ब्रह्म विज्ञानम् आनन्दम् इति वाजसनेयिनः । पठन्ति अतः स्वप्रकाशं सुखं ब्रह्म एव न इतरत् ॥६१॥
यत् अज्ञानं तत्र लीनौ तौ विज्ञान मनोमयौ । तयोः हि विलय अवस्था निद्रा अज्ञानं च स एव हि ॥६२॥
विलीन घृतवत् पश्चात् स्यात् विज्ञानमयः घनः । विलीन अवस्था आनन्दमय शब्देन कथ्यते ॥६३॥
सुप्ति पूर्वक्षणे बुद्धि वृत्तिः या सुखबिम्बिता । स एव तत् बिम्बसहिता लीना आनन्दमयः ततः ॥६४॥
अन्तर्मुखः यः आनन्दमयः ब्रह्मसुखं तदा । भुङ्क्ते चित् बिम्ब युक्ताभिः अज्ञान उत्पन्न वृत्तिभिः ॥६५॥
अज्ञान वृत्तयः सूक्ष्माः विस्पष्टाः बुद्धिवृत्तयः । इति वेदान्त सिद्धान्त पारगाः प्रवदन्ति हि ॥६६॥
माण्डुक्य तापनीय आदि श्रुतिषु एतत् अतिस्फुटम् । आनन्दमयः भोक्तृत्वं ब्रह्मानन्दे च भोग्यता ॥६७॥
एकीभूतः सुषुप्तस्थः प्रज्ञानघनतां गतः । आनन्दमयः आनन्दभुक् चेतोमयः वृत्तिभिः ॥६८॥
विज्ञानमय मुख्यैः यः रूपैः युक्तः पुराधुना । स लयेन एकतां प्राप्तः बहुतण्डुलपिष्टवत् ॥६९॥
प्रज्ञानानि पुरा बुद्धिवृत्तयः अथ घनः अभवत् । घनत्वं हिमबिन्दूनाम् उदक् देशे यथा तथा ॥७०॥
तत् घनत्वं साक्षिभावं दुःख अभावं प्रचक्षते । लौकिकाः तार्किकाः यावत् दुःख वृत्ति विलोपनात् ॥७१॥
अज्ञानबिम्बिता चित् स्यात् मुखम् आनन्दभोजने । भुक्तं ब्रह्मसुखं त्यक्त्वा बहिः याति अथ कर्मणा ॥७२॥
कर्म जन्मान्तरे अभूत् यत् तत् योगात् बुद्ध्यते पुनः । इति कैवल्य शाखायां कर्मजः बोधः ईरितः ॥७३॥
कंचित् कालं प्रबुद्धस्य ब्रह्मानन्दस्य वासना । अनुगच्छेत् यतः तूष्णीम् आस्ते निर्विषयः सुखी ॥७४॥
कर्मभिः प्रेरितः पश्चात् नाना दुःखानि भावयन् । शनैः विस्मरति ब्रह्मानन्दम् एषः अखिलः जनः ॥७५॥
प्राक् ऊर्ध्वम् अपि निद्रायाः पक्षपातः दिने दिने । ब्रह्मानन्दे नृणां तेन प्राज्ञः अस्मिन् विवदेत कः ॥७६॥
ननु तूष्णीं स्थितौ ब्रह्मानन्दः चेत् भाति लौकिकाः । अलसाः चरितार्थाः स्युः शास्त्रेण गुरुणा अत्र किम् ॥७७॥
बाधं ब्रह्म इति विद्युः चेत् कृतार्थाः तावत एव ते । गुरु शास्त्रे विना अत्यन्त गम्भीरं ब्रह्म वेत्ति कः ॥७८॥
जानामि अहं त्वत् उक्त्या अद्य कुतः मे न कृतार्थता । शृणु अत्र तु आदृशः वृत्तं प्राज्ञं मन्यस्य कस्यचित् ॥७९॥
चतुर्वेदविदे देयम् इति शृण्वन् अवोचत । वेदाः चत्वारः इति एवं वेद्मि मे दीयतां धनम् ॥८०॥