुन्दरीमुखसरोरुहसन्मधुपे
महसि कदा नु मज्जति मदीयमिदं हृदयम् ॥८॥
तृष्णातुरे चेतसि जृम्भमाणां
मुष्णान्मुहुर्मोहमहान्धकारम् ।
पुष्णातु नः पुण्यदयैकसिन्धोः
कृष्णस्य कारुण्यकटाक्षकेलिः ॥९॥
निखिलागममौलिलालितं
पदकमलं परमस्य तेजसः ।
व्रजभुवि बहुमन्महेतरां
सरसकरीषविशेषरूषिताम् ॥१०॥
उदारमृदुलस्मितव्यतिकराभिरामाननं
मुदा मुहुरुदीर्णया मुनिमनोम्बुजाम्रेडितम् ।
मदालसविलोचनव्रजवधूमुखास्वादितं
कदा नु कमलेक्षणं कमपि बालमालोकये ॥११॥
व्रजजनमदयोषिल्लोचनोच्छिष्टशेषी-
कृतमतिचपलाभ्यां लोचनाभ्यामुभाभ्याम् ।
सकृदपि परिपातुं ते वयं पारयामः
कुवलयदलनीलं कान्तिपूरं कदा नु ॥१२॥
घोषयोषिदनुगीतयौवनं
कोमलस्तनितवेणुनिस्स्वनम् ।
सारभूतमभिरामसंपदां
धाम तामरसलोचनं भजे ॥१३॥
लीलया ललितयावलम्बितं
मूलगेहमिव मूर्तिसंपदाम् ।
नीलनीरदविकासविभ्रमं
बालमेव वयमाद्रियामहे ॥१४॥
वन्दे मुरारेश्चरणारविन्द-
द्वन्द्वं दयादर्शितशैशवस्य ।
वन्दारुबृन्दारकबृन्दमौलि-
मन्दारमालाविनिमर्दभीरु ॥१५॥
यस्मिन् नृत्यति यस्य शेखरभरैः क्रौञ्चद्विषश्चन्द्रकीं
यस्मिन् दृप्यति यस्य घोषसुरभिं जिघ्रन् वृषो धृर्जटेः ।
यस्मिन् सज्जति यस्य विभ्रमगतिं वाञ्छन् हरेस्सिन्धुर-
स्तद्बृन्दावनकल्पकद्रुमवनं तं वा किशोरं भजे ॥१६॥
अरुणाधरामृतविशेषितस्मितं
वरुणालयानुगतवर्णवैभवम् ।
तरुणारविन्ददलदीर्घलोचनं
करुणामयं कमपि बालमाश्रये ॥१७॥
लावण्यवीचीरचिताङ्गभूषां
भूषापदारोपितपुण्यबर्हाम् ।
कारुण्यधारालकटाक्षमालां
बालां भजे वल्लववंशलक्ष्मीम् ॥१८॥
मधुरैकरसं वपुर्विभो-
र्मथुरावीथिचरं भजामहे ।
नगरीमृगशाबलोचना
नयनेन्दीवरवर्षवर्षितम् ॥१९॥
पर्याकुलेन नयनान्तविजृम्भितेन
वक्त्रेण कोमलदरस्मितविभ्रमेण ।
मन्त्रेण मञ्जुलतरेण च जल्पितेन
नन्दस्य हन्त तनयो हृदयं धुनोति ॥२०॥
कन्दर्पकण्डूलकटाक्षबन्धी-
रिन्दीवराक्षीरभिलाषमाणान् ।
मन्दस्मिताधारमुखारविन्दान्
वन्दामहे वल्लवधूर्तपादान् ॥२१॥
लीलाटोपकटाक्षनिर्भरपरिष्वङ्गप्रसङ्गाधिक-
प्रीते गीतिविभङ्गसङ्गतलसद्वेणुप्रणादामृते ।
राधालोचनलालितस्य ललितस्स्मेरे मुरारेर्मुदा
माधुर्यैकरसे मुखेन्दुकमले मग्नं मदीयं मनः ॥२२॥
शरणागतव्रजपञ्जरे
शरणे शार्ङ्गधरस्य वैभवे ।
कृपयाधृतगोपविग्रहे
कियदन्यन्मृगयामहे वयम् ॥२३॥
जगत्त्रयैकान्तमनिज्ञभूमि-
चेतस्यजस्रं मम सन्निदत्ताम् ।
रमासमास्वादितसौकुमार्यं
राधास्तनाभोगरसज्ञमोजः ॥२४॥
वयमेते विश्वसिमः करुणाकरमूर्तिकिंवदन्त्याङ्गे ।
अपि च विभो तव ललिते चपलतरा मतिरियं बाल्ये ॥२५॥