तथा सद्वस्तुनो भेदत्रयं प्राप्तं निवार्यते । ऐक्यावधारण द्वैत प्रतिषेधैस् त्रिभिः क्रमात् ॥२१॥
सतो नावयवाः शंक्यास् तद् अंशस्यानिरूपणात् । नामरूपे न तस्य अंशौ तयोर् अद्याप्य् अनुद्भवात् ॥२२॥
नामरूप् ओद्भवस्यैव सृष्टित्वात् सृष्टितः पुरा । न तयोर् उद्भवस् तस्मान् निरंशं सद् यथा वियत् ॥२३॥
सद् अन्तरं सजातीयं न वैलक्षण्य वर्जनात् । नामरूप् ओपाधि भेदं विना नैव सतो भिदा ॥२४॥
विजातीयम् असत् तत् तु न खल्व् अस्तीति गम्यते । नास्यातः प्रतियोगित्वं विजातीयाद् भिदा कुतः ॥२५॥
एकम् एवाद्वितीयं सत् सिद्धम् अत्र तु केचन । विह्वला असद् एवेदं पुराऽऽसीद् इत्य् अवर्णयन् ॥२६॥
मग्नस्याब्धौ यथाऽक्षाणि विह्वलानि तथाऽस्य धीः । अखण्डैकरसं श्रुत्वा निःप्रचारा बिभेत्य् अतः ॥२७॥
गौडाचार्या निर्विकल्पे समाधाव् अन्य योगिनाम् । साकार ब्रह्म निष्ठानाम् अत्यन्तं भयम् ऊचिरे ॥२८॥
अस्पर्श योगो नामैष दुर्दर्शः सर्व योगिभिः । योगिनो बिभ्यति ह्य् अस्माद् अभये भयदर्शिनः ॥२९॥
भगवत् पूज्य पादाश् च शुष्क तर्कपटून् अमून् । आहुर् माध्यमिकान् भ्रान्तान् अचिन्त्ये ऽस्मिन् सद् आत्मनि ॥३०॥
अनादृत्य श्रुतिं मौर्ख्याद् इमे बौद्धस् तमस्विनः । आपेदिरे निरामत्वम् अनुमानैक चक्षुशः ॥३१॥
शून्यम् आसीद् इति ब्रूषे सद् योगं वा सदात्मताम् । शून्यस्य न तु तद् युक्तम् उभयं व्याहतत्त्वतः ॥३२॥
न युक्तस् तमसा सूर्यो नापि चासौ तमोमयः । सच् छून्ययोर् विरोधित्वाच् छून्यम् आसीत् कथं वद ॥३३॥
वियदादेर् नामरूपे मायया सुविकल्पिते । शून्यस्य नामरूपे च तथा चेज् जीव्यतां चिरम् ॥३४॥
सतो ऽपि नामरूपे द्वे कल्पिते चेत् तदा वद । कुत्रेति निरधिष्ठानो न भ्रमः क्वचिद् ईक्ष्यते ॥३५॥
सद् आसीद् इति शब्दार्थ भेदे वैगुण्यम् आपतेत् । अभेदे पुनर् उक्तिः स्यान् मैवं लोके तथेक्षणात् ॥३६॥
कर्तव्यं कुरुते वाक्यं ब्रूते धार्यस्य धारणम् । इत्य् आदि वासना ऽविष्टं प्रत्यासीत् सद् इतीरणम् ॥३७॥
कालाभावे पुरेत्य् उक्तिः काल वासनया युतम् । शिष्यं प्रत्य् एव तेनात्र द्वितीयं न हि शंक्यते ॥३८॥
चोद्यं वा परिहारो वा क्रियतां द्वैत भाषया । अद्वैत भाषया चोद्यं नास्ति नापि तद् उत्तरम् ॥३९॥
तदा स्तिमित गम्भीरं न तेजो न तमस् ततम् । अनाख्यम् अनभिव्यक्तं सत् किंचिद् अवशिष्यते ॥४०॥