साङ्ख्यम् एव एषः जानाति न तु वेदान् अशेषतः । यदि तर्हि त्वम् अपि एवं न अशेषं ब्रह्म वेत्सि हि ॥८१॥
अखण्ड एक रस आनन्दे माया तत् कार्य वर्जिते । अशेषत्व सशेषत्व वार्तौ अवसरः एव कः ॥८२॥
शब्दान् एव पठसि आहो तेषाम् अर्थं च पश्यसि । शब्दपाठे अर्थबोधः ते सम्पाद्यत्वेन शिष्यते ॥८३॥
अर्थे व्याकरणात् बुद्धे साक्षात्कारः अवशिष्यते । स्यात् कृतार्थत्व धीः यावत् तावत् गुरुम् उपास्व भोः ॥८४॥
आस्ताम् एतत् यत्र यत्र सुखं स्यात् विषयैः विना । तत्र सर्वत्र विद्धि एतां ब्रह्मानन्दस्य वासनाम् ॥८५॥
विषयेषु अपि लब्धेषु तत् इच्छा उपरमे सति । अन्तर्मुख मनोवृत्तौ आनन्दः प्रतिबिम्बति ॥८६॥
ब्रह्मानन्दः वासना च प्रतिबिम्बः इति त्रयम् । अन्तरेण जगति अस्मिन् आनन्दः न अस्ति कश्चन ॥८७॥
तथा च विषयानन्दः वासनानन्दः इति अमू । आनन्दौ जनयन् आस्ते ब्रह्मानन्दः स्वयंप्रभः ॥८८॥
श्रुति युक्ति अनुभूतिभ्यः स्वप्रकाशचिदात्मके । ब्रह्मानन्दे सुप्तिकाले सिद्धे सति अन्यदा शृणु ॥८९॥
यः आनन्दमयः सुप्तौ सः विज्ञानमयात्मताम् । गत्वा स्वप्नं प्रबोधं वा प्राप्नोति स्थान भेदतः ॥९०॥
नेत्रे जागरणं कण्ठे स्वप्नः सुप्तिः हृत् अम्बुजे । आपाद मस्तकं देहं व्याप्य जागर्ति चेतनः ॥९१॥
देहतादात्म्यम् आपन्नः तप्तायः पिण्डवत् ततः । अहं मनुष्यः इति एवं निश्चित्य एव अवतिष्ठते ॥९२॥
उदासीनः सुखी दुःखी इति अवस्थात्रयम् एति असौ । सुखदुःखे कर्मकार्ये तु औदासीन्यं स्वभावतः ॥९३॥
बाह्य भोगान् मनोराज्यात् सुखदुःखे द्विधा मते । सुखदुःख अन्तरालेषु भवेत् तूष्णीम् अवस्थितिः ॥९४॥
न कापि चिन्ता मे अस्ति अद्य सुखम् आसः इति ब्रुवन् । औदासीन्ये निजानन्द भावं वक्ति अखिलः जनः ॥९५॥
अहम् अस्मि इति अहङ्कार सामान्य आच्छादितत्वतः । निजानन्दः न मुख्यः अयं किन्तु असौ तस्य वासना ॥९६॥
नीर पूरित भाण्डस्य बाह्ये शैत्यं न तत् जलम् । किन्तु नीर गुणः तेन नीर सत्ता अनुमीयते ॥९७॥
यावत् यावत् अहङ्कारः विस्मृतः अभ्यासयोगतः । तावत् तावत् सूक्ष्म दृष्टेः निजानन्दः अनुमीयते ॥९८॥
सर्वात्मना विस्मृतः सन् सूक्ष्मतां परमां व्रजेत् । अलीनत्वात् न निद्रा एषा ततः देहः अपि नो पतेत् ॥९९॥
न द्वैतं भासते न अपि निद्रा तत्र अस्ति यत् सुखम् । स ब्रह्मानन्दः इति आह भगवान् अर्जुनं प्रति ॥१००॥