अभिनवनवनीतस्निग्धमापीतदिग्धं
दधिकणपरिदिग्धं मुग्धमङ्कं मुरारेः ।
दिशतु भुवनकृच्छ्रच्छेदि तापिञ्छगुच्छ-
च्छवि नवशिखिपिञ्छा लाञ्छितं वाञ्छितं नः ॥१॥
यां दृष्ट्वा यमुनां पिपासुरनिशं व्यूहो गवां गाहते
विद्युत्वानिति नीलकण्ठनिवहो यां द्रष्टुमुत्कण्ठते ।
उत्तंसाय तमालपल्लवमिति च्छिन्दन्ति यां गोपिकाः
कन्तिः कालियशासनस्य वपुषः सा पावनी पातु नः ॥२॥
देवः पायात्पयसि विमले यामुने मज्जतीनां
याचन्तीनामनुनयपदैर्वञ्चितान्यंशुकानि ।
लज्जालोलैरलसविलसैरुन्मिषत्पञ्चबाणै-
र्गोपस्त्रीणां नयनकुसुमैरर्चितः केशवो नोः ॥३॥
मातर्नातः परमनुचितं यत्खलानां पुरस्ता-
दस्ताशङ्कं जठरपिठरीपूर्तये नर्तितासि ।
तत्क्षन्तव्यं सहजसरले वत्सले वाणि कुर्यां
प्रायश्चित्तं गुणगणनया गोपवेषस्य विष्णोः ॥४॥
अङ्गुल्यग्रैररुणकिरणैर्मुक्तसंरुद्धरन्ध्रं
वारं वारं वदनमरुता वेणुमापूरयन्तम् ।
व्यत्यस्ताङ्घ्रिं विकचकमलच्छायविस्तारनेत्रं
वन्दे वृन्दावनसुचरितं नन्दगोपालसूनुम् ॥५॥
मन्दं मन्दं मधुरनिनदैर्वेणुमापूरयन्तं
बृन्दं बृन्दावनभुवि गवां चारयन्तं चरन्तम् ।
छन्दोभगे शतमखमुखध्वंसिनां दानवानां
हन्तारं तं कथय रसने गोपकन्याभुजङ्गम् ॥६॥
वेणीमूले विरचितघनश्यामपिञ्छावचूडो
विद्युल्लेखावलयित इव स्निग्धपीताम्बरेण ।
मामालिङ्गन्मरकतमणिस्तम्भगंभीरबाहुः
स्वप्ने दृष्टस्तरुणतुलसीभूषणो नीलमेघः ॥७॥
कृष्णे हृत्वा वसननिचयं कूलकुञ्जाधिरूढे
मुग्धा काचिन्मुहुरनुनयैः किन्विति व्याहरन्ती ।
सभ्रूभङ्गं सदरहसितं सत्रपं सानुरागं
छायाशौरेः करतलगतान्यम्बराण्याचकर्ष ॥८॥
अपि जनुषि परस्मिन्नात्तपुण्यो भवेयं
तटभुवि यमुनायास्तादृशो वंशनालः ।
अनुभवति य एषः श्रीमदाभीरसूनो-
रधरमणिसमीपन्यासधन्यामवस्थाम् ॥९॥
अयि परिचिनुः चेतः प्रातरम्भोजनेत्रं
कबरकलितचञ्चत्पिञ्छदामाभिरामम् ।
वलभिदुपलनीलं वल्लवीभागधेयं
निखिलनिगमवल्लीमूलकन्दं मुकुन्दम् ॥१०॥
अयि मुरलि मुकुन्दस्मेरवक्त्रारविन्द-
श्वसनमधुरसज्ञे त्वां प्रणम्याद्य याचे ।
अधरमणिसमीपं प्राप्तवत्यां भवत्यां
कथय रहसि कर्णे मद्दशां नन्दसूनोः ॥११॥
सजलजलदनीलं वल्लवीकेलिलोलं
श्रितसुरतरुमूलं विद्युदुल्लासिचेलम् ।
सुररिपुकुलकालं सन्मनोबिम्बलीलं
नतसुरमुनिजालं नौमि गोपालबालम् ॥१२॥
अधरबिम्बविडम्बितविद्रुमं
मधुरवेणुनिनादविनोदिनम् ।
कमलकोमलकम्रमुखाम्बुजं
कमपि गोपकुमारमुपास्महे ॥१३॥
अधरे विनिवेश्य वंशनालं
विवराण्यस्य सलीलमङ्गुलीभिः ।
मुहुरन्तरयन्मुहुर्विवर्णन्
मधुरं गायति माधवो वनान्ते ॥१४॥
वदने नवनीतगन्धवाहं
वचने तस्करचातुरीधुरीणम् ।
नयने कुहुनाश्रुमाश्रयेथा-
श्चरणे कोमलताण्डवं कुमारम् ॥१५॥
अमुनाखिलगोपगोपनार्थं
यमुनारोधसि नन्दनन्दनेन ।
दमुना वनसम्भवः पपे नः
किमु नासौ शरणार्थिनां शरण्यः ॥१६॥
जगदादरणीयजारभावं
जलजापत्यवचोविचारगम्यम् ।
तनुतां तनुतां शिवेतराणां
सुरनाथोपलसुन्दरं महो नः ॥१७॥
या शेखरे श्रुतिगिरां हृदि योगभाजां
पादाम्बुजे च सुलभा व्रजसुन्दरीणाम् ।
सा काऽपि सर्वजगतामभिरामसीमा
कामाय नो भवतु गोपकिशोरमूर्तिः ॥१८॥
अत्यन्तबालमतसीकुसुमप्रकाशं
दिग्वाससं कनकभूषणभूषिताङ्गम् ।
विस्रस्तकेशमरुणाधरमायताक्षं
कृष्णं नमामि मनसा वसुदेवसूनुम् ॥१९॥
हस्ताङ्घ्रिनिक्वणितकङ्कणकिङ्किणीकं
मध्ये नितम्बमवलम्बितहेमसूत्रम् ।
मुक्ताकलापमुकुलीकृतकाकपक्षं
वन्दामहे व्रजवरं वसुदेवभाग्यम् ॥२०॥
बृन्दावनद्रुमतलेषु गवां गणेषु
वेदावसानसमयेषु च दृश्यते यत् ।
तद्वेणुनादनपरं शिखिपिञ्छचूडं
ब्रह्म स्मरामि कमलेक्षणमभ्रनीलम् ॥२१॥
व्यत्यस्तपादमवतंसितबर्हिबर्हं
साचीकृतानननिवेशितवेणुरन्ध्रम् ।
तेजः परं परमकारुणिकं पुरस्तात्
प्राणप्रयाणसमये मम सन्निधत्ताम् ॥२२॥
घोषप्रघोषशमनाय मथोगुणेन
मध्ये बबन्ध जननी नवनीतचोरम् ।
तद्बन्धनं त्रिजगतामुदराश्रयाणा-
माक्रोशकारणमहो नितरां बभूव ॥२३॥
शैवा वयं न खलु तत्र विचारणीयं
पञ्चाक्षरीजपपरा नितरां तथापि ।
चेतो मदीयमतसीकुसुमावभासं
स्मेरानन स्मरति गोपवधूकिशोरम् ॥२४॥
राधा पुनातु जगदच्युतदत्तचित्ता
मन्थानमाकलयती दधिरिक्तपात्रे ।
तस्याः स्तनस्तबकचञ्चललोलदृष्टि-
र्देवोऽपि दोहनधिया वृषभं निरुन्धन् ॥२५॥