संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
त्रिमूर्तिलक्षणम्

मानसारम् - त्रिमूर्तिलक्षणम्

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


ब्रह्माविष्णुमहेशानां लक्षणं वक्ष्यतेऽधुना
हिरण्यरजतेनैव ताम्रेणैव शिले वापि ॥१॥

दारुजे सुधे वापि शर्कराभासमृत्तिका
एतैस्तु नवधाद्र व्यैः चोत्तमादि त्रयं त्रयम् ॥२॥

चलं चाप्यचलं चापि नवद्र व्यैस्तु निर्मितः
लोहजैर्मृत् सुधा चैव शर्कराभासमृत्तिका ॥३॥

चलद्र व्यमिति प्रोक्तमन्येषां च चलम् विदुः
चित्राङ्गमर्धचित्राङ्गमाभासाङ्गं त्रिधोच्यते ॥४॥

सर्वाङ्गं द्र व्यमानं यच्चित्रमेव प्रकथ्यते
अर्धाङ्गद्र व्यमानं च तदर्धचित्रमिति स्मृतम् ॥५॥

अर्धार्धदर्शनं मानमाभासमिति कथ्यते
आभासं पञ्चवर्णेन पट्टवित्त्येव कल्पयेत् ॥६॥

चित्रं यच्चोत्तमं प्रोक्तमर्धचित्रं तु मध्यमम्
आभासमधमं प्रोक्तं कुर्यादेवं तु सर्वदा ॥७॥

उत्तमं सर्वसिद्धिः स्यान्मध्यमं भोगमोक्षकम्
अधमं भोगसिद्धिः स्यादीश्वरेणैव कीर्तितम् ॥८॥

स्थावरं जङ्गमं चैव विविधं बेरमुच्यते
जङ्गमं चोत्सवं भवेत्सर्व स्थावरमिष्यते ॥९॥

उत्तमं लोहजं बिम्बं पीठाभासं तु चोत्समम्
स्थानकम् चासना शयनं वैशाखं वैष्णवं तथा ॥१०॥

मृत्तादिसर्वबेराणां द्र व्यमुक्तं सनातनम्
तत्तद्द्रव्यैस्तु बिम्बानां भिन्नपीठं प्रकल्पयेत् ॥११॥

लम्बासने च शयने शिलापीठं तु भिन्नकम्
एककाले कृतं सर्वं सुधामृत्कटशर्करैः ॥१२॥

बेराणां द्र व्यमित्युक्तं मूर्त्तिध्यानं प्रवक्ष्यते
चतुर्भुजं चतुर्वक्त्रं द्विपादं चाष्टलोचनम् ॥१३॥

अष्टकर्णसमायुक्तं तनुश्चैकाकृतिस्तथा
उत्तमं दशतालेन मानयेत्त्वङ्गमानकम् ॥१४॥

स्थानकं चासनं वापि चीरबेरधरं तथा
वरदाभयहस्तं च जटामकुटमण्डितम् ॥१५॥

कुण्डिका चाक्षमाला च वामे वामे करे क्रमात्
स्रुक्स्रुवधारणं वापि प्राग्वरदाभयान्वितम् ॥१६॥

मकरलाञ्छितं पुष्पं कुण्डलं वाथ कर्णयोः
यज्ञसूत्रोत्तरीयादि मात्रादोदरबन्धनम् ॥१७॥

हारोपग्रीवसंयुक्तं बाहुमालाविभूषितम्
केयूरकटकाद्यैश्च कुर्यत्तु मणिबन्धनम् ॥१८॥

कटकत्रयसंयुक्तं नलकाकटकान्वितम्
कटिसूत्रादिपट्टं स्यान्नीव्यं चलनसंयुतम् ॥१९॥

रत्नाङ्गुलीयकौ हस्तौ पादं जालसरत्नकम्
ललाटे वृत्ततिलकं स्याच्चन्दनागरुमेव च ॥२०॥

सर्वाङ्गं हेमवर्णं स्यान्नलकान्तं तु चीरयुक्
पार्श्वयोः शक्तिकोपेतं दक्षिणे तु सरस्वती ॥२१॥

वामपार्श्वे तु सावित्री सर्वाभरणभूषितम्
एवं पितामहं प्रोक्तं कुर्याच्छास्त्रविद्बुधः ॥२२॥

चतुर्भुजं द्विनेत्रं च किरीटमकुटान्वितम्
पीताम्बरधरं युक्तं श्यामवर्णाङ्गशोभितम् ॥२३॥

सर्वे वक्षःस्थले कुर्यात्तदूर्ध्वे श्रीवत्सलाञ्छनम्
उत्तमं दशतालेन चाङ्गमानं च मानयेत् ॥२४॥

कटकं वा गदाधारं चोर्व्यामाश्रितमेव वा
अथवा वरदहस्तं स्यात्पुरतो वामहस्तके ॥२५॥

दक्षिणे त्वभयं पूर्वे सव्ये चापर चक्रयुक्
अपरे वामहस्ते तु पाञ्चजन्यावधारणम् ॥२६॥

तत्समं कर्णपत्रं स्यात्कुर्यान्मकरकुण्डलम्
प्रसन्नवदनं तुङ्गं नासि दीर्घाक्षिशोभितम् ॥२७॥

हारोपग्रीवसंयुक्तं यज्ञसूत्रोत्तरीयकम्
रत्नोदरबन्धं स्याद् बाहुमालाविभूषितम् ॥२८॥

कटकं कटिसूत्रं च केयूरं रत्नपूरितम्
रत्नाङ्गुलीयकैर्युक्तं पादजालविभूषितम् ॥२९॥

नलकान्तं चलान्तं स्यात्पीताम्बरविलम्बनम्
शिरश्चक्रं शिरःपृष्ठे युक्तं सर्वाङ्गभूषणम् ॥३०॥

द्वयोर्जङ्घावसानं स्याद् वनमालामनोहरम्
एवं तु विष्णुमूर्तिः स्याच्छक्तियुक्तं तु पार्श्वयोः ॥३१॥

त्रिभूमिं दक्षिणे वामे स्थावरे जङ्गमेऽपि वा
कुर्यादासनं वापि स्थानकं चापिमे व च ॥३२॥

चतुर्भुजं त्रिणेत्रं च जटामकुटमण्डितम्
व्याघ्रचर्माम्बरं जानु चोर्ध्वे च समलङ्कृतम् ॥३३॥

नीव्याञ्चलं च संयुक्तं रक्तवर्णाङ्गशोभितम्
हारोपग्रीववक्षस्तु सालमालावलम्बनम् ॥३४॥

करोटिरत्नबन्धं स्याद् रुद्र बन्धमथापि वा
पत्रोदरं च बन्धं वा रत्नोदरनिबन्धनम् ॥३५॥

कटकं कटिसूत्रं स्यात्केयूरं पूरिमान्वितम्
बाहुभूलाभिदामैश्च सर्वाभरणभूषितम् ॥३६॥

वामे तु लम्बपत्रं स्यादवामे करकुण्डलम्
प्राचभयहस्तं सर्वे वरदं वामहस्तके ॥३७॥

अपरे वामसव्ये तु हरिणद्र ङ्कधारणम्
मकुटं वामपार्श्वे तु चन्दरेखासमन्वितम् ॥३८॥

दक्षिणे चार्कपुष्पैश्च नागं गङ्गा जटान्तरे
दूर्वाभिः सुवर्णसिन्दुरं पुष्करं स्यान्मकुटान्तरे ॥३९॥

मध्ये चान्वितवक्त्रं स्याल्ललाटे चैकनेत्रयुक्
ग्रीवस्य वामपार्श्वे तु कालकूटसमन्वितम् ॥४०॥

यज्ञसूत्रोत्तरीयं च सर्वरत्नाङ्गुलीयके
स्थानकं चासनं वापि पाद नूपुरशोभितम् ॥४१॥

एवं तु रुद्र मूर्तिः स्याद् वामभागे तु पार्वती
उत्तमं दशतालेन मानयेत्त्वङ्गमानकम् ॥४२॥

देवीनामपि सर्वेषां मध्यमं दशतालकम्
पद्मपीठं महापीठं त्रिमूर्तीनां च योजयेत् ॥४३॥

प्रभाव तोरणं वापि कल्पवृक्षं च संयुतम्
एवं तु रुद्र विष्णूनां कुर्यात्तत्तु विधिवत्ततः ॥४४॥

सर्वालङ्कारसंयुक्तं देवं ध्यात्वा त्रिमूर्तिनम्
अन्यान्यनुक्तं सर्वेषां शास्त्रमार्गेण योजयेत् ॥४५॥

उत्तमं दशतालवशात्तु यत्
ब्रह्माविष्णुशिवसकलाङ्गकैः
स्थावरे च जङ्गमके
शिल्पिभिः कुरु ताक्त मुनिवरैः ॥४६॥

इति मानसारे वास्तुशास्त्रे त्रिमूर्तिलक्षणविधानं नाम एकपञ्चाशदध्यायः

N/A

References : N/A
Last Updated : October 07, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP