एक स्वभावं सत् तत्त्वम् आकाशो द्वि स्वभावकः । नावकाशः सति व्योम्नि स चैषो ऽपि द्वयं स्थितम् ॥६१॥
यद् वा प्रतिध्वनिर् व्योम्नो गुणो नासौ सतीक्ष्यते । व्योम्नि द्वौ सद् ध्वनी तेन सद् एकं द्वि गुणं वियत् ॥६२॥
या शक्तिः कल्पयेद् व्योमा सा सद् व्योम्नोर् अभिन्नताम् । आपाद्य धर्म धर्मित्वं व्यत्ययेनावकल्पयेत् ॥६३॥
सतो व्योमत्वम् आपन्नं व्योम्नः सत्तां तु लौकिकाः । तार्किकाश् चावगच्छन्ति मायाया उचितं हि तत् ॥६४॥
यद् यथा वर्तते तस्य तथात्वं भाति मानतः । अन्यथात्वं भ्रमेणेति न्यायो ऽयं सर्व लौकिकः ॥६५॥
एवं श्रुति विचारात् प्राग् यथा यद् वस्तु भासते । विचारेण विपर्येति ततस् तच् चिन्त्यतां वियत् ॥६६॥
भिन्ने वियत् सती शब्द भेदाद् बुद्धेश् च भेदतः । वाय्व् आदिष्व् अनुवृत्तं सन् न तु व्योमेति भेद धीः ॥६७॥
सद् वस्त्व् अधिक वृत्तित्वाद् धर्मी व्योम्नस् तु धर्मता । धिया सतः पृथक्कारे ब्रूहि व्योम किम् आत्मकम् ॥६८॥
अवकाशात्मकं तच् चेद् असत् तद् इति चिन्त्यताम् । भिन्नं सतो ऽसच् च नेति वक्षि चेद् व्याहतिस् तव ॥६९॥
भातीति चेद् भातु नाम भूषणं मायिकस्य तत् । यद् असद् भासमानं तन् मिथ्या स्वप्न गजादिवत् ॥७०॥
जाति व्यक्ति देहि देहौ गुण द्रव्ये यथा पृथक् । वियत् सतोस् तथैवास्तु पार्थक्यं को ऽत्रविस्मयः ॥७१॥
बुद्धो ऽपि भेदो नो चित्ते निरुद्धिं याति चेत् तदा । अनैकाग्र्यात् संशयाद् वा रूढ्यभावो ऽस्य ते वद ॥७२॥
अप्रमत्तो भव ध्यानाद् आद्ये ऽन्यस्मिन् विवेचनम् । कुरु प्रमाण युक्तिभ्यां ततो रूढतमो भवेत् ॥७३॥
ध्यानान् मानाद्य् उक्तितो ऽपि रूढे भेदे वियत् सतोः । न कदाचिद् वियत् सत्यं सद् वस्तु चिद्रवन् न च ॥७४॥
ज्ञस्य भाति सदा व्योम निस्तत्त्वोल्लेखा पूर्वकम् । सद् वस्त्व् अपि विभात्य् अस्य निश्चिद्रत्व पुरःसरम् ॥७५॥
वासनायां प्रवृद्धायां वियत् सत्यत्व वादिनम् । सन् मात्राबोध युक्तं च दृष्ट्वा विस्मयते बुधः ॥७६॥
एवम् आकाश मिथ्यात्वे सत् सत्यत्वे च वासिते । न्यायेनानेन वाय्वादेः सद् वस्तु प्रविविच्यताम् ॥७७॥
सद् वस्तुन्य् एक देशस्था माया तत्रैक देशगम् । वियत् तत्राप्य् एकदेशगतो वायुः प्रकल्पितः ॥७८॥
शोष स्पर्शौ गतिर् वेगो वायु धर्मा इमे मताः । त्रयः स्वभावाः सन् माया व्योम्नां ये ते ऽपि वायुगाः ॥७९॥
वायुर् अस्तीति सद् भावः सतो वायौ पृथक् कृते । निस्तत्त्व रूपता माया स्वभावो व्योमगो ध्वनिः ॥८०॥