धेनुपालदयितास्तनस्थली-
धन्यकुङ्कुमसनाथकान्तये ।
वेणुगीतगतिमूलवेधसे
तेजसे तदिदमों नमो नमः ॥७६॥
मृदुक्वणन्नूपुरमन्थरेण
बालेन पादाम्बुजपल्लवेन ।
अनुक्वणन्मञ्जुलवेणुगीत-
मायाति मे जीवितमात्तकेलि ॥७७॥
सोऽयं विलासमुरलीनिनदामृतेन
सिञ्चन्नुदञ्चितमिदं मम कर्णयुग्मम् ।
आयाति मे नयनबन्धुरनन्यबन्धु-
रानन्दकन्दलितकेलिकटाक्षलक्ष्यः ॥७८॥
दूराद्विलोकयति वारणखेलगामी
धाराकटाक्षभरितेन विलोचनेन ।
आरादुपैति हृदयङ्गमवेणुनाद-
वेणीदुघेन दशनावरणेन देवः ॥७९॥
त्रिभुवनसरसाभ्यां दीप्तभूषापदाभ्यां
दृशि दृशि शिशिराभ्यां दिव्यलीलाकुलाभ्याम् ।
अशरणशरणाभ्यामद्भुताभ्यां पदाभ्या-
मयमयमनुकूजद्वेणुरायाति देवः ॥८०॥
सोऽयं मुनीन्द्रजनमानसतापहारी
सोऽयं मदव्रजवधूवसनापहारी ।
सोऽयं तृतीयभुवनेश्वारदर्पहारी
सोऽयं मदीयहृदयाम्बुरुहापहारी ॥८१॥
सर्वज्ञत्वे च मौग्ध्ये च सार्वभौममिदं मम ।
निर्विशन्नयनं तेजो निर्वाणपदमश्नुते ॥८२॥
कृष्णानमेतत्पुनरुक्तशोभ-
मुष्णेतरांशोरुदयं मुखेन्दोः ।
तृष्णाम्बुराशिं द्विगुणीकरोति
कृष्णाह्वयं किञ्चन जीवितं मे ॥८३॥
तदेतदाताम्रविलोचनश्री-
सम्भाविताशेषविनम्रवर्गम् ।
मुहुर्मुरारेर्मधुराधरोष्ठं
मुखाम्बुजं चुम्बति मानसं मे ॥८४॥
करौ शरदुदञ्चिताम्बुजविलासशिक्षागुरू
पदौ विबुधपादपप्रथमपल्लवोल्लङ्घिनौ ।
दृशौ दलितदुर्मदत्रिभुवनोपमानश्रियौ
विलोक्य सुविलोचनामृतमहो सहच्छैशावम् ॥८५॥
आचिन्वानमहन्यहन्यहनि साकारान् विहारक्रमा-
नारुन्धानमरुन्धतीहृदयमप्यार्द्रस्मितास्यश्रिया ।
आतन्वानमनन्यजन्मनयनश्लाघ्यामनर्घ्यां दशा-
मामन्दं व्रजसुन्दरीस्तनतटीसाम्राज्यमाज्जृम्भते ॥८६॥
समुच्छ्वसितयौवनं तरलशैशवालङ्कृतं
मदच्छुरितलोचनं मदनमुग्धहासामृतम् ।
प्रतिक्षणविलोकनं प्रणयपीतवशीमुखं
जगत्त्रयविमोहनं जयति मामकं जीवितम् ॥८७॥
चित्रं तदेतच्चरणारविन्दं
चित्रं तदेतन्नयनारविन्द्ं ।
चित्रं तदेतद्वदनारविन्दं
चित्रं तदेतत्पुनरम्ब चित्रम् ॥८८॥
अखिलभुवनैकभूषमधिभूषित-
जलधिदुहितृकुचकुम्भम् ।
व्रजयुवतीहारावलिमरकत-
नायकमहामणिं वन्दे ॥८९॥
कान्ताकचग्रहणविग्रहबद्धलक्ष्मी-
खण्डाङ्गरागरसरञ्जितमञ्जुलश्रीः ।
गण्डस्थलीमुकुरमण्डलखेलमान-
घर्माङ्कुरं किमपि खेलति कृष्णतेजः ॥९०॥
इमधुरं मधुरं वपुरस्य विभो-
र्मधुरं मधुरं वदनं मधुरम् ।
मधुगन्धि मृदस्मितमेतदहो
मधुरं मधुरं मधुरं मधुरम् ॥९१॥
शृङ्गाररससर्वस्वं शिखिपिञ्छविभूषणम् ।
अङ्गीकृतनराकारमाश्रये भुवनाश्रयम् ॥९२॥
नाद्यापि पश्यति कदाचन दर्शनेन
चित्तेन चोपनिषदा सुदृशां सहसर्म् ।
स त्वं चिरं नयनयोरनयोः पदव्यां
स्वामिन् कया नु कृपया मम सन्निधत्से ॥९३॥
केयं कान्तिः केशव त्वन्मुखेन्दोः
कोऽयं वेषः कोऽपि वाचामभूमिः ।
सेयं सोऽयं स्वादुता मञ्जुलश्रीः
भूयो भूयो भूयशस्तां नमामि ॥९४॥
वदनेन्दु विनिर्जितश्शशी
दशधा देव पदं प्रपद्यते ।
अधिकां श्रियमश्नुतेतरां
तव कारुण्यविजृम्भितं कियत् ॥९५॥
तत्वन्मुखं कथमिवाब्जसमानकक्ष्यं
वाङ्माधुरीबहुलपर्वकलासमृद्धम् ।
तत् किं ब्रुवे किमपरं भुवनैककान्तं
यस्य त्वदाननसमा सुषमा सदा स्यात् ॥९६॥
शुश्रूषसे यदि वचः शृणु मामकीनं
पूर्वैरपूर्वकविभिर्न कटाक्षितं यत् ।
नीराजनक्रमधुरं भवदाननेन्दोः
निर्व्याजमर्हति चिराया शशिप्रदीपः ॥९७॥
अखण्डनिर्वाणरसप्रवाहै-
र्विखण्डिताशेषरसान्तराणि ।
अयन्त्रितोद्धान्तसुधार्णवानि
जयन्ति शीतानि तव स्मितानि ॥९८॥
कामं सन्तु सहस्रशः कतिपये स्वारस्यधौरेयकाः
कामं वा कमनीयतापरिणतिस्वाराज्यबद्धव्रताः ।
तैर्नैवं विवदामहे न च वयं देव प्रियं ब्रूमहे
यत्सत्यं रमणीयतापरिणतिस्त्वय्येव पारंगता ॥९९॥
मन्दारमूले मदनाभिरामं
बिम्बाधरापूरितवेणुनादम् ।
गोगोपगोपीजनमध्यसंस्थं
गोपं भजे गोकुलपूर्णचन्द्रम् ॥१००॥
गलद्व्रीडा लोला मदनवनिता गोपवनिता
मधुस्फीतं गीतं किमपि मधुरा चापलधुराः ।
समुज्जृम्भा गुम्भा मधुरिमगिरां मादृशगिरां
त्वयि स्थाने जाते दधति चपलं जन्म च फलम् ॥१०१॥
भुवनं भवनं विलासिनी श्री-
स्तनयस्तामरसासनः स्मरश्च ।
परिचारपरम्पराः सुरेन्द्रा-
स्तपदि त्वच्चरितं विभो विचित्रम् ॥१०२॥
देवस्त्रिलोकसौभाग्यकस्तूरीतिलकाङ्कुरः ।
जीयाद् व्रजाङ्गनानङ्गकेलीललितविभ्रमः ॥१०३॥
प्रेमदं च मे कामदं च मे
वेदनं च मे वैभवं च मे ।
जीवनं च मे जीवितं च मे
दैवतं च मे देव नापरम् ॥१०४॥
माधुर्येण विजृम्भन्तां वाचो नस्तव वैभवे ।
चापल्येण विवर्धन्तां चिन्ता नस्तव शैशवे ॥१०५॥
यानि त्वच्चरितामृतानि रसनालेह्यानि धन्यात्मनां
ये वा चापलशैशवव्यतिकरा राधापराधोन्मुखाः ।
या वा भावितवेणुगीतगतयो लीलामुखाम्भोरुहे
धारावाहिकया वहन्तु हृदये तान्येव तान्येव मे ॥१०६॥
भक्तिस्त्वयि स्थिरतरा भगवन् यदि स्या-
द्दैवेन नः फलितदिव्यकिशोरवेषे ।
मुक्तिः स्वयं मुकुलिताञ्जलि सेवतेऽस्मान्
धर्मार्थकामगतयः समयप्रदीक्षाः ॥१०७॥
जय जय जय देव देव देव
त्रिभुवनमङ्गलदिव्यनामधेय ।
जय जय जय बालकृष्णदेव
श्रवणमनोनयनामृतावतार ॥१०८॥
तुभ्यं निर्भरहर्षवर्षविवशावेशस्फुटाविर्भव-
द्भूयश्चापलभूषितेषु सुकृतां भावेषु निर्भासते ।
श्रीमद्गोकुलमण्डनाय महते वाचां विदूरस्फुट-
न्माधुर्यैकरसार्णवाय महसे कस्मै चिदस्मै नमः ॥१०९॥
ईशानदेव चरणाभरणेन नीवी-
दामोदरस्थिरयशः स्तबकोद्गमेन ।
लीलाशुकेन रचितं तव देव कृष्ण-
कर्णामृतं वहतु कल्पशतान्तरेऽपि ॥११०॥
॥ इति श्रीकृष्णकर्णामृते प्रथमाश्वासः समाप्तः ॥