संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
नवतलविधानम्

मानसारम् - नवतलविधानम्

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


नवभूमिविधानस्य लक्षणं वक्ष्यतेऽधुना
विस्तारोत्सेधमानादिसर्वं प्रागुक्तवन्नयेत् ॥१॥

सौरं च रौरवं चैव चण्डितं भूषणं तथा
विवृतं सुप्रतीकान्तं विश्वकान्तं यथाक्रमम् ॥२॥

विस्तारो विंशदंशेन कूटमेकैकभागिकम्
मध्यशाला षडंशं स्यात्तत्संअं चान्तरालकम् ॥३॥

तन्मध्ये च विभागेन क्षुद्र शालैर्विभूषितम्
तत्पार्श्वे हारसंयुक्तं द्विद्विभागेन कारयेत् ॥४॥

सौरकान्तमिति प्रोक्तं शेषं प्रागुक्तवन्नयेत्
महाशालैश्चतुर्भागं मध्ये भद्रं तु रौरवम् ॥५॥

तदेव भद्र शालैश्च वेदभागविशालकम्
द्विभागं भद्र संयुक्तं चण्डितं परिकीर्तितम् ॥६॥

तदेव मध्यशाले तु द्विंशेन भद्र कोष्ठकम्
भूषणं च मेति प्रोक्तं सर्वालङ्कारसंयुतम् ॥७॥

एतच्चतुर्विधं प्रोक्तं नवभूम्यल्पहर्म्यके
अथवा चाल्पहर्म्ये तु मध्यकोष्ठं गुणांशकम् ॥८॥

अथवा चतुरंशेन मध्यभद्र विशालकम्
अथवा पञ्चभागं स्यात्पूर्ववन्नाममीरितम् ॥९॥

चतुर्विंशति विस्तारं कूटानां पूर्ववद्भवेत्
महाशालानुशाला च साष्टांशकगुणांशकम् ॥१०॥

महाशालायते मध्ये वेदभागैर्भद्र कम्
सर्वालङ्कारसंयुक्तं विवृतं चेति कथ्यते ॥११॥

पञ्चविंशतिभागेन मध्यभद्रं शरांशकम्
तत्पार्श्वे कर्णकूटौ च नराणां चैकभागिकम् ॥१२॥

अनुशाला त्रिभागैकं मध्यभद्रं तु संयुतम्
सुप्रतीकान्तनामाख्यं शेषं प्रागुक्तवन्नयेत् ॥१३॥

षड्विंशतिविभागेन मध्यमं तु युगांशकम्
मध्यमं हर्म्यके कुर्यात्सर्वालङ्कारसंयुतम् ॥१४॥

श्रेष्ठं नवतलं हर्म्ये सप्तविंशतिभागिकम्
शालापार्श्वे द्विभागैकं हारकूटसपञ्जरम् ॥१५॥

कूटशालैश्च सप्तांशं मध्यभद्रं शरांशकम्
भद्र कोष्ठं त्रियंशं स्याच्छेषं पूर्ववदाचरेत् ॥१६॥

श्रेष्ठं नवतलं प्रोक्तं विश्वकान्तमुदीरितम्
तदूर्ध्वे द्विंशमानेन वक्ष्ये चोर्ध्वे जलस्थलम् ॥१७॥

जन्मादिस्तूपिपर्यन्तं गण्यमानमिहोच्यते
हर्म्यमष्टतले तुङ्गे साष्टभागाधिकं तथा ॥१८॥

सार्धद्व्यंशमधिष्ठानं तद्द्वयं पादतुङ्गकम्
तदर्धं प्रस्तरोत्सेधं शेषमष्टतलोक्तवत् ॥१९॥

एवं नवतलोत्सेधं सर्वालङ्कारसंयुतम्
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥२०॥

कर्णाहर्म्यादिसंयुक्तं द्वारं तत्प्रस्तरान्वितम्
भद्र कूटादिशालानां नासिकापञ्जरान्वितम् ॥२१॥

युक्त्या हारादि यथा सर्वे चानुकूलानुनासिका
तोरणाद्यङ्गनीडैश्च जालकादिविभूषितम् ॥२२॥

शेषं तु पूर्ववत्कुर्याद्दिक्षु देवान्न्यसेत्क्रमात्
तले तले विमाने तु चोक्तवत्कारयेद्बुधः ॥२३॥

एवं नवतलं प्रोक्तं शेषं युक्त्या प्रयोजयेत् ॥२४॥

इति मानसारे वास्तुशास्त्रे नवतलेविधानं नाम सप्तविंशोऽध्यायः

N/A

References : N/A
Last Updated : October 03, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP