नवप्रवालोद्गमसस्यरम्यः
प्रफुल्ललोध्रः परिपक्वशालिः ।
विलीनपद्मः प्रपतत्तुषारो
हेमन्तकालः समुपागतोऽयम्समुपागतः प्रिये ॥१॥
मनोहरैः कुङ्कुमरागपिङ्गैस्
तुषारकुन्देन्दुनिभैश्च हारैः ।
विलासिनीनां स्तनशालिनीनां
नालंक्रियन्ते स्तनमण्डलानि ॥२॥
न बाहुयुग्मेषु विलासिनीनां
प्रयान्ति सङ्गं वलयाङ्गदानि ।
नितम्बबिम्बेषु नवं दुकूलं
तन्वंशुकं पीनपयोधरेषु ॥३॥
काञ्चीगुणैः काञ्चनरत्नचित्रैर्
नो भूषयन्ति प्रमदा नितम्बान् ।
न नूपुरैर्हंसरुतं भजद्भिः
पादाम्बुजान्यम्बुजकान्तिभाञ्जि ॥४॥
गात्राणि कालीयकचर्चितानि
सपत्रलेखानि मुखाम्बुजानि ।
शिरांसि कालागरुभूषितानिकालागरुधूपितानि
कुर्वन्ति नार्यः सुरतोत्सवाय ॥५॥
रतिश्रमक्षामविपाण्डुवक्त्राः
प्राप्ताश्च हर्षाभ्युदयं तरुण्यःप्राप्तेऽपि हर्षाभ्युदये तरुण्यः ।
हसन्ति नोच्चैर्दशनाग्रभिन्नान्
प्रपीड्यमानानधरानवेक्ष्य ॥६॥
पीनस्तनोरुस्थलभागशोभां
आसाद्य तत्पीडनजातखेदः ।
तृणाग्रलग्नैस्तुहिनैः पतद्भिर्
आक्रन्दतीवोषसि शीतकालः ॥७॥
प्रभूतशालिप्रसवैश्चितानि
मृगाङ्गनायूथविभूषितानि ।
मनोहरक्रौञ्चनिनादितानि
सीमान्तराण्युत्सुकयन्ति चेतः ॥८॥
प्रफुल्लनीलोत्पलशोभितानि
शरारिकादम्बविघट्टितानिसोन्मादकादम्बविभूषितानि ।
प्रसन्नतोयानि सशैवलानिसुशीतलानि
सरांसि चेतांसि हरन्ति पुंसाम् ॥९॥
पाकं व्रजन्ती हिमपातशीतैर्
आधूयमाना सततं मरुद्भिः ।
प्रिये प्रियङ्गुः प्रियविप्रयुक्ता
विपाण्डुतां याति विलासिनीव ॥१०॥
पुष्पासवामोदसुगन्धिवक्त्रो
निःश्वासवातैः सुरभीकृताङ्गः ।
परस्पराङ्गव्यतिषाङ्गशायी
शेते जनः कामशरानुविद्धः ॥११॥
दन्तच्छदैर्दन्तविघातचिह्नैः सव्रणदन्तचिह्नैः
स्तनैश्च पाण्यग्रकृताभिलेखैः ।
संसूच्यते निर्दयमङ्गनानां
रतोपभोगो नवयौवनानाम् ॥१२॥
काचिद् विभूषयति दर्पणयुक्तहस्ता
बालातपेषु वनिता वदनारविन्दम् ।
दन्तच्छदं प्रियतमेन निपीतसारं
दन्ताग्रभिन्नमपकृष्यदन्ताग्रभिन्नमवकृष्य निरीक्षते च ॥१३॥
अन्या प्रकामसुरतश्रमखिन्नदेहा
रात्रिप्रजागरविपाटलनेत्रयुग्मारात्रिप्रजागरविपाटलनेत्रपद्मा ।
शय्यान्तरेषुस्रस्तांसदेश लुलिताकुलकेशपाशा
निद्रां प्रयाति मृदुसूर्यकराभितप्ता ॥१४॥
निर्माल्यदाम परिभुक्तमनोज्ञगन्धम्
मूर्ध्नोऽपनीय घननीलशिरोरुहान्ताः ।
पीनोन्नतस्तनभरानतगात्रयष्ट्यः
कुर्वन्ति केशरचनामपरास्तरुण्यः ॥१५॥
अन्या प्रियेण परिभुक्तमवेक्ष्य गात्रम्
हर्षान्विता विरचिताधररागशोभाविरचिताधरचारुशोभा ।
कुर्पासकं परिदधाति नवं नताङ्गीनखक्षताङ्गी
व्यालम्बिनीललुलितालककुञ्चिताक्षी ॥१६॥
अन्याश्चिरं सुरतकेलिपरिश्रमेण
खेदं गताः प्रशिथिलीकृतगात्रयष्ट्यः ।
संपीड्यमानविपुलोरुपयोधरार्त्तासंहृष्यमाणपुलकोरुपयोधरान्ता
अभ्यञ्जनं विदधति प्रमदाः सुशोभम्सुशोभाः ॥१७॥
बहुगुणरमणीयो योषितां चित्तहारी
परिणतबहुशालिव्याकुलग्रामसीमः ।
विनिपतिततुषारः क्रौञ्चनादोपगीतः
प्रदिशतु हिमयुक्तः काल एषः प्रियान् वःहिमयुक्तस्त्वेष कालः सुखं वः ॥१८॥
॥ इति हेमन्तः ॥