सम्बाधे सुरभीणामम्बामायासयन्तमनुयान्तीम् ।
लम्बालकमवलम्बे तं बालं तनुविलग्नजम्बालम् ॥७६॥
अञ्चितपिञ्छाचूडं सञ्चितसौजन्यवल्लवीवलयम् ।
अधरमणिनिहितवेणुं बालं गोपालमनिशमवलम्बे ॥७७॥
प्रह्लादभागदेयं निगममहाद्रेर्गुहान्तराधेयम् ।
नरहरिपदाभिधेयं विबुधविधेयं ममानुसंधेयम् ॥७८॥
संसारे किं सारं कंसारेश्चरणकमलपरिभाजनम् ।
ज्योतिः किमन्धकारे यदन्तकारेरनुस्मरणम् ॥७९॥
कलशनवनीतचोरे कमलादृक्कुमुदचन्द्रिकापूरे ।
विहरतु नन्दकुमारे चेतो मम गोपसुन्दरीजारे ॥८०॥
कस्त्वं बाल बलानुजः किमिह ते मन्मन्दिराशङ्कया
युक्तं तन्नवनीतपात्रविवरे हस्तं किमर्थं न्यसेः ।
मातः कञ्चन वत्सकं मृगयितुं मा गा विषादं क्षणा-
दित्येवं वरवल्लवीप्रतिवचः कृष्णस्य पुष्णातु नः ॥८१॥
गोपालाजिरकर्दमे विहरसे विप्राध्वरे लज्जसे
ब्रूषे गोकुलहुङ्कृतैः स्तुतिशतैर्मौनं विधत्से विदाम् ।
दास्यं गोकुलपुंश्चलीषु कुरुषे स्वायं न दान्तत्मसु
ज्ञातं कृष्ण तवाङ्घ्रिपङ्कजयुगं प्रेम्णाचलं मञ्जुलम् ॥८२॥
नमस्तस्मै यशोदाया दायादायास्तु तेजसे ।
यद्धि राधामुखाम्भोजं भोजं भोजं व्यवर्धत ॥८३॥
अवताराः सन्त्वन्ये सरसिजनयनस्य सर्वतोभद्राः ।
कृष्णादन्यः को वा प्रभवति गोगोपगोपिकामुक्तैः ॥८४॥
मध्ये गोकुलमण्डलं प्रतिदिशं चाम्बारवोज्जृम्भिते
प्रातर्दोहमहोत्सवे नवघनश्यमं रणन्नूपुरम् ।
फाले बालविभूषणं कटिरणत्सत्किङ्किणीमेखलं
कण्ठे व्याघ्रनखं च शैशवकलाकल्याणकार्त्स्न्यं भजे ॥८५॥
सजलजलधनीलं दर्शितोदारलीलं
करतलधृतशैलं वेणुनादैरसालम् ।
व्रजजनकुलपालं कामिनीकेलिलोलं
कलितललितमालं नौमि गोपालबालम् ॥८६॥
स्मितललितकपोलं स्निग्धसङ्गीतलोलं
ललितचिकुरजालं चौर्यचातुर्यलीलम् ।
शतमखरिपुकालं शातकुम्भाभचेलं
कुवलयदलनीलं नौमि गोपालपालम् ॥८७॥
मुरलिनिनदलोलं मुग्धमायूरचूडं
दलितदनुजजालं धन्यसौजन्यलीलम् ।
परहितनवहेलं पद्मसद्मानुकूलं
नवजलधरनीलं नौमि गोपालपालम् ॥८८॥
सरसगुणनिकायं सच्चिदानन्दकायं
शमितसकलमायं सत्यलक्ष्मीसहायम् ।
शमदमसमुदायं शान्तसर्वान्तरायं
सुहृदयजनदायं नौमि गोपालपालम् ॥८९॥
लक्ष्मीकलत्रं ललिताब्जनेत्रं
पूर्णेन्दुवक्त्रं पुरुहूतमित्रम् ।
कारुण्यपात्रं कमनीयगात्रं
वन्दे पवित्रं वसुदेवपुत्रम् ॥९०॥
मदमयमदमयदुरगं
यमुनामवतीर्य वीर्यशाली यः ।
मम रतिममरतिरस्कृति-
शमनपरस्स क्रियात् कृष्णः ॥९१॥
मौलौ मायूरबर्हं मृगमदतिलकं चारु लालाटपट्टे
कर्णद्वन्द्वे च तालीदलमतिमृदुलं मौक्तिकं नासिकायाम् ।
हारो मन्दारमालापरिमलभरिते कौस्तुभस्योपकण्ठे
पाणौ वेणुश्च यस्य व्रजयुवतियुतः पातु पीताम्बरो नः ॥९२॥
मुरारिणा वारिविहारकाले
मृगेक्षणां मुषितांशुकानाम् ।
करद्वयं वा कचसंहतिर्वा
प्रमीलनं वा परिधानमासीत् ॥९३॥
यासां गोपाङ्गनानां लसदसिततरालोललीलाकटाक्षा
यन्नासा चारु मुक्तामणिरुचिनिकरव्योमगङ्गाप्रवाहे ।
मीनायन्तेऽपि तासामतिरभसचलच्चारुनीलालकान्ता
भृङ्गायन्ते यदङ्घ्रिद्वयसरसिरुहे पातु पीताम्बरो नः ॥९४॥
यद्वेणूश्रेणिरूपस्थितसुषिरमुखोद्गीर्णनादप्रभिन्ना
एणाक्ष्यस्तत्क्षणेन त्रुटितनिजपतिप्रेमबन्धा बभूवुः ॥
अस्तव्यस्तालकान्ताः स्फुरदधरकुचद्वन्द्वनाभिप्रदेशाः
कामावेशप्रकर्षप्रकटितपुलकाः पातु पीतम्बरो नः ॥९५॥
देवक्या जठराकरे समुदितः क्रीतो गवां पालिना
