सतो ऽनुवृत्तिः सर्वत्र व्योम्नो नेति पुरेरितम् । व्योम्नानुवृत्तिर् अधुना कथं न व्याहतं वचः ॥८१॥
चिद्रानुवृत्तिर् नेतीति पूर्वोक्तिर् अधुना त्व् इयम् । शब्दानुवृत्तिर् एवोक्ता वचसो व्याहतिः कुतः ॥८२॥
ननु सद् वस्तु पार्थक्याद् असत्त्वं चेद् तदा कथम् । अव्यक्त माया वैषम्याद् अमायामयतापि नो ॥८३॥
निस्तत्त्व रूपतैवात्र मायात्वस्य प्रयोजिका । सा शक्ति कार्ययोस् तुल्या व्यक्ताव्यक्तत्व भेदिनोः ॥८४॥
सद् असत्त्व विवेकस्य प्रस्तुतत्त्वात् स चिन्त्यताम् । असतो ऽवान्तरो भेद आस्तां तच् चिन्तया ऽत्र किम् ॥८५॥
सद् वस्तु ब्रह्म शिष्टो ऽन्शो वायुर् मिथ्या यथा वियत् । वासयित्वा चिरं वायोर् मिथ्यात्वं मरुतं त्यजेत् ॥८६॥
चिन्तयेद् वह्निम् अप्य् एवं मरुतो न्यून वर्तिनम् । ब्रह्माण्डावरणेष्व् एषा न्यूनाधिक विचारणा ॥८७॥
वायोर् दशांशतो न्यूनो वह्निर् वायौ प्रकल्पितः । पुराणोक्तं तारतम्यं दशांशैर् भूत पञ्चके ॥८८॥
वह्निर् उष्णः प्रकाशात्मा पूर्वानुगतिर् अत्र च । अस्ति वह्निः स निस्तत्त्वः शब्दवान् स्पर्शवान् अपि ॥८९॥
सन् मया व्योम वाय्वंशैर् युक्तस्याग्नेर् निजो गुणः । रूपं तत्र सतः सर्वम् अन्यद् बुद्ध्या विविच्यताम् ॥९०॥
सतो विवेचिते वह्नौ मिथ्यात्वे सति वासिते । आपो दशांशतो न्यूनाः कल्पिता इति चिन्तयेत् ॥९१॥
शान्त्य् आपो ऽमूः शून्य तत्त्वाः सशबद स्पर्श संयुताः । रूपवत्यो ऽन्यधर्मानुवृत्या स्वीयो रसो गुणः ॥९२॥
सतो विवेचितास्व् अप्सु तन् मिथ्यात्वे च वासिते । भूमिर् दशांशतो न्यूना कल्पिता ऽप्स्व् इति चिन्तयेत् ॥९३॥
अस्ति भूस् तत्त्व शून्यास्यां शब्द स्पर्शौ सरूपकौ । रसश् च परतो गन्धो नैजः सत्ता विविच्यताम् ॥९४॥
पृथक् कृतायां सत्तायां भूमिर् मिथ्या ऽवशिष्यते । भूमेर् दशांशतो न्यूनं ब्रह्माण्डं भूमिमध्यगम् ॥९५॥
ब्रह्माण्डमध्ये तिष्ठन्ति भुवनानि चतुर्दश । भुवनेषु वसन्त्य् एषु प्राणि देहा यथा यथम् ॥९६॥
ब्रह्माण्ड लोक देहेषु सद् वस्तुनि पृथक् कृते । असन्तो ऽण्डादयो भान्तु तद् भाने ऽपीह का क्षतिः ॥९७॥
भूत भौतिक मायानां समत्वे ऽत्यन्त वासिते । सद् वस्त्व् अद्वैतम् इत्य् एषा धीर् विपर्येति न क्वचित् ॥९८॥
सद् अद्वैतात् पृथग् भूते द्वैते भूम्य् आदि रूपिणि । तत् तद् अर्थ क्रिया लोके यथा दृष्टा तथैव सा ॥९९॥
सांख्य काणाद बौद्धाद्यैर् जगद्भेदो यथा यथा । उत्प्रेक्ष्यते ऽनेक युक्त्या भवत्व् एष तथा तथा ॥१००॥
अवज्ञातं सद् अद्वैतं निःशंकैर् अन्य वादिभिः । एवं का क्षतिर् तद् द्वैतम् अवजानताम् ॥१०१॥
द्वैतावज्ञा सुस्थिता चेद् अद्वैते धीः स्थिरा भवेत् । स्थैर्ये तस्याः पुमान् एष जीवन्मुक्त इतीर्यते ॥१०२॥
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वा ऽस्याम् अन्तकाले ऽपि ब्रह्म निर्वाणं ऋच्छति ॥१०३॥
सद् अद्वैते ऽनृत द्वैते यद् अन्योऽन्यैक्य वीक्षणम् । तस्यान्त कालस् तद् भेद बुद्धिर् एव न चेतरः ॥१०४॥
यद्वा ऽन्त कालः प्राणस्य वियोगो ऽस्तु प्रसिद्धितः । तस्मिन् काले ऽपि न भ्रान्तेर् गतायाः पुनरागमः ॥१०५॥
नीरोग उपविष्टो वा रुग्णो वा विलुठन् भुवि । मूर्च्छितो वा त्यजत्व् एष प्राणान् भ्रान्तिर् न सर्वथा ॥१०६॥
दिने दिने स्वप्न सुप्त्योर् अधीते विस्मृते ऽप्य् अयम् । परेद्युर् नानधीतः स्यात् तद्वद् विद्या न नश्यति ॥१०७॥
प्रमाणोत्पादिता विद्या प्रमाणं प्रबलं विना । न नश्यति न वेदान्तात् प्रबलं मानम् ईक्ष्यते ॥१०८॥
तस्माद् वेदान्त संसिद्धं सद् अद्वैतं न बाध्यते । अन्तकाले ऽप्य् अतो भूत विवेकान् निर्वृतिः स्थिता ॥१०९॥
इति द्वितीयोऽध्यायः ॥२॥