त्रिशाले पूर्वतो हीनं कार्यं वा सौम्यवर्जितम। ऊर्ध्वभागत्रयं त्यक्ता ह्यधोभागद्वयं तथा ॥१२१॥
मध्ये नाभिं विजानीयादिति प्राह पराशर:। पूर्वादिषु चतुर्दिक्षु वाममेकादयो ध्रुवा: ॥१२२॥
विस्तारस्याथ दैर्घ्यस्य तथैवैकैकसंयुतम। वामं वातादि कोणेषु ध्रुचं विस्तारदैर्घ्ययो: ॥१२३॥
एकाद्या: स्वेच्छया सर्वे कार्या वेदसमन्विता:। अनेनैव प्रकारेण क्रियमाणे च तास्तुनि ॥१२४॥
आयव्यादिसंशुद्धिं चिन्तयति न पूर्वजा: ॥१२५॥
ब्राह्मणानां चतु:शालं क्षत्रियाणां त्रिशालकम। द्विशालं स्यातु वैशानां शूद्राणामेकशालकम ॥१२६॥
सर्वेषामेव वर्णाना मेकशालं प्र्यशस्यते। एकशालं द्विशालं वा त्रिशालं तुर्यशालकम ॥१२७॥
यथालिंगं गृहं कुर्तात्तादृकशाला प्रशस्यते। शालादिभिर्न कर्त्तव्य न कुर्यात्तूंगनिम्नकम ॥१२८॥
समां शालां तत: कुर्यात्समं प्राकारमेव च। कुलीरवृश्चकौ मीन उत्तरद्वार संस्थिता: ॥१२९॥
मेषसिंहधनुर्द्वारा: पूर्वद्वारेषु संस्थिता:। वृषभ मकरं कन्या याम्यद्वारे समाश्रिता: ॥१३०॥
ब्राह्मण: क्षत्रिया: वैश्या: शूद्राश्चैव यथाक्रमम ॥१३१॥
यद्दिशाराशय: प्रोक्तस्तास्मन शाला प्रशस्यते। अथवा पूर्वभागे तु ब्राह्मणा उत्तरे नृपा: ॥१३२॥
वैश्यानां दक्षिणे भागे पश्चिमे शूद्रकास्तथा। आग्नेयादिक्रमेणैव अन्त्यजा वर्णसंकरा: ॥१३३॥
जातिभ्रष्टाश्च चौराश्च विदिक्या: शोभना: स्मृता:। ब्राह्मणा: क्षत्रिया: वैश्या: शूद्रा: प्रागदिषु स्मृत: ॥१३४॥
अष्टोत्तरशतं हस्तविस्तारान्नृपमन्दिरम। कार्यप्रधानमन्यानि तथाष्टाष्टौ च तानि तु ॥१३५॥
विस्तारं पादसंयुक्तं तेषां दैर्घ्य प्रकल्पयेत। एवं नृपाणां पञ्चैव गृहाणि शुभदानि च ॥१३६॥
षड्भिः षड्भिर्विहीनाश्च चतुःषष्टिमितस्य च । पञ्चैव तस्य विस्तारं दैर्घ्यं षड्भागसंयुतम ॥१३७॥
षष्टिश्चतुर्विहीनानि वेश्मानि स चवस्य च । पञ्चषष्ठांशसंयुक्तं दैर्घ्यं तस्यार्द्धमेव च ॥१३८॥
षड्भि:षड्भि:श्च वर्ज्यानि अशीत्याश्च तथैव च ॥१३९॥
त्रिशंद्युतं तद्दैर्घ्य च युवराजगृहाणि च। पञ्चाशदूर्ध्व तस्यैव भ्रातृणां प्रभवन्ति च ॥१४०॥