अन्तर्गृहे कृष्णमवेक्ष्य चोरम्
बद्ध्वा कवाटं जननीं गतैका ।
उलूखले दामनिबद्धमेनं
तत्रापि दृष्ट्वा स्तिमिता बभूव ॥५१॥
रत्नस्थले जानुचरः कुमारः
सङ्क्रान्तमात्मीयमुखारविन्दम् ।
आदातु लाभस्तदलाभखेदा-
द्विलोक्य धात्रीवदनं रुरोद ॥५२॥
आनन्देन यशोदया समदनं गोपाङ्गनाभिश्चिरं
साशङ्कं बलविद्विषा सकुसुमैः सिद्धैः पृथिव्याकुलम् ।
सेर्ष्यं गोपकुमारकैस्सकरुणं पौरैर्जनैः सास्मतं
यो दृष्टः स पुनातु नो मुररिपुः प्रोत्क्षिप्तगोवर्धनः ॥५३॥
उपासतामात्मविदः पुराणाः
परं पुमांसं निहितं गुहायाम् ।
वयं यशोदाशिशुबाललीला-
कथासुधासिन्धुषु लीलयामः ॥५४॥
विक्रेतुकामा किल गोपकन्या
मुरारिपादार्पितचित्तवृत्तिः ।
दध्यादिकं मोहवशादवोच-
द्गोविन्द दामोदर माधवेति ॥५५॥
उलूखलं वा यमिनां मनो वा
गोपाङ्गनानां कुचकुट्मलं वा ।
मुरारिनाम्नः कलभस्य नून-
मालानमासीत् त्रयमेव भूमौ ॥५६॥
करारविन्देन पदारविन्दं
मुखारविन्दे विनिवेशयन्तम् ।
वटस्य पत्रस्य पुटे शयानं
बालं मुकुन्दं मनसा स्मरामि ॥५७॥
शम्भो स्वागतमास्यतामित इतो वामेन पद्मासन
क्रौञ्चारे कुशलं सुखं सुरपते वित्तेश नो दृश्यसे ।
इत्थं स्वप्नगतस्य कैटभजितश्श्रुत्वा यशोदा गिरः
किं किं बालक जल्पसीति रचितं धूधूकृतं पातु नः ॥५८॥
मातः किं यथुनाथ देहि चषकं किं तेन पातुं पय-
स्तन्नास्त्यद्य कदास्ति वा निशि निशा का वाऽन्धकारोदये ।
आमील्याक्षियुगं निशाप्युपगता देहीति मातुर्मुहु-
र्वक्षोजांशुककर्षणोद्यतकरः कृष्णस्य पुष्णातु नः ॥५९॥
कालिन्दीपुलिनोदरेषु मुसली यावद्गतः खेलितुं
तावत्कार्परिकं पयः पिब हरे वर्धिष्यते ते शिखा ।
इत्थं बालतया प्रतारणपराः शृत्वा यशोदागिरः
पायान्नस्स्वशिखां स्पृशन् प्रमुदितः क्षीरेऽर्धपीते हरिः ॥६०॥
कैलासे नवनीतति क्षितिरियं पार्जग्धमृल्लोष्टति
क्षीरोदोऽपि निपीतदुग्धति लसत् स्मेरे प्रफुल्ले मुखे ।
मात्राऽजीर्णधिया दृढं चकितया नष्टाऽस्मि दृष्टाः कया
धूधू वत्सक जीव जीव चिरमित्युक्तोऽवतान्नो हरिः ॥६१॥
किञ्चित्कुञ्चितलोचनस्य पिबतः पर्यायपीतस्तनं
सद्यः प्रस्नुतदुग्धबिन्दुमपरं हस्तेन सम्मार्जतः ।
मात्रैकाङ्गुलिलालितस्य चुबुके स्मेराननस्याधरे
शौरेः क्षीणकणान्विता निपतिता दन्तद्युतिः पातु नः ॥६२॥
उत्तुङ्गस्तनमण्डलोपरिलसत्प्रालम्बमुक्तामणे-
रन्तर्बिम्बितमिन्द्रनीलनिकरच्छायानुकारिद्युतेः ।
लज्जाव्याजमुपेत्य नम्रवदना स्पष्टं मुरारेर्वपुः
पश्यन्ती मुदिता मुदोऽस्तु भवतां लक्ष्मीर्विवाहोत्सवे ॥६३॥
कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया
तत्थं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम् ।
व्यादेहीति विदारिते शिशुमुखे दृष्ट्वा समस्तं जगत्
माता यस्य जगाम विस्मयपदं पायात् स नः केशवः ॥६४॥
स्वाती सपत्नी किल तारकाणां
मुक्ताफलानां जननीति रोषात् ।
सा रोहिणी नीलमसूत रत्नं
कृतास्पदं गोपवधूकुचेषु ॥६५॥
नृत्यन्तमत्यन्तविलोकनीयं
कृष्णं मणिस्थम्भगतं मृगाक्षी ।
निरीक्ष्य साक्षादिव कृष्णमग्रे
द्विधा वितेने नवनीतमेकम् ॥६६॥
वत्स जागृहि विभातमागतं
जीव कृष्ण शरदां शतं शतम् ।
इत्युदीर्य सुचिरं यशोदया
दृश्यमनवदनं भजामहे ॥६७॥
ओष्ठं जिघ्रन् शिशुरिति धिया चुम्बितो वल्लवीभिः
कण्ठं गृह्णन्नरुणितपदं गाढमालिङ्गिताङ्गः ।
दोष्णा लज्जापदमभिमृशन्नङ्कमारोपितात्मा
धूर्तस्वामी हरतु दुरितं दूरतो बालकृष्णः ॥६८॥
एते लक्ष्मण जानकीविरहितं मां खेदयन्त्यम्बुदा
मर्माणीव च घट्टयन्त्यलममी क्रूरः कदम्बानिलः ।
इत्थं व्यहृतपूर्वजन्मचरितं यो राधया वीक्षितः
सेर्ष्यं शङ्कितया स नस्सुखयतु स्वप्नायमानो हरिः ॥६९॥
ओष्ठं मुञ्च हरे बिभेमि भवता पानैर्हता पूतना
कण्ठाश्लेषममुं जहीहि दलितावालिङ्गनेनार्जुनौ ।
मा देहि च्छुरितं हिरण्यकशिपुर्नीतो नखैः पञ्चता-
मित्थं वारितरात्रिकेलिरवताल्लक्ष्म्यापहासाद्धरिः ॥७०॥
रामो नाम बभूव हुं तदबला सीतेति हुं तौ पितु-
र्वाचा पञ्चवटीतटे विहरतस्तामाहरद्रावणः ।
निद्रार्थं जननी कथामिति हरेर्हुङ्कारतः शृण्वतः
सौमित्रे क्व धनुर्धनुर्धनुरिति व्यग्रा गिरः पातु नः ॥७१॥
बालोऽपि शैलोद्धरणाग्रपाणि-
र्नीलोऽपि नीरन्ध्रतमः प्रदीपः ।
धीरोऽपि राधानयनावबद्धो
जारोऽपि संसारहरः कुतस्त्वम् ॥७२॥
बालाय नीलवपुषे नवकिङ्किणीक-
जालाभिरामजघनाय दिगम्बराय ।
शार्दूलदिव्यनखभूषणभूषिताय
नन्दात्मजाय नवनीतमुषे नमस्ते ॥७३॥
पाणौ पायसभक्तमाहितरसं विभ्रन्मुदा दक्षिणे
सव्ये शारदचन्द्रमण्डलनिभं हव्यंगवीनं दधत् ।
कण्ठे कल्पितपुण्डरीकनखमप्युद्दामदीप्तिं वहन्
देवो दिव्यदिगम्बरो दिशतु नस्सौख्यं यशोदाशिशुः ॥७४॥
किङ्किणिकिणिकिणिरभसै-
रङ्गणभुवि रिङ्खणैः सदाऽटन्तम् ।
कुङ्कुणुकुणुपदयुगलं
कङ्कणकरभूषणं हरिं वन्दे ॥७५॥