नन्देनानकदुन्दुभेर्निजसुतापण्येन पुण्यात्मना ।
गोपालावलिमुग्धहारतरलो गोपीजनालङ्कृतिः
स्थेयान्नो हृदि सन्ततं सुमधुरः कोऽपीन्द्रनीलो मणिः ॥९६॥
पीठे पीठनिषण्णबालकगले तिष्ठन् स गोपालको
यन्तान्तःस्थितदुग्धभाण्डमपकृष्याच्छाद्य घण्टारवम् ।
वक्त्रोपान्तकृताञ्जलिः कृतशिरः कम्पं पिबन् यः पयः
पायादागतगोपिकानयनयोर्गण्डूषफूत्कारकृत् ॥९७॥
यज्ञैरीजिमहे धनं ददिमहे पात्रेषु नूनं वयं
वृद्धान् भेजिमहे तपश्चकृमहे जन्मान्तरे दुश्चरम् ।
येनास्माकमभूदनन्यसुलभा भक्तिर्भवद्वेषिणी
चाणूरद्विषि भक्तकल्मषमुषि श्रेयःपुषि श्रीजुषि ॥९८॥
त्वयि प्रसन्ने मम किं गुणेन
त्वय्यप्रसन्ने मम किम् गुणेन ।
रक्ते विरक्ते च वरे वधूनां
निरर्थकः कुङ्कुमपत्रभङ्गः ॥९९॥
गायन्ति क्षणदावसानसमये सानन्दमिन्दुप्रभा
रुन्धन्त्यो निजदन्तकान्तिनिवहैर्गोपाङ्गना गोकुले ।
मथ्नन्त्यो दधि पाणिकङ्कणझणत्कारानुकारं जवाद्
व्यावल्गद्वसनाञ्जला यमनिशं पीताम्बरोऽव्यात्स नः ॥१००॥
अंसालम्बितवामकुण्डलभरं मन्दोन्नतभ्रूलतं
किञ्चित्कुञ्चितकोमलाधरपुटं साचि प्रसारेक्षणम् ।
आलोलाङ्गुलिपल्लवैर्मुरलिकामापूरयन्तं मुदा
मूले कल्पतरोस्त्रिभङ्गिललितं जाने जगन्मोहनम् ॥१०१॥
मल्लैश्शैलेन्द्रकल्पः शिशुरितजनैः पुष्पचापोऽङ्गनाभि-
र्गोपैस्तु प्राकृतात्मा दिविकुलिशभृता विश्वकायोऽप्रमेयः ।
क्रुद्धः कंसेन कालो भयचकितदृशा योगिभिर्ध्येयमूर्तिः
दृष्टो रङ्गावतारे हरिरमरगणानन्दकृत् पातु युष्मान् ॥१०२॥
संविष्टो मणिविष्टरेऽङ्कतलमध्यासीन लक्ष्मी मुखे
कस्तूरीतिलकं मुदा विरचयन् हर्षात्कुचौ संस्पृशन् ।
अन्योन्यस्मितचन्द्रिकाकिसलयैराराधयन्मन्मथं
गोपीगोपपरिवृतो यदुपतिः पायाञ्जगन्मोहनः ॥१०३॥
आकृष्टे वसनाञ्चले कुवलयश्यामा त्रपाधःकृता
दृष्टिः संवलिता रुचा कुचयुगे स्वर्णप्रभे श्रीमति ।
बालः कश्चन चूतपल्लव इति प्रान्तस्मितास्यश्रियं
श्लिष्यंस्तामथ रुक्मिणीं नतमुखीं कृष्णस्स पुष्णातु नः ॥१०४॥
उर्व्यां कोऽपि महीधरो लघुतरो दोर्भ्यां धृतो लीलया
तेन त्वं दिवि भूतले च सततं गोवर्धनोद्धारकः ।
त्वां त्रैलोक्यधरं वहामि कुचयोरग्रे न तद्गण्यते
किं वा केशव भाषणेन बहुना पुण्यैर्यशो लभ्यते ॥१०५॥
सन्ध्यावन्दन भद्रमस्तु भवतो भोः स्नान तुभ्यं नमो
भो देवाः पितरश्च तर्पणविधौ नाहं क्षमः क्षम्यताम् ।
यत्र क्वापि निषीद्य यादवकुलोत्तंसस्य कंसद्विषः
स्मारं स्मारमघं हरामि तदलं मन्ये किमन्येन मे ॥१०६॥
हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते
हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव ।
हे रामानुज हे जगत्रयगुरो हे पुण्डरीकाक्ष मां
हे गोपीजननाथ पालय परं जानामिन त्वां विना ॥१०७॥
कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं
नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम् ।
सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥१०८॥
लोकानुन्मदयन् श्रुतीर्मुखरयन् श्रोणीरुहान्हर्षयन्
शैलान्विद्रवयन् मृगान्विवशयन् गोबृन्दमानन्दयन् ।
गोपान् संभ्रमयन् मुनीन्मुकुलयन् सप्तस्वरान् जृम्भयन्
ओंकारार्थमुदीरयन् विजयते वंशीनिनादश्शिशोः ॥१०९॥
॥ इति श्रीकृष्णकर्णामृते द्वितीयाश्वासः समाप्तः ॥