संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ८८

भूमिखंडः - अध्यायः ८८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


कुंजल उवाच-
व्रतं स्तोत्रं महाज्ञानं ध्यानं चैव सुपुत्रक
मयाख्यातं तवाग्रे वै विष्णोः पापप्रणाशनम् ॥१॥
एवं चतुष्टयं सा हि यदा पुण्यं समाचरेत्
प्रयाति वैष्णवं लोकं देवानामपि दुर्लभम् ॥२॥
इतो गत्वा व्रतं वत्स दिव्यां देवीं प्रबोधय
अशून्यशयनं नाम व्रतराजं वदस्व ताम् ॥३॥
समुद्धर महापापाद्राजकन्यां यशस्विनीम्
त्वया पृष्टं मया ख्यातं पुण्यदं पापनाशनम् ॥४॥
गच्छ गच्छ महाभाग इत्युक्त्वा विरराम सः
श्रीविष्णुरुवाच-
उज्ज्वलोप्येवमुक्तस्तु स पित्रा कुंजलेन हि ॥५॥
प्रणम्य पादौ धर्मात्मा मातापित्रोर्महामतिः
जगाम त्वरितो राजन्प्लक्षद्वीपं स उज्ज्वलः ॥६॥
तं गिरिं सर्वतोभद्रं नानाधातुसमाकुलम्
नानारत्नमयैस्तुंगैः शिखरैरुपशोभितम् ॥७॥
नानाप्रवाहसंपूर्णैरुदकैरुज्ज्वलैर्नृप
नद्यः संति स्वच्छनीरास्तस्मिन्गिरिवरोत्तमे ॥८॥
किन्नरास्तत्र गायंति गंधर्वाः सुस्वरैर्नृप
अप्सरोभिः समाकीर्णं देववृंदैरुपावृतम् ॥९॥
सिद्धचारणसंघुष्टं मुनिवृंदैरलंकृतम्
नानापक्षिनिनादैश्च सर्वत्र परिनादितम् ॥१०॥
एवं गिरिं समासाद्य उज्ज्वलो लघुविक्रमः
सुस्वरेणापि सा कन्या गिरौ तस्मिन्प्ररोदिति ॥११॥
रोरूयमाणां स प्राज्ञो वचनं चेदमब्रवीत्
का त्वं भवसि कल्याणि कस्माद्रोदिषि सांप्रतम् ॥१२॥
कमाश्रिता महाभागे केन ते विप्रियं कृतम्
समाचक्ष्व ममाद्यैव सर्वदुःखस्य कारणम् ॥१३॥
दिव्यादेव्युवाच-
विपाको हि महाभाग कर्मणां मम सांप्रतम्
इह तिष्ठामि दुःखेन वैधव्येन समन्विता ॥१४॥
भवान्को हि महाभाग कृपया मम पीडितः
पक्षिरूपधरो वत्स सोत्सवं परिभाषते ॥१५॥
एवमाकर्ण्य तत्सर्वं भाषितं राजकन्यया
अहं पक्षी महाभागे कृपया तव पीडितः ॥१६॥
पक्षिरूपधरो भद्रे नाहं सिद्धो न ज्ञानवान्
रुदमानां महालापैर्भवतीं दृष्टवानिह ॥१७॥
ततः पृच्छाम्यहं देवि वद मे कारणं त्विह
पितुर्गेहे यथावृत्तमात्मवृत्तांतमेव हि ॥१८॥
तया निवेदितं सर्वं यथासंख्येन दुःखदम्
समासेन समाकर्ण्य उज्ज्वलस्तु महमनाः ॥१९॥
तामुवाच महापक्षी दिव्यादेवीं सुदुःखिताम्
यथा विवाहकाले ते भर्तारो मरणं गताः ॥२०॥
स्वयंवरनिमित्तं ते क्षयं याताश्च क्षत्रियाः
एतत्ते चेष्टितं सर्वं मया पितरि भाषितम् ॥२१॥
अन्यजन्मकृतंकर्मतव पापं सुलोचने
मम पित्रा ममाग्रे तु कृपया परिभाषितम् ॥२२॥
तेन दोषेण संपुष्टा लिप्ता जाता वरानने
एतावत्कारणं सर्वं तातेन परिभाषितम् ॥२३॥
पूर्वकर्मविपाकं तु भुंक्ष्व त्वं च समाश्वस
एवं सा भाषितं तस्य श्रुत्वा कन्योज्ज्वलस्य तत् ॥२४॥
प्रत्युवाच महात्मानं ब्रुवंतं पक्षिणं पुनः
प्रणता दीनया वाचा कुरु पक्षिन्कृपां मम ॥२५॥
कथयस्व प्रसादेन तस्य पापस्य निष्कृतिम्
प्रायश्चित्तं सुपुण्यं च मम पातकशोधनम् ॥२६॥
येन व्रजाम्यहं पुण्यं विशुद्धाधौतकल्मषा
प्रायश्चित्तं महाभाग वद मे त्वं प्रसादतः ॥२७॥
उज्ज्वल उवाच-
तवार्थं तु महाभागे पितरं पृष्टवानहम्
समाख्यातमतः पित्रा प्रायश्चित्तमनुत्तमम् ॥२८॥
तत्त्वं कुरु महाभागे सर्वपातकशोधनम्
ध्यायस्व हि हृषीकेशं शतनामजपस्व च ॥२९॥
भव ज्ञानपरा नित्यं कुरु व्रतमनुत्तमम्
अशून्यशयनं पुण्यं व्रतं पापप्रणाशकम् ॥३०॥
समाचष्ट स धर्मात्मा सर्वज्ञानप्रकाशकम्
ज्ञानं स्तोत्रं व्रतं ध्यानं विष्णोश्चैव महात्मनः ॥३१॥
विष्णुरुवाच-
तस्मात्सा हि प्रजग्राह संस्थिता निर्जने वने
सर्वद्वंद्वविनिर्मुक्ता संजाता तपसि स्थिता ॥३२॥
व्रतं चक्रे जिताहारा निराधारा सुदुःखिता
कामक्रोधविहीना सा वर्गं संयम्य नित्यशः ॥३३॥
इंद्रियाणां महाराज महामोहं निरस्य सा
अब्दे चतुर्थके प्राप्ते सुप्रसन्नो जनार्दनः ॥३४॥
तस्यै वरं दातुकामश्चायातो वरनायकः
तस्यै संदर्शयामास स्वरूपं वरदः प्रभुः ॥३५॥
सूत उवाच-
इंद्रनीलघनश्यामं शंखचक्रगदाधरम्
सर्वाभरणशोभाढ्यं पद्महस्तं महेश्वरम् ॥३६॥
बद्धांजलिपुटा भूत्वा वेपमाना निराश्रया
उवाच गद्गदैर्वाक्यैः प्रणता मधुसूदनम् ॥३७॥
तेजसा तव दिव्येन स्थातुं शक्नोमि नैव हि
दिव्यरूपो भवेः कस्त्वं कृपया मम चाग्रतः ॥३८॥
कथयस्व प्रसादेन किमत्र तव कारणम्
सर्वमेव प्रसादेन प्रब्रवीहि महामते ॥३९॥
देवमेवं विजानामि तेजसा इंगितैस्तव
ज्ञानहीना जगन्नाथ न जाने रूपनामनी ॥४०॥
किं ब्रह्मा वा भवान्विष्णुः किं वा शंकर एव हि
एवमुक्त्वा प्रणम्यैवं दंडवद्धरणीं गता ॥४१॥
तामुवाच जगन्नाथः प्रणतां राजनंदिनीम्
श्रीभगवानुवाच-
त्रयाणामपि देवानामंतरं नास्ति शोभने ॥४२॥
ब्रह्मा समर्चितो येन शंकरो वा वरानने
तेनाहमर्चितो नित्यं नात्र कार्या विचारणा ॥४३॥
एतौ ममाभिन्नतरौ नित्यं चापि त्रिरूपवान्
अहं हि पूजितो यैश्च तावेतौ तैः सुपूजितौ ॥४४॥
अहं देवो हृषीकेशः कृपया तव चागतः
स्तवेनानेन पुण्येन व्रतेन नियमेन च ॥४५॥
संजाता कल्मषैर्हीना वरं वरय शोभने
दिव्यादेव्युवाच-
विजयस्व हृषीकेश कृष्णक्लेशापहारक ॥४६॥
नमामि चरणद्वंद्वं मामुद्धर सुरेश्वर
वरं मे दातुकामोऽसि चक्रपाणे प्रसीद मे ॥४७॥
आत्मपादयुगस्यापि भक्तिं देहि ममानघ
दर्शयस्व जगन्नाथ मोक्षमार्गं निरामयम् ॥४८॥
दासत्वं देहि वैकुंठ यदि तुष्टो जनार्दन
श्रीभगवानुवाच-
एवमस्तु महाभागे गच्छ निर्धूतकल्मषा ॥४९॥
वैष्णवं परमं लोकं दुर्लभं योगिभिः सदा
गच्छ गच्छ परं लोकं प्रसादान्मम सांप्रतम् ॥५०॥
एवमुक्ते ततो वाक्ये माधवेन महात्मना
दिव्यादेवी अभूद्दिव्या सूर्यतेजः समप्रभा ॥५१॥
पश्यतां सर्वलोकानां दिव्याभरणभूषिता
दिव्यमालान्विता सा च दिव्यहारविलंबिनी ॥५२॥
गता सा वैष्णवं लोकं दाहप्रलयवर्जितम्
पुनः पक्षी समायातः स्वगृहं हर्षसंयुतः ॥५३॥
तत्सर्वं कथयामास पितरं प्रति सत्तमः ॥५४॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रेऽष्टाशीतितमोऽध्यायः ॥८८॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP