संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
यक्षविद्याधरादिलक्षणम्

मानसारम् - यक्षविद्याधरादिलक्षणम्

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


यक्षविद्याधरादीनां लक्षणं वक्ष्यतेऽधुना
द्विभुजम् च द्विनेत्रं च करण्डमकुटान्वितम् ॥१॥

चरणाम्बरसंयुक्तं राक्षसाकारवद् भवेत्
श्यामवर्णं च पीतं च यक्षाणां वर्णमेव च ॥२॥

श्यामरक्तं च पीतं च वर्णं विद्याधरं तथा
यक्षविद्याधरादीनां नवतालेन कारयेत् ॥३॥

देवस्यानुचरैः यक्षा विद्याधराश्च पारगाः
गानयोग्या गन्धर्वा देवाङ्गुल्यामनार्थकम् ॥४॥

निग्रहा राक्षसा प्रोक्ताः चैव यक्षे तु भेदकम्
यक्षैश्च चामराद्यैश्च सुराणां चिह्नधारिणः ॥५॥

स्थानकं चासनं चैव यक्षविद्याधरादिभिः
दक्षिणा स्वस्तिकं पादं वामपादं तु कुञ्चितम् ॥६॥

चामराद्यैर्वृतं हस्तं तं चोर्वी श्रितमेव वा
एवं तु यक्षरूपं स्याद् विद्याधरासनान्वितम् ॥७॥

पुरतः पृष्ठपादौ च लाङ्गलाकारमेव च
जान्वाश्रितौ हस्तौ गोपुरोद्धृतहस्तकौ ॥८॥

एवं विद्याधराः प्रोक्ताः सर्वाभरणभूषिताः
नृत्तं वा वैष्णवं वापि वैशाख स्थानकं तु वा ॥९॥

गीतवीणाविधानैश्च गन्धर्वमिति कथ्यते
चरण पशुसमानं चोर्ध्वकायं नराभम् ॥१०॥

वदनं गरूडभावं बाहुकौ पक्षयुक्तौ
मकुट कमलयुक्तं पुष्पसच्छाय वर्णम् ॥११॥

परित करुणावीणं किन्नरस्य स्वरूपम् ॥१२॥

इति मानसारे वास्तुशास्त्रे यक्षविद्याधरविधानं नाम अष्टपञ्चाशदध्यायः

N/A

References : N/A
Last Updated : October 07, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP