एतस्मान्मां कुशलिनमभिज्ञानदानाद् विदित्वा मा कौलीनाच्चकितनयने मय्यविश्वासिनी भूः ।
स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते त्वभोगाद् इष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥५१॥
आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते शैलादाशु त्रिनयन्वृषोत्खातकूटान्निवृत्तः ।
साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥५२॥
कच्चित् सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि ।
निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥५३॥
एतत् कृत्वा प्रियमनुचितप्रार्थनावर्त्मनो मे सौहर्दाद् वा विधुर इति वा मय्यनुक्रोशबुद्ध्या ।
इष्टान् देशान् विचर प्रावृषा संभृतश्रीः मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥५४॥
उत्तरमेघाः समाप्तः