अतः परं प्रवक्ष्यामि शल्यज्ञानविधिं पुनः । येन विज्ञानमात्रेण गृहेशः सुखमाप्नुयात ॥१॥
गृहारंभे च कंडूतिः स्वांगे यत्र प्रवर्तते । शल्यमासादयेत्तत्र प्रासादे भवने तथा ॥२॥
सशल्यं भयदं यस्माद्ल्पसिद्धि दायकम । कारयित्वा नमस्कारं यजमानं परीक्षयेत ॥३॥
यदंगं संस्पृशेत्कर्ता मस्तकं शल्यमुद्वरेत । अष्टतालादधस्तस्मिंस्तत्र शल्यं न संशयः ॥४॥
नासिकास्पर्शने कर्तुर्वास्तोः शल्यं तदकल्पकम । स्थितं विनिश्चितम ब्रूवात्तल्लक्षणमयोच्चते ॥५॥
शिरसः स्पर्शने वास्तोः सार्द्धहस्तादधःस्थिताम । मौक्तिकं तु करत्रेण मुखस्पर्शेऽतिदेहिनः ॥६॥
वाजिदंतं महाशल्यमुद्वरेत तास्तुतन्त्रवित । करस्पर्शे करे वास्तोः खटवांगे च करादायः ॥७॥
अथापरमपि ज्ञानं कथयामि समासतः । षड्गुणीकृ सूत्रेण शोधयेद्धरणीतले ॥८॥
सुधृते समये तस्मिन सूत्रं केनापि लंघितम । तदस्थि तत्र जानीयात्पुरुषस्य प्रमाणतः ॥९॥
आसक्तो दृश्यते यस्माद्दिशं शल्यं समादिशेत । तस्यामेव तदस्थीनि सप्तत्यंगुलमानतः ॥१०॥
सूत्रिते समये यत्र आसनोपरि संस्थितः । तदस्थि तत्र जानीयात्क्षितौ क्षणे न संशयः ॥११॥
नवकोष्ठिकृते भूमिभागे प्राच्यादितो लिखेत । अचकटतपशान्क्रमाद्वर्णानिमानि च ॥१२॥
प्रारम्भः स्याद्यति प्राच्यां नरशल्यं तदा भवेत । सार्द्धहस्तप्रमाणेन तच्च मानुष्यमृत्येव ॥१३॥
अग्नेर्दिशि च कः प्रश्ने खरशल्यं करद्वयोः । राजदण्डो भवेत्तस्मिन्भयञ्चैव प्रवर्तते ॥१४॥
याम्यां दिशि कृते प्रश्ने नरशल्यमधो भवेत । तद्गृह स्वामिनो मृत्युं करोत्याकटिसस्थितम ॥१५॥
नैऋत्यां दिशितः प्रश्ने सार्द्धहस्तादधस्तले । शुनोऽस्थि जायते तत्र डिम्भानां जनयेन्मृतिम ॥१६॥
प्रश्ने च पश्चिमायां तु शिवशल्यं प्रजायते । सार्द्धहस्ते प्रवासाय सदनं स्वामिनः पुनः ॥१७॥
वायव्यां दिशि तु प्रश्ने नाराणां वा चतुष्करे । शल्यं समुद्धरेद्धीमान करोति मित्रनाशनम ॥१८॥
उत्तरस्या दिशि प्रश्ने गदर्भास्थि न सशयः । सार्द्धहस्तचतुष्के च पशुनाशाय तद्भवेत ॥१९॥
ईशानदिशि यः प्रश्नो गोशल्यं सार्द्धहस्ततः तच्च गोधननाशाय जायते गृहमेधिनः ॥२०॥