सृष्टिखण्डः - अध्यायः २०

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ब्रह्मोवाच॥
नारद त्वं शृणु मुने शिवागमनसत्तमम्॥
कैलासे पर्वतश्रेष्ठे कुबेरस्य तपोबलात् ॥१॥
निधिपत्व वरं दत्त्वा गत्वा स्वस्थानमुत्तमम्॥
विचिन्त्य हृदि विश्वेशः कुबेरवरदायकः ॥२॥
विध्यंगजस्स्वरूपो मे पूर्णः प्रलयकार्यकृत्॥
तद्रूपेण गमिष्यामि कैलासं गुह्यकालयम् ॥३॥
रुद्रो हृदयजो मे हि पूर्णांशो ब्रह्मनिष्फलः॥
हरि ब्रह्मादिभिस्सेव्यो मदभिन्नो निरंजन ॥४॥
तत्स्वरूपेण तत्रैव सुहृद्भूवा विलास्यहम्॥
कुबेरस्य च वत्स्यामि करिष्यामि तपो महत् ॥५॥
इति संचिंत्य रुद्रोऽसौ शिवेच्छां गंतुमुत्सुकः॥
ननाद तत्र ढक्कां स्वां सुगतिं नादरूपिणीम् ॥६॥
त्रैलोक्यामानशे तस्या ध्वनिरुत्साहकारकः॥
आह्वानगतिसंयुक्तो विचित्रः सांद्रशब्दकः ॥७॥
तच्छ्रुत्वा विष्णुब्रह्माद्याः सुराश्च मुनयस्तथा॥
आगमा निगमामूर्तास्सिद्धा जग्मुश्च तत्र वै ॥८॥
सुरासुराद्यास्सकलास्तत्र जग्मुश्च सोत्सवाः॥
सर्वेऽपि प्रमथा जग्मुर्यत्र कुत्रापि संस्थिताः ॥९॥
गणपाश्च महाभागास्सर्वलोक नमस्कृताः॥
तेषां संख्यामहं वच्मि सावधानतया शृणु ॥१०॥
अभ्ययाच्छंखकर्णश्च गणकोट्या गणेश्वरः॥
दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव च ॥११॥
चतुःषष्ट्या विशाखश्च नवभिः पारियात्रकः॥
षड्भिः सर्वान्तकः श्रीमान्दुन्दुभोऽष्टाभिरेव च ॥१२॥
जालंको हि द्वादशभिः कोटिभिर्गणपुंगवः॥
सप्तभिस्समदः श्रीमाँस्तथैव विकृताननः ॥१३॥
पंचभिश्च कपाली हि षड्भिः सन्दारकश्शुभः॥
कोटिकोटिभिरेवेह कण्डुकः कुण्डकस्तथा ॥१४॥
विष्टंभोऽष्टाभिरगमदष्टभिश्चन्द्रतापनः ॥१५॥
महाकेशस्सहस्रेण कोटीनां गणपो वृतः ॥१६॥
कुण्डी द्वादशभिर्वाहस्तथा पर्वतकश्शुभः॥
कालश्च कालकश्चैव महाकालः शतेन वै ॥१७॥
अग्निकश्शतकोट्या वै कोट्याभिमुख एव च॥
आदित्यमूर्द्धा कोट्या च तथा चैव धनावहः ॥१८॥
सन्नाहश्च शतेनैव कुमुदः कोटिभिस्तथा॥
अमोघः कोकिलश्चैव कोटिकोट्या सुमंत्रकः ॥१९॥
काकपादोऽपरः षष्ट्या षष्ट्या संतानकः प्रभुः॥
महाबलश्च नवभिर्मधु पिंगश्च पिंगलः ॥२०॥
नीलो नवत्या देवेशं पूर्णभद्रस्तथैव च॥
कोटीनां चैव सप्तानां चतुर्वक्त्रो महाबलः ॥२१॥
कोटिकोटिसहस्राणां शतैर्विंशतिभिर्वृतः॥
