कदा वा कालिन्दीकुवलयदलश्यामलतराः
कटाक्षा लक्ष्यन्ते किमपि करुणावीचिनिचिताः ।
कदा वा कन्दर्पप्रतिभटजटाचन्द्रशिशिराः
किमप्यन्तस्तोषं ददति मुरलीकेलिनिनदाः ॥२६॥
अधीरमालोकितमार्द्रजल्पितं
गतं च गंभीरविलासमन्थरम् ।
अमन्तमालिङ्गितमाकुलोन्मद-
स्मितं च ते नाथ वदन्ति गोपिकाः ॥२७॥
अस्तोकस्मितभरमायतायताक्षं
निश्शेषस्तनमृदितं व्रजाङ्गनाभिः ।
निस्सीमस्तबकितनीलकान्तिधारं
दृश्यासं त्रिभुवनसुन्दरं महस्ते ॥२८॥
मयि प्रसादं मधुरैः कटाक्षै-
र्वशीनिनादानुचरैर्विधेहि ।
त्वयि प्रसन्ने किमिहापरैर्न-
स्त्वय्यप्रसन्ने किमिहापरैर्नः ॥२९॥
निबद्धमुग्धाञ्जलिरेष याचे
नीरन्ध्रदैन्योन्नतमुक्तकण्ठम् ।
दयाम्बुधे देव भवत्कटाक्ष-
दाक्षिण्यलेशेन सकृन्निषिञ्च ॥३०॥
पिञ्छावतंसरचनोचितकेशपाशे
पीनस्तनीनयनपङ्कजपूजनीये ।
चन्द्रारविन्दविजयोद्यतवक्त्रबिम्बे
चापल्यमेति नयनं तव शैशवे नः ॥३१॥
त्वच्छैशवं त्रिभुवनाद्भुतमित्यवैमि
यच्चापलं च मम वागविवादगम्यम् ।
तत् किं करोमि विरणान्मुरलीविलास-
मुग्धं मुखाम्बुजमुदीक्षतुमीक्षणाभ्याम् ॥३२॥
पर्याचितामृतरसानि पदार्थभङ्गी-
फल्गूनि वल्गितविशालविलोचननानि ।
बाल्याधिकानि मदवल्लवभावितानि
भावे लुठन्ति सुदृशां तव जल्पितानि ॥३३॥
पुनः प्रसन्नेन मुखेन्दुतेजसा
पुरोऽवतीर्णस्य कृपामहाम्बुधेः ।
तदेव लीलामुरलीरवामृतं
समाधिविघ्नाय कदा नु मे भवेत् ॥३४॥
भावेन मुग्धचपलेन विलोकनेन
मन्मानसे किमपि चापलमुद्वहन्तम् ।
लोलेन लोचनरसायनमीक्षणेन
लीलाकिशोरमुपगूहितुमुत्सुकोऽस्मि ॥३५॥
अधीरबिम्बाधरविभ्रमेण
हर्षार्द्रवेणुस्वरसम्पदा च ।
अनेन केनापि मनोहरेण
हा हन्त हा हन्त मनो धुनोति ॥३६॥
यावन्न मे निखिलमर्मदृढाभिघात-
निस्सन्धिबन्धनमुदेत्यसवोपतापः ।
तावद्विभो भवतु तावकवक्त्रचन्द्र-
चन्द्रातपद्विगुणिता मम चित्तधारा ॥३७॥
यावन्न मे नरदशा दशमी दृशोऽपि
रन्ध्रादुदेति तिमिरीकृतसर्वभावा ।
लावण्यकेलिभवनं तव तावदेतु
लक्ष्याः समुत्क्वणितवेणुमुखेन्दुबिम्बम् ॥३८॥
आलोललोचनविलोकितकेलिधारा-
नीराजिताग्रसरणेः करुणाम्बुराशेः ।
आर्द्राणि वेणुनिनदैः प्रतिनादपूरै-
राकर्णयामि मणिनूपुरशिञ्जितानि ॥३९॥
हे देव हे दयित हे जगदेकबन्धो
के कृष्ण हे चपल हे करुणैकसिन्धो ।
हे नाथ हे रमण हे नयनाभिराम
हा हा कदा नु भवितासि पदं दृशोर्मे ॥४०॥
अमून्यधन्यानि दिनान्तराणि
हरे त्वदालोकनमन्तरेण ।
अनाथिबन्धो करुणैकसिन्धो
हा हन्त हा हन्त कथं नयामि ॥४१॥
किमिव शृणुमः कस्य ब्रूमः कथं कृथमाशया
कथयत कथां धन्यामन्यामहो हृदयेशयः ।
मधुरमधुरस्मेरकारे मनोनयोत्सवे
कृपणकृपणा कृष्णे तृणां चिरं बत लम्बते ॥४२॥
आभ्यां विलोचनाभ्यामम्बुजदलललितलोचनं बालम् ।
द्वाभ्यामपि परिरब्धुं दूरे मम हन्त दैवसमाग्री ॥४३॥
अश्रान्तस्मितमरुणारुणाधरोष्ठं
हर्षार्द्रद्विगुणमनोज्ञवेणुगीतम् ।
विभ्राम्यद्विपुलविलोचनार्धमुग्धं
वीक्षिष्ये तव वदनाम्बुजं कदा नु ॥४४॥
लीलायताभ्यां रसशीतलाभ्यां
नीलारुणाभ्यां नयनाम्बुजाभ्याम् ।
आलोकयेदद्भुतविभ्रमाभ्यां
बालः कदा कारुणिकः किशोरः ॥४५॥
बहुलचिकुरभारं बद्धपिञ्छावतंसं
चपलवपलनेत्रं चारुबिम्बाधरोष्ठम् ।
मधुरमृदुलहासं मन्थरोदारलीलं
मृगयति नयनं मे मुग्धवेषं मुरारेः ॥४६॥
बहुलजलदच्छायाचोरं विलासभरालसं
मदशिखिशिखालीलोत्तंसं मनोज्ञमुखाम्बुजम् ।
कमपि कमलापाङ्कोदग्रप्रपन्नजगज्जितं
मधुरिमपरीपाकोद्रेकं वयं मृगयामहे ॥४७॥
परामृश्यं दूरे परिशदि मुनीनां व्रजवधू-
दृशां दृश्यं शशव्त् त्रिभुवनमनोहारिवपुषम् ।
अनामृश्यं वाचामनिदमुदयानमपि कदा
दरीदृश्ये देव दरदलितनीलोत्पलनिभम् ॥४८॥
लीलाननाम्बुजमधीरमुदीक्षमाणं
नर्माणि वेणुविवरेषु निवेशयन्तम् ।
डोलायमाननयनं नयनाभिरामं
देवं कदा नु दयितं व्यतिलोकयिष्ये ॥४९॥
लग्नं मुहुर्मनसि लम्पटसंप्रदायि-
लेखाविलेखनरसज्ञमनोज्ञवेषम् ।
लज्जन्मृदुस्मितमधुस्नपिताधरांशु-
राकेन्दुलालितमुखेन्दुमुकुन्दबाल्यम् ॥५०॥