गृहमध्ये नाभिमात्रं कृत्वा गगर्त समन्ततः । शिलामध्ये लिखेद्यंत्रं स्वस्तिकाख्यं सुशोभनम ॥४१॥
खनित्वा स्थपतिस्तस्मिंस्त्रिभागान्कारयेद्बुधः । तन्मध्ये स्वस्तिकाकारां कारयेच्च समन्ततः ॥४२॥
ईशानादिचतुष्कोणे शिलां संपूज्य वेदवित । ईशानकोणे नन्दायाः पूजनञ्चैव कारयेत ॥४३॥
आग्नेयकोणे भद्रां तु नैऋत्ये च जयां तथा । रिक्तां वायव्यदिक्कोणे पूर्णा स्वस्तिकमध्यतः ॥४४॥
पूर्वत्पूजयेत्तां तु क्रमेणैव विधानवित । चतुराशिपलं कुम्भं ताम्रोद्भूतं दृढं शुभम ॥४५॥
हस्तमात्रं भवेद्गर्भशुद्ध स्याच्च तुरंगुलम । कण्ठं रसांगुलं तस्य पिहितं वसुर्वचसम ॥४६॥
अष्टौ कुम्भा बहिः स्थाप्याः पूरयेद्भोजनौषधैः । दिक्ष्वष्टसु क्रमेणैवदिक्पालानां च मन्त्रकैः ॥४७॥
तीर्थतोयेन संपूर्य तथा पञ्चनदीजलैः । पञ्चरत्नैर्युतं तच्च सफलैर्बीजपूरकैः ॥४८॥
कुंकुमं चन्दनञ्चैव करतूरी रोचनां तथा । कपूरं देवदारुञ्च पद्माख्यं सुरभिं तथा ॥४९॥
अष्टगन्धं तथान्यानि गन्धान्यस्मिन विनिःक्षिपेत । वृषश्रृंगोद्भवा सिंहनखोद्भूता तथैव च ॥५०॥
वराहवारणरदे लग्नाश्चाष्ट मृदस्तथा । देवालयद्वारमृदः पञ्चगव्यं समन्त्रितम ॥५१॥
पञ्चामृतं तथा पञ्चपल्लवावान्पञ्च वा त्वचा । कषायान पञ्च वा तस्मिन कलशे तु विनिःक्षिपेत ॥५२॥
त्रिमुग्धं च तथा सप्त धान्यान्पारदसंवृतान । तत्रावाह्य गणेशादील्लोँकपालांस्तथैव च ॥५३॥
वरुणं च गृहे स्थाप्य रायकं नागनायकम । आवाह्य वेदमन्त्रैश्च पूर्वोक्तेन विधानतः ॥५४॥
आगमोक्तैश्च मन्त्रैश्च मन्त्रैः पुराणसंम्भवैः । गायत्र्याऽष्टशतेनैव व्यात्दृत्याष्टशतेन वा ॥५५॥
त्रीणिपदेति शतधा तद्विप्रास इति वा तथा । अतो देवा इति तथा दिव्यमन्त्रैः शतत्रयम ॥५६॥
हुत्वाग्नौ विधिवद्विप्रावास्तुहोमं ततश्चरेत । अष्टाधिकं तथा होमं गृहहोमं तथैव च ॥५७॥
गणपत्यादिमं लोकपालानां होममाचरेत दिक्पालानां तथा क्षेत्रपालस्यापि विशेषतः ॥५८॥
दिब्यान्तरिक्षभौमानां होमं मन्त्रश्च कारयेत । सुलग्ने सुमुहुर्ते तु शिलास्थापनमाचरेत ॥५९॥
तत्पश्चिमे महादीपं महाकुम्भशिरोपरि । स्थापयेत्पूर्वभागे च शल्यमन्त्रानुदीरयेत ॥६०॥