सृष्टिखण्डः - अध्यायः १८

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ब्रह्मोवाच॥
श्रुत्वा तथा स वृत्तांतं प्राक्तनं स्वं विनिंद्य च॥
कांचिद्दिशं समालोक्य निर्ययौ दीक्षितांगजः ॥१॥
कियच्चिरं ततो गत्वा यज्ञदत्तात्मजस्स हि॥
दुष्टो गुणनिधिस्तस्थौ गतोत्साहो विसर्जितः ॥२॥
चिंतामवाप महतीं क्व यामि करवाणि किम्॥
नाहमभ्यस्तविद्योऽस्मि न चैवातिधनोऽस्म्यहम् ॥३॥
देशांतरे यस्य धनं स सद्यस्सुखमेधते॥
भयमस्ति धने चौरात्स विघ्नस्सर्वतोभवः ॥४॥
याजकस्य कुले जन्म कथं मे व्यसनं महत्॥
अहो बलीयान्हि विधिर्भाविकर्मानुसंधयेत् ॥५॥
भिक्षितुन्नाधिगच्छामि न मे परिचितिः क्वचित्॥
न च पार्श्वे धनं किञ्चित्किमत्र शरणं भवेत् ॥६॥
सदानभ्युदिते भानौ प्रसूर्मे मिष्टभोजनम्॥
दद्यादद्यात्र कं याचे न चेह जननी मम ॥७॥
ब्रह्मोवाच ॥
इति चिंतयतस्तस्य बहुशस्तत्र नारद॥
अति दीनं तरोर्मूले भानुरस्ताचलं गतः ॥८॥
एतस्मिन्नेव समये कश्चिन्माहेश्वरो नरः॥
सहोपहारानादाय नगराद्बहिरभ्यगात्॥९॥
नानाविधान्महादिव्यान्स्वजनैः परिवारितः॥
समभ्यर्चितुमीशानं शिवरात्रावुपोषितः ॥१०॥
शिवालयं प्रविश्याथ स भक्तश्शिवसक्तधीः॥
यथोचितं सुचित्तेन पूजयामास शंकरम् ॥११॥
पक्वान्नगंधमाघ्राय यज्ञदत्तात्मजो द्विजः॥
पितृत्यक्तो मातृहीनः क्षुधितः स तमन्वगात् ॥१२॥
इदमन्नं मया ग्राह्यं शिवायोपकृतं निशि॥
सुप्ते शैवजने दैवात्सर्वस्मिन्विविधं महत् ॥१३॥
इत्याशामवलम्ब्याथ द्वारि शंभोरुपाविशत्॥
ददर्श च महापूजां तेन भक्तेन निर्मिताम् ॥१४॥
विधाय नृत्यगीतादि भक्तास्सुप्ताः क्षणे यदा॥
नैवेद्यं स तदादातुं भर्गागारं विवेश ह ॥१५॥
दीपं मंदप्रभं दृष्ट्वा पक्वान्नवीक्षणाय सः॥
निजचैलांजलाद्वर्तिं कृत्वा दीपं प्रकाश्य च ॥१६॥
यज्ञदत्तात्मजस्सोऽथ शिवनैवेद्यमादरात्॥
जग्राह सहसा प्रीत्या पक्वान्न वहुशस्ततः ॥१७॥
ततः पक्वान्नमादाय त्वरितं गच्छतो बहिः॥
तस्य पादतलाघातात्प्रसुप्तः कोप्यबुध्यत ॥१८॥
कोऽयं कोऽयं त्वरापन्नो गृह्यतां गृह्यता मसौ॥
इति चुक्रोश स जनो गिरा भयमहोच्चया ॥१९॥
यावद्भयात्समागत्य तावत्स पुररक्षकैः॥
पलायमानो निहतः क्षणादंधत्वमागतः ॥२०॥
अभक्षयच्च नैवेद्यं यज्ञदत्तात्मजो मुने॥
शिवानुग्रहतो नूनं भाविपुण्यबलान्न सः ॥२१॥
अथ बद्धस्समागत्य पाशमुद्गरपाणिभिः॥
निनीषुभिः संयमनीं याम्यैस्स विकटैर्भटैः ॥२२॥
तावत्पारिषदाः प्राप्ताः किंकि णीजालमालिनः॥
दिव्यं विमानमादाय तं नेतुं शूलपाणयः ॥२३॥
शिवगणा ऊचुः ॥
मुंचतैनं द्विजं याम्या गणाः परम धार्मिकम्॥
दण्डयोग्यो न विप्रोऽसौ दग्धसर्वाघसंचयः ॥२४॥
इत्याकर्ण्य वचस्ते हि यमराजगणास्ततः॥
महादेवगणानाहुर्बभूवुश्चकिता भृशम् ॥२५॥
शंभोर्गणानथालोक्य भीतैस्तैर्यमकिंकरैः॥
अवादि प्रणतैरित्थं दुर्वृत्तोऽयं गणा द्विजः ॥२६॥
यमगणा ऊचुः॥
कुलाचारं प्रतीर्य्यैष पित्रोर्वाक्यपराङ्मुखः॥
सत्यशौचपरिभ्रष्टस्संध्यास्नानविवर्जितः ॥२७॥
आस्तां दूरेस्य कर्मान्यच्छिवनिर्माल्यलंघकः॥
प्रत्यक्षतोऽत्र वीक्षध्वमस्पृश्योऽयं भवादृशाम् ॥२८॥
शिवनिर्माल्यभोक्तारश्शिवनिर्म्माल्यलंघकाः॥
शिवनिर्माल्यदातारः स्पर्शस्तेषां ह्यपुण्यकृत् ॥२९॥
विषमालोक्य वा पेयं श्रेयो वा स्पर्शनं परम्॥
सेवितव्यं शिवस्वं न प्राणः कण्ठगतैरपि ॥३०॥
यूयं प्रमाणं धर्मेषु यथा न च तथा वयम्॥
अस्ति चेद्धर्मलेशोस्य गणास्तं शृणुमो वयम् ॥३१॥
इत्थं तद्वाक्यमाकर्ण्य यामानां शिवकिंकराः॥
स्मृत्वा शिवपदाम्भोजं प्रोचुः पारिषदास्तु तान् ॥३२॥
शिवकिंकरा ऊचुः ॥
किंकराश्शिवधर्मा ये सूक्ष्मास्ते तु भवादृशैः॥
स्थूललक्ष्यैः कथं लक्ष्या लक्ष्या ये सूक्ष्मदृष्टिभिः ॥३३॥
अनेनानेनसा कर्म यत्कृतं शृणुतेह तत्॥
यज्ञदत्तात्मजेनाथ सावधानतया गणाः ॥३४॥
पतंती लिंगशिरसि दीपच्छाया निवारिता॥
स्वचैलांचलतोऽनेन दत्त्वा दीपदशां निशि ॥३९॥
अपरोपि परो धर्मो जातस्तत्रास्य किंकरः॥
शृण्वतः शिवनामानि प्रसंगादपि गृह्णताम् ॥३६॥
भक्तेन विधिना पूजा क्रियमाणा निरीक्षिता॥
उपोषितेन भूतायामनेनास्थितचेतसा ॥३७॥
शिवलोकमयं ह्यद्य गंतास्माभिस्सहैव तु॥
कंचित्कालं महाभोगान्करिष्यति शिवानुगः ॥३८॥
कलिंगराजो भविता ततो निर्धूतकल्मषः॥
एष द्विजवरो नूनं शिवप्रियतरो यतः ॥३९॥
अन्यत्किंचिन्न वक्तव्यं यूयं यात यथागतम्॥
यमदूतास्स्वलोकं तु सुप्रसन्नेन चेतसा ॥४०॥
 ॥ब्रह्मोवाच ॥
इत्याकर्ण्य वचस्तेषां यमदूता मुनीश्वर॥
यथागतं ययुस्सर्वे यमलोकं पराङ्मुखाः ॥४१॥
सर्वं निवेदयामासुश्शमनाय गणा मुने॥
तद्वृत्तमादितः प्रोक्तं शंभुदूतैश्च धर्मतः ॥४२॥
 ॥धर्मराज उवाच ॥
सर्वे शृणुत मद्वाक्यं सावधानतया गणाः॥
तदेव प्रीत्या कुरुत मच्छासनपुरस्सरम् ॥४३॥
ये त्रिपुण्ड्रधरा लोके विभूत्या सितया गणाः॥
ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ॥४४॥
उद्धूलनकरा ये हि विभूत्या सितया गणाः॥
ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ॥४५॥
शिववेषतया लोके येन केनापि हेतुना॥
ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ॥४६॥
ये रुद्राक्षधरा लोके जटाधारिण एव ये॥
ते सवे परिहर्तव्या नानेतव्याः कदाचन ॥४७॥
उपजीवनहेतोश्च शिववेषधरा हि ये॥
ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ॥४८॥
दंभेनापि च्छलेनापि शिववेषधरा हि ये॥
ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ॥४९॥
एवमाज्ञापयामास स यमो निज किंकरान्॥
तथेति मत्वा ते सर्वे तूष्णीमासञ्छुचिस्मिताः ॥५०॥
 ॥ब्रह्मोवाच॥
पार्षदैर्यमदूतेभ्यो मोचितस्त्विति स द्विजः॥
शिवलोकं जगामाशु तैर्गणैश्शुचिमानसः ॥५१॥
तत्र भुक्त्वाखिलान्भोगान्संसेव्य च शिवाशिवौ॥
अरिंदमस्य तनयः कलिंगाधिपतेरभूत् ॥५२॥
दम इत्यभिधानोऽभूच्छिवसेवापरायणः॥
बालोऽपि शिशुभिः साकं शिवभक्तिं चकार सः ॥५३॥
क्रमाद्राज्यमवापाथ पितर्युपरते युवा॥
प्रीत्या प्रवर्तयामास शिवधर्मांश्च सर्वशः ॥५४॥
नान्यं धर्मं स जानाति दुर्दमो भूपतिर्दमः॥
शिवालयेषु सर्वेषु दीपदानादृते द्विजः ॥५५॥
ग्रामाधीशान्समाहूय सर्वान्स विषयस्थितान्॥
इत्थमाज्ञापयामास दीपा देयाश्शिवालये ॥५६॥
अन्यथा सत्यमेवेदं स मे दण्ड्यो भविष्यति॥
दीप दानाच्छिवस्तुष्टो भवतीति श्रुतीरितम् ॥५७॥
यस्ययस्याभितो ग्रामं यावतश्च शिवालयाः॥
तत्रतत्र सदा दीपो द्योतनीयोऽविचारितम् ॥५८॥
ममाज्ञाभंगदोषेण शिरश्छेत्स्याम्यसंशयम्॥
इति तद्भयतो दीपा दीप्ताः प्रतिशिवालयम् ॥५९॥
अनेनैव स धर्मेण यावज्जीवं दमो नृपः॥
धर्मर्द्धिं महतीं प्राप्य कालधर्मवशं गतः ॥६०॥
स दीपवासनायोगाद्बहून्दीपान्प्रदीप्य वै॥
अलकायाः पतिरभूद्रत्नदीपशिखाश्रयः ॥६१॥
एवं फलति कालेन शिवेऽल्पमपि यत्कृतम्॥
इति ज्ञात्वा शिवे कार्यं भजनं सुसुखार्थिभिः ॥६२॥
क्व स दीक्षितदायादः सर्वधर्मारतिः सदा॥
शिवालये दैवयोगाद्यातश्चोरयितुं वसु॥
स्वार्थदीपदशोद्योतलिंगमौलितमोहरः ॥६३॥
कलिंगविषये राज्यं प्राप्तो धर्मरतिं सदा॥
शिवालये समुद्दीप्य दीपान्प्राग्वासनोदयात् ॥६४॥
कैषा दिक्पालपदवी मुनीश्वर विलोकय॥
मनुष्यधर्मिणानेन सांप्रतं येह भुज्यते ॥६५॥
इति प्रोक्तं गुणनिधेर्यज्ञदत्तात्मजस्य हि॥
चरितं शिवसंतोषं शृण्वतां सर्वकामदम् ॥६६॥
सर्वदेवशिवेनासौ सखित्वं च यथेयिवान्॥
तदप्येकमना भूत्वा शृणु तात ब्रवीमि ते ॥६७॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्यु पाख्याने कैलाशगमनोपाख्याने गुणनिधिसद्गतिवर्णनो नामाष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : October 05, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP