ऋतुसंहारः - अथ शरदः

कालिदास अपनी अलंकार युक्त सुंदर सरल और मधुर भाषा के लिये विशेष रूप से जाने जाते हैं। ’ऋतुसंहार’मे ऋतु वर्णन अद्वितीय हैं और उनकी उपमाएं बेमिसाल है।


काशांशुका विकचपद्ममनोज्ञवक्त्रा

सोन्मादहंसरुतनूपुरनादरम्यारवनूपुरनादरम्या ।

आपक्वशालिललितानतगात्रयष्टिःरुचिरानतगात्रयष्टिः

प्राप्ता शरन्नववधूरिव रम्यरूपा ॥१॥

काशैर्मही शिशिरदीधितिना रजन्यो

हंसैर्जलानि सरितां कुमुदैः सरांसि ।

सप्तच्छदैः कुसुमभारनतैर्वनान्ताः

शुक्लीकृतान्युपवनानि च मालतीभिः ॥२॥

चञ्चन्मनोज्ञशफरीरसनाकलापाः

पर्यन्तसंस्थितसिताण्डजपंक्तिहाराः ।

नद्यो विशालपुलिनोरुनितम्बबिम्बाविशालपुलिनान्तनितम्बबिम्बा

मन्दं प्रयान्ति समदाः प्रमदा इवाद्य ॥३॥

व्योम क्वचिद् रजतशङ्खमृणालगौरैस्

त्यक्ताम्बुभिर्लघुतया शतशः प्रयातैः ।

उत्प्रेक्ष्यतेसंलक्ष्यते पवनवेगचलैः पयोदै

राजेव चामरशतैरभिवीज्यमानःचामरशतैरुपवीज्यमानः ॥४॥

भिन्नाञ्जनप्रचयकान्ति नभो मनोज्ञं

बन्धूकपुष्परजसाऽरुणिता च भूमिः ।

वप्राश्च पक्वकलमावृतभूमिभागाचारुकलमावृतभूमिभागाः

उत्कण्ठयन्तिप्रोत्कण्ठयन्ति न मनो भुवि कस्य यूनः ॥५॥

मन्दानिलाकुलितचारुतराग्रशाखः

पुष्पोद्गमप्रचयकोमलपल्लवाग्रः ।

मत्तद्विरेफपरिपीतमधुप्रसेकश्

चित्तं विदारयति कस्य न कोविदारः ॥६॥

तारागणप्रचुरभूषणमुद्वहन्ती

मेघोपरोधपरिमुक्तशशाङ्कवक्त्रामेघावरोधपरिमुक्तशशाङ्कवक्त्रा ।

ज्योत्स्नादुकूलममलं रजनी दधाना

वृद्धिं प्रयात्यनुदिनं प्रमदेव बाला ॥७॥

कारण्डवाहनविघट्टितवीचिमालाः

कादम्बसारसकुलाकुलतीरदेशाः ।

कुर्वन्ति हंसविरुतैः परितो जनस्य

प्रीतिं सरोरुहरजोरुणितास्तटिन्यः ॥८॥

नेत्रोत्सवो हृदयहारिमरीचिमालः

प्रह्लादकः शिशिरशीकरवारिवर्षी ।

पत्युर्वियोगविषदिग्धशरक्षतानां

चन्द्रो दहत्यनुदिनंदहत्यतितरां तनुमङ्गनानाम् ॥९॥

आकम्पयन् फलभरानतशालिजालान्

यानर्तयंस्तरुवरान् कुसुमावनम्रान् ।

उत्फुल्लपङ्कजवनां नलिनीं विधुन्वन्

यूनां मनश्चलयति प्रसभं नभस्वान् ॥१०॥

सोन्मादहंसमिथुनैरुपशोभितानि

स्वच्छप्रफुल्लकमलोत्पलभूषितानि ।

मन्दप्रभातपवनोद्गतवीचिमालान्

न्युत्कण्ठयन्ति हृदयं सहसा सरांसि ॥११॥

नष्टं धनुर्बलभिदो जलदोदरेषु

सौदामिनी स्फुरति नाद्य वियत्पताका ।

धुन्वन्ति पक्षपवनैर्न नभो बलाकाः

पश्यन्ति नोन्नतमुखा गगनं मयूराः ॥१२॥

नृत्यप्रयोगरहिताञ्शिखिनो विहाय

हंसानुपैति मदनो मधुरप्रगीतान् ।

मुक्त्वा कदम्बकुटजार्जुनसर्जनीपान्

सप्तच्छदानुपगता कुसुमोद्गमश्रीः ॥१३॥

शेफालिकाकुसुमगन्धमनोहराणि

शाखास्थिताण्डजकुलप्रतिनादितानिस्वस्थस्थिताण्डजकुलप्रतिनादितानि ।

पर्यन्तसंस्थितमृगीनयनोत्पलानि

प्रोत्कण्ठयन्त्युपवनानि मनांसि पुंसाम्यूनाम् ॥१४॥

कह्लारपद्मकुमुदानि मुहुर्विधुन्वंस्

तत्सङ्गमादधिकशीतलतामुपेतः ।

सोत्कां करोति वनितांउत्कण्ठयत्यतितरां पवनः प्रभाते

पत्रान्तलग्नतुलिनाम्बु विधूयमानःपत्रान्तलग्नतुहिनानि हरंस्तरूणां ॥१५॥

संपन्नशालिनिचयावृतभूतलानि

सुष्ठुस्थितप्रचुरगोकुलशोभितानिस्वस्थस्थितप्रचुरगोकुलशोभितानि ।

हंसैश्च सारसकुलैः प्रतिनादितानि

सीमान्तराणि जनयन्ति जनप्रमोदम् ॥१६॥

हंसैर्जिता सुललिता गतिरङ्गनानां

अम्भोरुहैर्विकसितैर्मुखचन्द्रकान्तिः ।

नीलोत्पलैर्मदचलानिनीलोत्पलैर्मदकलानि विलोचनानि

भ्रूविभ्रमश्च सरितां तनुभिस्तरङ्गैःरुचिरास्तनुभिस्तरङ्गैः ॥१७॥

श्यामा लताः कुसुमभारनतप्रवालाः

स्त्रीणां हरन्ति धृतभूषणबाहुकान्तिम् ।

दन्तावभासविशदस्मितचन्द्रकान्तिं

कङ्केलिपुष्परुचिरा नवमालती च ॥१८॥

केशान्नितान्तघननीलविकुङ्चिताग्रान्

आपूरयन्ति वनिता नवमालतीभिः ।

कर्णेषु च प्रचलकांचनकुण्डलेषुप्रवरकांचनकुण्डलेषु

नीलोत्पलानि विविधानिविकचानि निवेशयन्ति ॥१९॥

हारैः सचन्दनरसैः स्तनमण्दलानि

श्रोणीतटं सुविपुलं रशनाकलापैः ।

पादाम्बुजानि कलनूपुरशेखरैश्च

नार्यः प्रहृष्टमनसोऽद्य विभूषयन्ति ॥२०॥

स्फुटकुमुदचितानां राजहंसास्थितानां

मरकतमणिभासा वारिणा भूषितानाम्आपूरितानाम् ।

श्रियमतिशयरूपां व्योम तोयाशयानां

वहति विगतमेघं चन्द्रतारावकीर्णम् ॥२१॥

सरसि कुमुदसङ्गाद् गाद् वायवो वान्ति शीता

विगतजलदवृन्दा दिग्विभागा मनोज्ञाः

विगतकलुषमम्भः श्यानपङ्का धरित्री

विमलकिरणचन्द्रं व्योम ताराविचित्रम् ॥२२॥

करकमलमनोज्ञाः कान्तसंसक्तहस्ता

वदनविजितचन्द्राः काश्चिद् अन्यास्तरुण्यः ।

चितकुसुमसुगन्धि प्राविशन्तीव वेश्म

प्रबलमदनहेतोस्त्यक्तसंगीतरागाः ॥२३॥प्रक्षिप्तः

सुरतरसविलासात् सत्सखीभिः समेत्य

असमरसविनोदं सूचयन्ति प्रकामम् ।

अनुपममुखरागा रात्रिमध्ये विनोदान्

शरदि तरुणकान्ताः सूचयन्ति प्रमोदात् ॥२४॥प्रक्षिप्तः

दिवसकरमयूखैर्बोध्यमानं प्रभाते

वरयुवतिमुखाभं पङ्कजं जृम्भतेऽद्य ।

कुमुदमपि गतेऽस्तं लीयते चन्द्रबिम्बे

हसितमिव वधूनां प्रोषितेषु प्रियेषु ॥२५॥

असितनयनलक्ष्मीं लक्षयित्वोत्पलेषु

क्वणितकनककाञ्चीं मत्तहंसस्वनेषु ।

अधररुचिरशोभां बन्धुजीवे प्रियायाः

पथिकजन इदानीं रोदिति भ्रान्तचित्तःभ्रान्तचेताः ॥२६॥

स्त्रीणां निधाय वदनेषु शशाङ्कलक्ष्मीं

हास्ये विशुद्धवदने कुमुदाकरश्रीम् ।काम्यं च हंसवचनं मणिनूपुरेषु

बन्धूककान्तिमधरेषु मनोहरेषु

क्वापि प्रयाति सुभगा शरदागमश्रीः ॥२७॥

विकचकमलवक्त्रा फुल्लनीलोत्पलाक्षी

कुसुमितनवकाशा श्वेतवासोविकसितनवकाशश्वेतवासो वसाना ।

कुमुदरुचिरहासाकुमुदरुचिरकांतिः कामिनीवोन्मदेयं

उपदिशतुप्रतिदिशतु शरद् वश्चेतसः प्रीतिमग्र्याम् ॥२८॥

॥ इति शरदः ॥

N/A

References : N/A
Last Updated : March 31, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP