तादृक् पुमान् उदासीनकाले अपि आनन्दवासनाम् । उपेक्ष्य मुख्यम् आनन्दं भावयति एव तत्परः ॥१२१॥
परव्यसनिनी नारी व्यग्रा अपि गृहकर्मणि । तत् एव आस्वादयति अन्तः परसङ्गरसायनम् ॥१२२॥
एवं तत्त्वे परे शुद्धे धीरः विश्रान्तिम् आगतः । तत् एव आस्वादयति अन्तः बहिः व्यवहारन् अपि ॥१२३॥
धीरत्वम् अक्षप्राबल्ये अपि आनन्द आस्वाद वाञ्छया । तिरस्कृत्य अखिल अक्षाणि तत् चिन्तायां प्रवर्तनम् ॥१२४॥
भारवाही शिरोभारं मुक्त्वा आस्ते विश्रमं गतः । संसार व्यापृति त्यागे तादृक् बुद्धिः तु विश्रमः ॥१२५॥
विश्रान्तिम् परमां प्राप्तः तु औदासीन्ये यथा तथा । सुख दुःख दशायां च तत् आनन्द एक तत्परः ॥१२६॥
अग्नि प्रवेश हेतौ धीः शृङ्गारे यादृशी तथा । धीरस्य उदेति विषये अनुसन्धान विरोधिनी ॥१२७॥
अविरोधि सुखे बुद्धिः स्वानन्दे च गम आगमौ । कुर्वन्ति आस्ते क्रमात् एषा काक अक्षिवत् इतः ततः ॥१२८॥
एक एव दृष्टिः काकस्य वाम दक्षिण नेत्रयोः । याति आयाति एवम् आनन्द द्वये तत्त्वविदः मतिः ॥१२९॥
भुञ्जानः विषयानन्दं ब्रह्मानन्दं च तत्त्ववित् । द्वि भाषाभिज्ञवत् विद्यात् उभौ लौकिक वैदिकौ ॥१३०॥
दुःखप्राप्तौ न च उद्वेगः यथापूर्वं यतः द्विदृक् । गङ्गा मग्न अर्ध कायस्य पुंसः शीत ऊष्ण धीः यथा ॥१३१॥
इत्थं जागरणे तत्त्वविदः ब्रह्मसुखं सदा । भाति तत् वासना जन्ये स्वप्ने तत् भासते तथा ॥१३२॥
अविद्या वासना अपि अस्ति इति तत् वासना उत्थिते । स्वप्ने मूर्खवत् एव एष सुखं दुःखं च वीक्षते ॥१३३॥
ब्रह्मानन्द अभिधे ग्रन्थे ब्रह्मानन्द प्रकाशकम् । योगिप्रत्यक्षम् अध्याये प्रथमे अस्मिन् उदीरितम् ॥१३४॥
इति एकादशोऽध्यायः ॥११॥