तत्राजगाम सर्वेशः कैलासगमनाय वै ॥२२॥
काष्ठागूढश्चतुष्षष्ट्या सुकेशो वृषभस्तथा॥
कोटिभिस्सप्तभिश्चैत्रो नकुलीशस्त्वयं प्रभुः ॥२३॥
लोकांतकश्च दीप्तात्मा तथा दैत्यांतकः प्रभुः॥
देवो भृंगी रिटिः श्रीमान्देवदेवप्रियस्तथा ॥२४॥
अशनिर्भानुकश्चैव चतुष्षष्ट्या सनातनः॥
नंदीश्वरो गणाधीशः शतकोट्या महाबलः ॥२५॥
एते चान्ये च गणपा असंख्याता महाबलः॥
सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ॥२६॥
सर्वे चंद्रावतंसाश्च नीलकण्ठास्त्रिलोचनाः॥
हारकुण्डलकेयूरमुकुटाद्यैरलंकृताः ॥२७॥
ब्रह्मेन्द्रविष्णुसंकाशा अणिमादि गणैर्वृताः॥
सूर्यकोटिप्रतीकाशास्तत्राजग्मुर्गणेश्वराः ॥२८॥
एते गणाधिपाश्चान्ये महान्मानोऽमलप्रभाः॥
जग्मुस्तत्र महाप्रीत्या शिवदर्शनलालसाः ॥२९॥
गत्वा तत्र शिवं दृष्ट्वा नत्वा चक्रुः परां नुतिम्॥
सर्वे साञ्जलयो विष्णुप्रमुखा नतमस्तकाः ॥३०॥
इति विष्ण्वादिभिस्सार्द्धं महेशः परमेश्वरः॥
कैलासमगमत्प्रीत्या कुबेरस्य महात्मनः ॥३१॥
कुबेरोप्यागतं शंभुं पूजयामास सादरम्॥
भक्त्या नानोपहारैश्च परिवारसमन्वितः ॥३२॥
ततो विष्ण्वादिकान्देवान्गणांश्चान्यानपि ध्रुवम्॥
शिवानुगान्समानर्च शिवतोषणहेतवे ॥३३॥
अथ शम्भुस्तमालिंग्य कुबेरं प्रीतमानसः॥
मूर्ध्निं चाघ्राय संतस्थावलकां निकषाखिलैः ॥३४॥
शशास विश्वकर्माणं निर्माणार्थं गिरौ प्रभुः॥
नानाभक्तैर्निवासाय स्वपरेषां यथोचितम् ॥३५॥
विश्वकर्मा ततो गत्वा तत्र नानाविधां मुने॥
रचनां रचयामास द्रुतं शम्भोरनुज्ञया ॥३६॥
अथ शम्भुः प्रमुदितो हरिप्रार्थनया तदा ॥३७॥
कुबेरानुग्रहं कृत्वा ययौ कैलासपर्वतम्॥
सुमुहूर्ते प्रविश्यासौ स्वस्थानं परमेश्वरः ॥३८॥
अकरोदखिलान्प्रीत्या सनाथान्भक्तवत्सलः॥
अथ सर्वे प्रमुदिता विष्णुप्रभृतयस्सुराः॥
मुनयश्चापरे सिद्धा अभ्यषिंचन्मुदा शिवम् ॥३९॥
समानर्चुः क्रमात्सर्वे नानोपायनपाणयः॥
नीराजनं समाकार्षुर्महोत्सवपुरस्सरम् ॥४०॥
तदासीत्सुमनोवृष्टिर्मंगलायतना मुने॥
सुप्रीता ननृतुस्तत्राप्सरसो गानतत्पराः ॥४१॥
जयशब्दो नमश्शब्दस्तत्रासीत्सर्वसंस्कृतः॥
तदोत्साहो महानासीत्सर्वेषां सुखवर्धनः ॥४२॥
स्थित्वा सिंहासने शंभुर्विराजाधिकं तदा॥
सर्वैस्संसेवितोऽभीक्ष्णं विष्ण्वाद्यैश्च यथोचितम् ॥४३॥
अथ सर्वे सुराद्याश्च तुष्टुवुस्तं पृथक्पृथक्॥
अर्थ्याभिर्वाग्भिरिष्टाभिश्शकरं लोकशंकरम् ॥४४॥
प्रसन्नात्मा स्तुतिं श्रुत्वा तेषां कामान्ददौ शिवः॥
मनोभिलषितान्प्रीत्या वरान्सर्वेश्वरः प्रभुः ॥४५॥
शिवाज्ञयाथ ते सर्वे स्वंस्वं धाम ययुर्मुने॥
प्राप्तकामाः प्रमुदिता अहं च विष्णुना सह ॥४६॥
उपवेश्यासने विष्णुं माञ्च शम्भुरुवाच ह॥
बहु सम्बोध्य सुप्रीत्यानुगृह्य परमेश्वरः ॥४७॥
शिव उवाच॥
हे हरे हे विधे तातौ युवां प्रियतरौ मम॥
सुरोत्तमौ त्रिजगतोऽवनसर्गकरौ सदा ॥४८॥
गच्छतं निर्भयन्नित्यं स्वस्थानश्च मदाज्ञया॥
सुखप्रदाताहं वै वाम्विशेषात्प्रेक्षकस्सदा ॥४९॥
इत्याकर्ण्य वचश्शम्भोस्सुप्रणम्य तदाज्ञया॥
अहं हरिश्च स्वं धामागमाव प्रीतमानसौ ॥५०॥
तदानीमेव सुप्रीतश्शंकरो निधिपम्मुदा॥
उपवेश्य गृहीत्वा तं कर आह शुभं वचः ॥५१॥
 ॥शिव उवाच॥
तव प्रेम्णा वशीभूतो मित्रतागमनं सखे॥
स्वस्थानङ्गच्छ विभयस्सहायोहं सदानघ ॥५२॥
इत्याकर्ण्य वचश्शम्भोः कुबेरः प्रीतमानसः॥
तदाज्ञया स्वकं धाम जगाम प्रमुदान्वितः ॥५३॥
स उवाच गिरौ शम्भुः कैलासे पर्वतोत्तमे॥
सगणो योगनिरतस्स्वच्छन्दो ध्यान तत्परः ॥५४॥
क्वचिद्दध्यौ स्वमात्मानं क्वचिद्योगरतोऽभवत्॥
इतिहासगणान्प्रीत्यावादीत्स्वच्छन्दमानसः ॥५५॥
क्वचित्कैलास कुधरसुस्थानेषु महेश्वरः॥
विजहार गणैः प्रीत्या विविधेषु विहारवित् ॥५६॥
इत्थं रुद्रस्वरूपोऽसौ शंकरः परमेश्वरः॥
अकार्षीत्स्वगिरौ लीला नाना योगिवरोऽपि यः ॥५७॥
नीत्वा कालं कियन्तं सोऽपत्नीकः परमेश्वरः॥
पश्चादवाप स्वाम्पत्नीन्दक्षपत्नीसमुद्भवाम् ॥५८॥
विजहार तया सत्या दक्षपुत्र्या महेश्वरः॥
सुखी बभूव देवर्षे लोकाचारपरायणः ॥५९॥
इत्थं रुद्रावतारस्ते वर्णितोऽयं मुनीश्वर॥
कैलासागमनञ्चास्य सखित्वान्निधिपस्य हि ॥६०॥
तदन्तर्गतलीलापि वर्णिता ज्ञानवर्धिनी॥
इहामुत्र च या नित्यं सर्वकामफलप्रदा ॥६१॥
इमां कथाम्पठेद्यस्तु शृणुयाद्वा समाहितः॥
इह भुक्तिं समासाद्य लभेन्मुक्तिम्परत्र सः ॥६२॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे कैलासोपाख्याने शिवस्य कैलासगमनं नाम विंशोऽध्यायः ॥२०॥

N/A

References : N/A
Last Updated : October 05, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP