सृष्टिखण्डः - अध्यायः १९

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ब्रह्मोवाच॥
पाद्मे कल्पे मम सुरा ब्रह्मणो मानसात्सुतात्॥
पुलस्त्याद्विश्रवा जज्ञे तस्य वैश्रवणस्सुतः ॥१॥
तेनेयमलका भुक्ता पुरी विश्वकृता कृता॥
आराध्य त्र्यंबकं देवमत्युग्रतपसा पुरा ॥२॥
व्यतीते तत्र कल्पे वै प्रवृत्ते मेघवाहने॥
याज्ञदत्तिरसौ श्रीदस्तपस्तेपे सुदुस्सहम् ॥३॥
भक्ति प्रभावं विज्ञाय शंभोस्तद्दीपमात्रतः॥
पुरा पुरारेस्संप्राप्य काशिकां चित्प्रकाशिकाम् ॥४॥
शिवैकादशमुद्बोध्य चित्तरत्नप्रदीपकैः॥
अनन्यभक्तिस्नेहाढ्यस्तन्मयो ध्याननिश्चलः ॥५॥
शिवैक्यं सुमहापात्रं तपोग्निपरिबृंहितम्॥
कामक्रोधमहाविघ्नपतंगाघात वर्जितम् ॥६॥
प्राणसंरोधनिर्वातं निर्मलं निर्मलेक्षणात्॥
संस्थाप्य शांभवं लिंगं सद्भावकुसुमार्चितम् ॥७॥
तावत्तताप स तपस्त्वगस्थिपरिशेषितम्॥
यावद्बभूव तद्वर्णं वर्षाणामयुतं शतम् ॥८॥
ततस्सह विशालाक्ष्या देवो विश्वेश्वररस्वयम्॥
अलकापतिमालोक्य प्रसन्नेनांतरात्मना ॥९॥
लिंगे मनस्समाधाय स्थितं स्थाणुस्वरूपिणम्॥
उवाच वरदोऽस्मीति तदाचक्ष्वालकापते ॥१०॥
उन्मील्य नयने यावत्स पश्यति तपोधनः॥
तावदुद्यत्सहस्रांशु सहस्राधिकतेजसम् ॥११॥
पुरो ददर्श श्रीकंठं चन्द्रचूडमुमाधवम्॥
तत्तेजः परिभूताक्षितेजाः संमील्य लोचने ॥१२॥
उवाच देवदेवेशं मनोरथपदातिगम्॥
निजांघ्रिदर्शने नाथ दृक्सामर्थ्यं प्रयच्छ मे ॥१३॥
अयमेव वरो नाथ यत्त्वं साक्षान्निरीक्ष्यसे॥
किमन्येन वरेणेश नमस्ते शशिशेखर ॥१४॥
इति तद्वचनं श्रुत्वा देवदेव उमापतिः॥
ददौ दर्शनसामर्थ्यं स्पृष्ट्वा पाणितलेन तम् ॥१५॥
प्रसार्य नयने पूर्वमुमामेव व्यलोकयत्॥
तोऽसौ याज्ञदत्तिस्तु तत्सामर्थ्यमवाप्य च ॥१६॥
शंभोस्समीपे का योषिदेषा सर्वांगसुन्दरी॥
अनया किं तपस्तप्तं ममापि तपसोऽधिकम् ॥१७॥
अहो रूपमहो प्रेम सौभाग्यं श्रीरहो भृशम्॥
इत्यवादीदसौ पुत्रो मुहुर्मुहुरतीव हि ॥१८॥
क्रूर दृग्वीक्षते यावत्पुनःपुनरिदं वदन्॥
तावत्पुस्फोट तन्नेत्रं वारां वामाविलोकनात् ॥१९॥
अथ देव्यब्रवीद्देव किमसौ दुष्टतापसः॥
असकृद्वीक्ष्य मां वक्ति कुरु त्वं मे तपःप्रभाम् ॥२०॥
असकृद्दक्षिणेनाक्ष्णा पुनर्मामेव पश्यति॥
असूयमानो मे रूपप्रेम सौभाग्यसंपद ॥२१॥
इति देवीगिरं श्रुत्वा प्रहस्य प्राह तां प्रभुः॥
उमे त्वदीयः पुत्रोऽयं न च क्रूरेण चक्षुषा ॥२२॥
संपश्यति तपोलक्ष्मीं तव किं त्वधिवर्णयेत्॥
इति देवीं समाभाष्य तमीशः पुनरब्रवीत् ॥२३॥
वरान्ददामि ते वत्स तपसानेन तोषितः॥
निधीनामथ नाथस्त्वं गुह्यकानां भवेश्वरः ॥२४॥
यक्षाणां किन्नराणां च राज्ञां राज च सुव्रतः॥
पतिः पुण्यजनानां च सर्वेषां धनदो भव ॥२५॥
मया सख्यं च ते नित्यं वत्स्यामि च तवांतिके॥
अलकां निकषा मित्र तव प्रीतिविवृद्धये ॥२६॥
आगच्छ पादयोरस्याः पत ते जननी त्वियम्॥
याज्ञदत्ते महाभक्त सुप्रसन्नेन चेतसा ॥२७॥
ब्रह्मोवाच॥
इति दत्त्वा वरान्देवः पुनराह शिवां शिवः॥
प्रसादं कुरु देवेशि तपस्विन्यंगजेऽत्र वै ॥२८॥
इत्याकर्ण्य वचश्शंभोः पार्वती जगदम्बिका॥
अब्रवीद्याज्ञदत्तिं तं सुप्रसन्नेन चेतसा ॥२९॥
देव्युवाच॥
वत्स ते निर्मला भक्तिर्भवे भवतु सर्वदा॥
भवैकपिंगो नेत्रेण वामेन स्फुटितेन ह ॥३०॥
देवेन दत्ता ये तुभ्यं वरास्संतु तथैव ते॥
कुबेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत ॥३१॥
इति दत्त्वा वरान्देवो देव्या सह महेश्वरः॥
धनदायाविवेशाथ धाम वैश्वेश्वराभिधम् ॥३२॥
इत्थं सखित्वं श्रीशंभोः प्रापैष धनदः पुरम्॥
अलकान्निकषा चासीत्कैलासश्शंकरालयः ॥३३॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे कैलासगमनोपाख्याने कुबेरस्य शिवमित्रत्ववर्णनो नामैकोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : October 05, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP