संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
सिंहलक्षणम्

मानसारम् - सिंहलक्षणम्

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


देवानां वाहनं सिंहं लक्षणं वक्ष्यतेऽधुना
उष्णीषात्खुरवर्यन्तं तुङ्गं पञ्चशराङ्गुलम् ॥१॥

उष्णीषं द्व्यङ्गुलं तुङ्गं सप्ताङ्गुलं मुखायतम्
उत्तरोष्ठं दशाङ्गुल्यं तस्मात्पाद रसाङ्गुलम् ॥२॥

उत्तरान्तात्पुच्छमूलान्तमायामं पञ्चदशाङ्गुलम्
पृष्ठपादं शराङ्गुल्यं दीर्घ युक्त्या प्रयोजयेत् ॥३॥

मुखतारं कपोलान्तं नवमानं प्रशस्यते
कर्णमूलद्वयोरुक्तं मुखतारं विशालकम् ॥४॥

तत्तुल्यं व्यालविस्तारं मुखतारं शराङ्गुलम्
ललाटोच्चं शिवाङ्गुल्यं भ्रुवोच्चं तत्समं भवेत् ॥५॥

अक्षितारोच्चमेकांशं नासिकामूल शिवांशकम्
विस्तारं तत्समं स्यात्पुटमत्यर्धाङ्गुलं भवेत् ॥६॥

नेत्रसूत्रादधो हृत्वा द्व्यङ्गुलं तत्प्रकीर्तितम्
कुर्यायामं शरांशं स्यादुत्सेधं सार्धमात्रकम् ॥७॥

अधरोष्ठमर्धमात्रं स्यात्तदूर्ध्वे अंशमवसानकम्
अक्षिसूत्रादधोशरन्तमुत्तरोष्ठं प्रकल्पयेत् ॥८॥

कपोलं च द्विमात्रं स्यात्कर्णायामं शिवाङ्गुलम्
कर्णतारमर्धमात्रं स्यात् कर्णमूले तु तत्समम् ॥९॥

दन्तदीर्घं शिवांशं स्यात्तदर्धं मूलविस्तृतम्
अर्धचन्द्रा र्धवद् दन्तं संख्यया षट् कारयेत् ॥१०॥

पुरमिति प्रोक्तमसृक् वातायनं भवेत्
जिह्वायामं त्रिमात्रं स्यात्तद्विशालं शिवांशकं ॥११॥

विशालार्धं घनं प्रोक्तं नासिकाघनं तत्समम्
नेत्रयोर्मध्यविस्तारं शिवाङ्गुलं तत्कथ्यते ॥१२॥

नासिमूले युगाग्रे च कर्णमूले कपोलके
पत्रवल्ल्यादिसंयुक्तं सिंहवक्त्रमिति स्मृतम् ॥१३॥

वक्त्रस्य प्रदेशे तु भ्रमरं कुर्यात्सुधीर्बुधः
लम्बकेशावृतं चैव स्तनयोरर्धांशदेशके ॥१४॥

नवाङ्गुलं तु वक्षस्य विस्तारं परिकीर्तितम्
त्रिमात्रं पादविस्तारं तलायामं शराङ्गुलम् ॥१५॥

तारं त्रिमात्रं स्यादायाममर्धाङ्गुलायतम्
व्याघ्रपादवदाकारं कुर्यात्पादचतुष्टयम् ॥१६॥

पृष्ठतारं दशांशं स्यात्पृष्ठोत्सेधं पडङ्गुलम्
शराङ्गुलं चोरुविस्तारं चोरुदीर्घं दशाङ्गुलम् ॥१७॥

पञ्चांशं कुक्षिविस्तारं तत्समं घनमेव च
सिंहोत्सेधसमं पुच्छं दीर्घ तारं शिवाङ्गुलम् ॥१८॥

मूलाग्रार्धमात्रं स्यान्मूलाग्रक्षयं क्रमात्
पुच्छाग्रे वलसंयुक्तमुक्षायामं त्रिमात्रकम् ॥१९॥

मूलतारं शिवाङ्गुल्यमग्रतारं त्रिमात्रकम्
लिङ्गायामं त्रिमात्रं स्यादर्धांशं लिङ्गविस्तृतम् ॥२०॥

श्वेतवर्णनिभं सिंहं रक्तवर्णं च केसरम्
अन्तस्थले तथैवास्यं कर्णन्तं तिथिरक्तयुक् ॥२१॥

बालचन्द्र वदाकारं नख दन्ताकृति तथा ॥२२॥

एवं प्रोक्तं सिंहरूपं जनानाम्
देवानां कल्पयेद् वाहनं स्यात्
मानं सर्वं चोक्तवद् गृह्यमेवम्
शयनं वा स्थानकं चासनं वा ॥२३॥

इति मानसारे वास्तुशास्त्रे सिंहलक्षणविधानं नाम त्रिषष्टितमोऽध्यायः

N/A

References : N/A
Last Updated : October 07, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP