संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ५४

भूमिखंडः - अध्यायः ५४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


विष्णुरुवाच-
एवमुक्ता गता दूती तया सुकलया तदा
समासेन सुसंप्रोक्तमवधार्य पुरंदरः ॥१॥
तदर्थं भाषितं तस्याः सत्यधर्मसमन्वितम्
आलोच्य साहसं धैर्यं ज्ञानमेव पुरंदरः ॥२॥
ईदृशं हि वदेत्का हि नारी भूत्वा महीतले
योगरूपं सुसंशिष्टं न्यायोदैः क्षालितं वचः ॥३॥
पवित्रेयं महाभागा सत्यरूपा न संशयः
त्रैलोक्यस्य समस्तस्य धुरं धर्तुं भवेत्क्षमा ॥४॥
एतदर्थं विचार्यैव जिष्णुः कंदर्पमब्रवीत्
त्वया सह गमिष्यामि द्रष्टुं तां कृकलप्रियाम् ॥५॥
प्रत्युवाच सहस्राक्षं मन्मथो बलदर्पितः
गम्यतां तत्र देवेश यत्रास्ते सा पतिव्रता ॥६॥
मानं वीर्यं बलं धैर्यं तस्याः सत्यं पतिव्रतम्
गत्वाहं नाशयिष्यामि कियन्मात्रा सुरेश्वर ॥७॥
समाकर्ण्य सहस्राक्षो वचनं मन्मथस्य च
भो भोनंग शृणुष्व त्वमधिकं भाषितं मुधा ॥८॥
सुदृढा सत्यवीर्येण सुस्थिरा धर्मकर्मभिः
सुकलेयमजेया वै तत्र ते पौरुषं नहि ॥९॥
इत्याकर्ण्य ततः क्रुद्धो मन्मथस्त्विन्द्रमब्रवीत्
ऋषीणां देवतानां च बलं मया प्रणाशितम् ॥१०॥
अस्या बलं कियन्मात्रं भवता मम कथ्यते
पश्यतस्तव देवेश नाशयिष्यामि तां स्त्रियम् ॥११॥
नवनीतं यथा चाग्नेस्तेजो दृष्ट्वा द्रवं व्रजेत्
तथेमां द्रावयिष्यामि स्वेन रूपेण तेजसा ॥१२॥
गच्छ तत्र महत्कार्यमुपस्थं सांप्रतं ध्रुवम्
कस्मात्कुत्ससि मे तेजस्त्रैलोक्यस्य विनाशनम् ॥१३॥
विष्णुरुवाच-
आकर्ण्य वाक्यं तु मनोभवस्य एतामसाध्यां तव कामजाने
धैर्यं समुद्यम्य च पुण्यदेहां पुण्येन पुण्यां बहुपुण्यचाराम् ॥१४॥
पश्यामि ते पौरुषमुग्रवीर्यमितो हि गत्वा तु धनुष्मता वै
तेनापि सार्धं प्रजगाम भूयो रत्या च दूत्या च पतिव्रतां ताम् ॥१५॥
एकां सुपुण्यां स्वगृहस्थितां तां ध्यानेन पत्युश्चरणे नियुक्ताम्
यथा सुयोगी प्रविधाय चित्तं विकल्पहीनं न च कल्पयेत ॥१६॥
अत्यद्भुतं रूपमनंततेजोयुतं चकाराथ सतीप्रमोहम्
नीलांचितं भोगयुतं महात्मा झषध्वजश्चैव पुरंदरश्च ॥१७॥
दृष्ट्वा सुलीलं पुरुषं महांतं चरंतमेवं परिकामभावम्
जाया हि वैश्यस्य महात्मनस्तु मेने न सा रूपयुतं गुणज्ञम् ॥१८॥
अंभो यथा पद्मदले गतं वै प्रयाति मुक्ताफलकस्य कीर्तिम्
तद्वत्स्वभावः परिसत्ययुक्तो जज्ञे च तस्यास्तु पतिव्रतायाः ॥१९॥
अनेन दूती परिप्रेषिता पुरा यामां युवत्या ह गुणज्ञमेनम्
लीलास्वरूपं बहुधात्मभावं ममैष सर्वं परिदर्शयेच्च ॥२०॥
ममैव कालं प्रबलं विचिंत्यागतो हि मे कांतगुणैश्च सत्खलः
रत्यासमेतस्तु कथं च जीवेत्सत्याश्मभारेण प्रमर्दितश्च ॥२१॥
ममापि भावं परिगृह्य कांतो जीवेत्कियान्वापि सुबुद्धियुक्तः
शून्यो हि कायो मम चास्ति सद्यश्चेष्टाविहीनो मृतकल्प एव ॥२२॥
कायस्य ग्रामस्य प्रजाः प्रनष्टाः सुविक्रियाख्यं परिगृह्य कर्म
ममाधिकेनापि समं सुकांतं स ऊर्द्ध्वशोभामनयच्च कामः ॥२३॥
यदामृतो बलवान्हर्षयुक्तः स्वयंदृशा वै परिनृत्यमानः
तथा अनेनापि प्रभाषयेद्भुतं यो मां हि वाञ्छत्यपि भोक्तुकामः ॥२४॥
एवं विचार्यैव तदा महासती सत्याख्यरज्ज्वा दृढबद्धचेतना
गृहं स्वकीयं प्रविवेश सा तदा तत्तस्यभावं नियमेन वेत्तुम् ॥२५॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे- चतुःपंचाशत्तमोऽध्यायः ॥५४॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP