ऋतुसंहारः - अथ वर्षाः

कालिदास अपनी अलंकार युक्त सुंदर सरल और मधुर भाषा के लिये विशेष रूप से जाने जाते हैं। ’ऋतुसंहार’मे ऋतु वर्णन अद्वितीय हैं और उनकी उपमाएं बेमिसाल है।


सशीकराम्भोधरमत्तकुञ्जरस्

तडित्पताकोऽशनिशब्दमर्दलः ।

समागतो राजवदुद्धतद्युतिर्

घनागमः कामिजनप्रियः प्रिये ॥१॥

नितान्तनीलोत्पलपत्रकान्तिभिः

क्वचित् प्रभिन्नाञ्जनरागसंनिभैःराशिसंनिभैः ।

क्वचित् सगर्भप्रमदास्तनप्रभैः

समाचितं व्योम घनैः समन्ततः ॥२॥

तृषाकुलैश्चातकपक्षिणां कुलैः

प्रयाचितास्तोयभरावलम्बिनः ।

प्रयान्ति मन्दं बहुवारिवर्षिणोनववारिवर्षिणो

बलाहकाः श्रोत्रमनोहरस्वनाः ॥३॥

बलाहकाश्चाशनिशब्दभीषणाः

सुरेन्द्रचापं दधतस्तडिद्गुणम् ।

सुतीक्ष्णधारापतनोग्रसायकैस्

तुदन्ति चेतो नितरांप्रसभं प्रवासिनाम् ॥४॥

प्रभिन्नवैदूर्यनिभैस्तृणान्कुरैः

समाचिता प्रोत्थितकन्दलीदलैः ।

विभाति कण्ठे वररत्नभूषिताशुक्लेतररत्नभूषिता

वराङ्गनेव क्षितिरिन्द्रगोपकैः ॥५॥

सदा मनोज्ञं सुरतोत्सवोत्सुकं

विकीर्णविस्तीर्णकलापशोभितम् ।

सविभ्रमालिङ्गनचुम्बनाकुलम्ससम्भ्रमालिङ्गनचुम्बनाकुलम्

प्रवृद्धनृत्यंप्रवृत्तनृत्यं कुलमद्य बर्हिणाम् ॥६॥

निपातयन्त्यः परितस्तटद्रुमान्

प्रवृद्धवेगैः सलिलैरनिर्मलैः ।

स्त्रियः प्रदुष्टा इव जातविभ्रमाः

प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ॥७॥

तृणोद्गमैरुद्धतकोमलाङ्कुरैश् इणोत्करैरुद्गतकोमलाङ्कुरैश्

चितानि नीलैर्हरिणीमुखक्षतैः ।

वनानि रम्याणिवैन्ध्यानि हरंति मानसं

विभूषितान्युद्गतपल्लवैर्द्रुमैः ॥८॥

विलोलनेत्रोत्पलशोभिताननैर्

मृगैः समन्तादुपजातसाध्वसैः ।

समाचिता सैकतिनी वनस्थली

समुत्सुकत्वं प्रकरोति चेतसः ॥९॥

सुतीक्ष्णमुच्चैरसतां पयोमुचां

घनान्धकारीकृतशर्वरीष्वपि ।

तडित्प्रभादर्शितमार्गभूमयः

प्रयान्ति रागादभिसारिकाः स्त्रियः ॥१०॥

पयोधरैर्भीमगभीरनिःस्वनैर्

ध्वनद्भिरुद्वेजितचेतसोतडिद्भिरुद्वेजितचेतसो भृशम् ।

कृतापराधानपि योषितः प्रियान्

परिष्वजन्ते शयने निरन्तरम् ॥११॥

विलोचनेन्दीवरवारिबिन्दुभिर्

निषिक्तबिम्बाधरचारुपल्लवाः ।

निरस्तमाल्याभरणानुलेपनाः

स्थिता निराशाः प्रमदाः प्रवासिनाम् ॥१२॥

विपाण्डवं कीटरजस्तृणान्वितं

भुजङ्गवद् वक्रगतिप्रसर्पितम् ।

ससाध्वसैर्भेककुलैर्विलोकितंनिरीक्षितं

प्रयाति निम्नाभिमुखं नवोदकम् ॥१३॥

प्रफुल्लपत्त्रां नलिनीं समुत्सुकां

विहाय भृङ्गाः श्रुतिहारिनिःस्वनाः ।

पतन्ति मूढाः शिखिनां प्रनृत्यतां

कलापचक्रेषु नवोत्पलाशया ॥१४॥

वनद्विपानां नवतोयदस्वनैर्

मदान्वितानां ध्वनतां मुहुर्मुहुः ।

कपोलदेशा विमलोत्पलप्रभाः

सभृङ्गयूथैर्मदवारिभिश्चितः ॥१५॥

आतोयनम्राम्बुदचुम्बितोपलाः

समाचिताः प्रस्रवणैः समन्ततः ।

प्रवृत्तनृत्यैः शिखिभिः समाकुलाः

समुत्सुकत्वं जनयन्ति भूधराः ॥१६॥

कदम्बसर्जार्जुनकेतकीवनम्

विकम्पयंस्तत्कुसुमाधिवासितः ।

सशीकराम्भोधरसङ्गशीतलः

समीरणः कं न करोति सोत्सुकम् ॥१७॥

शिरोरुहैः श्रोणितटावलम्बिभिः

कृतावतंसैः कुसुमैः सुगन्धिभिः ।

स्तनैः सहारैर्वदनैः ससीधुभिः

स्त्रियो रतिं संजनयन्ति कामिनाम् ॥१८॥

वहन्ति वर्षन्ति नदन्ति भान्ति

ध्यायन्ति नृत्यन्ति समाश्रयन्ति ।

नद्यो घना मत्तगजा वनान्ताः

प्रियाविहीनाः शिखिनः प्लवङ्गमाः ॥१९॥प्रक्षिप्तः

तडिल्लताः शक्रधनुर्विभूषिताः

पयोधरास्तोयभरावलम्बिनः ।

स्त्रियः स्वकाञ्चीमणिकुन्डलोज्ज्वलास्त्रियश्चकाञ्चीमणिकुन्डलोज्ज्वला

हरन्ति चेतो युगपत् प्रवासिनाम् ॥२०॥

मालाः कदम्बनवकेसरकेतकीभिर्

आयोजितः शिरसि बिभ्रति योषितोऽद्य ।

कर्णान्तरेषु ककुभद्रुममञ्जरीभिः

श्रोत्रानुकूलरचितानवतंसकांश्चैच्छानुकूलरचितानवतंसकांश्च ॥२१॥

कालागरुप्रचुरचन्दनचर्चिताङ्ग्यः

पुष्पावतंससुरभीकृतकेशपाशाः ।

श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे

शय्यागृहं गुरुगृहात् प्रविशन्ति नार्यः ॥२२॥

कुवलयदलनीलैरुन्नतैस्तोयनम्रैर्

मृदुपवनविधूतैर्मन्दमन्दं चलद्भिः ।

अपहृतमिव चेतस्तोयदैः सेन्द्रचापैः

पथिकजनवधूनां तद्वियोगक्षतानाम्तद्वियोगाकुलानाम् ॥२३॥

मुदित इव कदम्बैर्जातपुष्पैः समन्तात्

पवनचलितशाखैः शाखिभिर्नृत्यतीव ।

हसितमिव विधत्ते सूचिभिः केतकीनां

नवसलिलनिषेकः शान्ततापोछिन्नतापो वनान्तः ॥२४॥

शिरसि बकुलमालां मालतीभिः समेतां

कुसुमितनवपुष्पैर्यूथिकाकुङ्मलैश्च ।

विकचनवकदम्बैः कर्णपूरं वधूनां

रचयति जलदौघः कान्तवत् काल एषः ॥२५॥

दधति कुचयुगाग्रैरुन्नतैर्हारयष्टिं इथुकुचाग्रैरुन्नतैर्हारयष्टिं

प्रतनुसितदुकूलान्यायतैः श्रोणिबिम्बैः ।

नवजलकणसेकादुन्नतांनवजलकणसेकादुद्गतां रोमराजिं

त्रिवलिवलितशोभांललितवलिविभङ्गैर् मध्यदेशैश्च नार्यः ॥२६॥

नवजलकणसङ्गाच्छीततामादधानः

कुसुमभरनतानां लासकः पादपानाम् ।

जनितसुरभिगन्धःजनितरुचिरगन्धः केतकीनां रजोभिर्

अपहरति नभस्वान् प्रोषितानां मनांसि ॥२७॥

जलभरनमितानामश्रयोऽस्माकमुच्चैर्

अयमिति जलसेकैस्तोयदास्तोयनम्राः ।

अतिशयपरुषाभिर्ग्रीष्मवह्नेः शिखाभिः

समुपजनिततापं ह्लादयन्तीव विन्ध्यम् ॥२८॥

बहुगुणरमणीयो योषितां चित्तहारी कामिनीचित्तहारी

तरुविटपलतानां बान्धवो निर्विकारः ।

जलदसमय एष प्राणिनां प्राणभूतो

दिशतु तव हितानि प्रायशो वाञ्छितानि ॥२९॥

॥ इति वर्षाः ॥

N/A

References : N/A
Last Updated : March 31, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP