व्यासाच्च षोडशो भाग: सर्वेषां मितय: स्मृता। पक्वेष्टकाकृतानां च दारुणां न कदाचन ॥१६१॥
नृपसेनापतिगृहमष्टाशीति शतैर्युता:। अंगलानि द्वारमानं प्रवदन्ति मनीषिण: ॥१६२॥
विप्रादीनां तथा सप्तविंशतिस्त्वंगुलानि च। द्वारस्य मान तत्प्रोक्तं ॥१६४॥
उच्छ्रायात्सप्तगुणिताद्दशेति पृथुता मता। भाग: पुनर्नवगुणाऽशीत्यंशस्तत एव च ॥१६५॥
दशांशहीनस्तस्याग्र: स्तम्भानां परिमाणकम। वेदास्त्रो रुचक: स्तम्भ: प्रोक्तो द्विजत्तमै: ॥१६७॥
विभज्य नवधा स्तंभं कुर्यादुद्वहनं घटम। पद्मं च सोत्तरोष्ठं च कुर्याद्भातोनभागत: ॥१६८॥
स्तंभसमं बाहुल्य भारतुलानामुपर्युपरि यासाम। भवति तुलाय तुलानामून पादेन पादेन ॥१६९॥
अप्रितिषिद्धालिन्दं समन्ततो वास्तु सर्वतोभद्रम। नृपविबुधसमूहानां कार्यद्वारैश्चतुर्भिरपि ॥१७०॥
द्विशालानि गृहाणि॥याम्यशाला न्यसेदादौ द्वितीया पश्चिमे तत:। तृतीया चोत्तरे स्थाप्या चतुर्थी पूर्वपश्चिमा ॥१७१॥
दक्षिणे दुर्मुखं कृत्वा पूर्वे च खरसज्ञकम। तद्वाताख्यं भवेद्गेहं वात रोगप्रदं स्मृतम ॥१७२॥
दक्षिणे दुर्मुखं गेहं पश्चिमे धान्यसंज्ञकम। सिद्धार्थाख्यं द्विशालं च सवसिद्धिकरं नृणाम ॥१७३॥
पश्चिमे धान्यनामानमुत्तरे जयसंज्ञकम। मयसूर्य द्विशालं तन्मृत्युदं नाशदं स्मृतम ॥१७४॥
पूर्वे तु खरनामानमुत्तरे धान्यसज्ञकम। दण्डाख्य तद्द्विशालं स्याद्दण्डं कुर्य्यात्पुन:पुन: ॥१७५॥
दुर्मुखं दक्षिणे कुर्यादुत्तरे जयसंज्ञकम। वाताख्यं तद्विशालमं तु बन्धुनाशं धनक्षयम ॥१७६॥
खरं च पूर्वदिग्भागे पश्चिमे धान्यसंज्ञकम। गृहं चुल्की द्विशालं तत्पशुवृद्धिधनप्रदम ॥१७७॥
विपक्षं दक्षिणे भागे पश्चिमे क्रूरसंज्ञकम। शोभनाख्यं द्विशालं तद्धनधान्यकरं परम ॥१७८॥
विजयं दक्षिणे भागे विजयं चैव पश्चिमे। द्विशाल कुम्भाख्य पुत्रादारादिसंयुतम ॥१७९॥
धनं च पूर्वदिग्भागे धान्यञ्चैव तु पश्चिमे। नंदाख्यं तद्द्विशाल च धनदं शोभनं स्मृतम ॥१८०॥