अहिमकरकरनिकरमृदुमृदितलक्ष्मी-
सरसतरसरसिरुहसदृशदृशि देवे ।
व्रजयुवतिरतिकलहविजयिनिजलीला-
मदमुदितवदनशशिमधुरिमणि लीये ॥५१॥
करकमलदलदलितललिततरवंशी
कलनिनदगलदमृतघनसरसि देवे ।
सहजरसभरभरितदरहसितवीथी-
सततवहदधरमणीमधुरिमणि लीये ॥५२॥
कुसुमशरशरसमरकुपितमदगोपी-
कुचकलशघुसृणरसलसदुरसि देवे ।
मदलुलितमृदुहसितमुषितशशिशोभा-
मुहुरधिकमुखकमलमधुरिमणि लीये ॥५३॥
आनम्रामसितभ्रुवोरुपचितामक्षीणपक्ष्माङ्कुरे-
ष्वालोलामनुरागिणोर्नयनयोरार्द्रां मृदौ जल्पिते ।
आतम्रामधरामृते मदकलामम्लानवंशीरवे-
ष्वाशास्ते मम लोचनं व्रजशिशोर्मूर्तिं जगन्मोहिनीम् ॥५४॥
तत्कैशोरं तच्च वक्त्रारविन्दं
तत्कारुण्यं ते च लीलाकटाक्षाः ।
तत्सौन्दर्यं सा च मन्दस्मितश्रीः
सत्यं सत्यं दुर्लभं दैवतेषु ॥५५॥
विश्वोपप्लवशमनैकबद्धदीक्षं
विश्वासस्तवकितचेतसां जनानाम् ।
पश्यामः प्रतिनवकान्तिकन्दलार्द्रं
पश्यामः पथि पथि शैशवं मुरारेः ॥५६॥
मौलिश्चन्द्रकभूषणा मरकतस्तम्भाभिरामं वपु-
र्वक्त्रं चित्रविमुग्धहासमधुरं बाले विलोले दृशौ ।
वाचश्शैशवशीतलामदगजश्लाघ्या विलासस्थिति-
र्मन्दं मन्दमये क एष मथुरावीथीमितो गाहते ॥५७॥
पादौ पादविनिर्जिताम्बुजवनौ पद्मालयालङ्कृतौ
पाणी वेणुविनोदनप्रणयिनौ पर्यन्तशिल्पश्रियौ ।
बाहूदोहदभाजनं मृगदृशां माधुर्यधारा गिरो
वक्त्रं वाग्विभवातिलङ्घितमाहो बालं किमेतन्महः ॥५८॥
बर्हं नाम विभूषणं बहुमतं वेषाय शेषैरलं
वक्त्रं द्वित्रिविशेषकान्तिलहरीविन्यासधन्याधरम् ।
शीलैरल्पधियामगम्यविभवैः शृङ्गारभङ्गीमयं
चित्रं चित्रमहो विचित्रतमहो चित्रं विचित्रं महः ॥५९॥
अग्रे समग्रयति कामपि केलिलक्ष्मी-
मन्यासु दिक्ष्स्वपि विलोचनमेव साक्षी ।
हा हन्त हस्तपथदूरमहो किमेत-
दासीत् किशोरमयमम्ब जागत्रयं मे ॥६०॥
चिकुरं बहुलं विरलं भ्रमरं
मृदुलं वचनं विपुलं नयनम् ।
अधरं मधुरं वदनं ललितं
चपलं चरितन्तु कदाऽनुभवे ॥६१॥
परिपालय नः कृपालयेत्-
यसकृज्जल्पितमात्मबान्धबः ।
मुरली मृदुलस्वनान्तरे
विभुराकर्णयिता कदा नु नः ॥६२॥
कदा नु कस्यां नु विपद्दशायां
कैशोरगन्धिः करुणाम्बुधिर्नः ।
विलोचनाभ्यां विपुलायताभ्यां
व्यालोकयिष्यन् विषयीकरोति ॥६३॥
मधुरमधरबिम्बे मञ्जुलं मन्दहासे
शिशिरममृतवाक्ये शीतलं दृष्टिपाते ।
विपुलमरुणनेत्रे विश्रुतं वेणुनादे
मरकतमणिनीलं बालमालोकये नु ॥६४॥
माधुर्यादपि मधुरं मन्मथतातस्य किमपि किशोरम् ।
चापयादपि चपलं चेतो मम हरति हन्त किं कुर्मः ॥६५॥
वक्षःस्थले च विपुलं नयनोत्पले च
मन्दस्मिते च मृदुलं मदजल्पिते च ।
बिम्बाधरे च मधुरं मुरलीरवे च
बालं विलासनिधिमाकलये कदा नु ॥६६॥
आर्द्रावलोकितदयापरिणद्धनेत्र-
माविष्कृतस्मितसुधामधुराधरोष्ठम् ।
आद्यं पुमांसमवतंसितबर्हिबर्ह-
मालोकयन्ति कृतिनः कृतपुण्यपुञ्जाः ॥६७॥
मारः स्वयं नु मधुरद्युतिमण्डलं नु
माधुर्यमेव नु मनोनयनामृतं नु ।
वाणीमृजा नु मम जीवितवल्लभो नु
बालोऽयमभ्युदयते मम लोचनाय ॥६८॥
बालोऽयमालोलविलोचनेन
वक्त्रेण चित्रीकृतदिङ्मुखेन ।
वेषेण घोषोचितभूषणेन
मुग्धेन दुग्धे नयनोत्सुकं नः ॥६९॥
आन्दोलिताग्रभुजमाकुलनेत्रलील-
मार्द्रस्मितार्द्रवदनाम्बुजचन्द्रबिम्बम् ।
शिञ्जानभूषणशतं शिखिपिञ्छमौलिं
शीतं विलोचनरसायनमभ्युपैति ॥७०॥
पशुपालपालपरिषद्विभूषणं
शिशुरेष शीतलविलोललोचनः ।
मृदुलस्मितार्द्रवदनेन्दुसम्पदा
मदयन्मदीयहृदयं विगाहते ॥७१॥
तदिदमुपनतं तमालनीलं
तरलविलोचनतारकाभिरामम् ।
मुदितमुदितवक्त्रचन्द्रबिम्बं
मुखरितवेणुविलासजीवितं मे ॥७२॥
चापल्यसीम चपलानुभवैकसीम
चातुर्यसीम चतुरानानशिल्पसीम ।
सौरभ्यसीम सकलाद्भुतकेलिसीम
सौभाग्यसीम तदिदं व्रजभाग्यसीम ॥७३॥
मादुर्येण द्विगुणशिशिरं वक्त्रचन्द्रं वहन्ती
वशीवीथीविगलदमृतस्रोतसा सेचयन्ती ।
मद्वाणीनां विहरणपदं मत्तसौभाग्यभाजां
मात्पुण्यानां परिणतिरहो नेत्रयोस्सन्निधत्ते ॥७४॥
तेजसेऽस्तु नमो धेनुपालिने लोकपालिने ।
राधापयोधरोत्सङ्गशायिने शेषशायिने ॥७५॥